73001: देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्

Padacheda: देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसाम् | S | 6 | 3 |

आत् | S | 5 | 1 |

Sutrartha


Vasu English Summary

When a तद्धित affix having an indicatory ञ् , ण् or क् follows, आ is substituted instead of वृद्धि for the first vowels of the following - 1. देविका 2. शिंशपा 3. दित्यवाट् 4. दीर्घसत्र and 5. श्रेयस।

Vasu English Translation

When a तद्धित affix having an indicatory ञ् , ण् or क् follows, आ is substituted instead of वृद्धि for the first vowels of the following - 1. देविका 2. शिंशपा 3. दित्यवाट् 4. दीर्घसत्र and 5. श्रेयस। Thus दाविकम् (= देविकायां भवम्) in दाविकमुदकम्; दाविकाकूलाः शालयः (= देविकाकूले भवाः), पूर्वदाविकः from पूर्वदेविका ‘the name of a village of the Eastern people’. Here the vriddhi of the second member ordained by (7.3.14), becomes आ ॥ Similarly शांशपचमसः (= शिंशपायाविकारः) ॥ The word belongs to the Palasadi class (4.3.141), and takes अण् or अञ्, the difference being in accent. So also शांशपास्थलाः (= शिंशपास्थले भवाः), and पूर्वशांशप from पूर्वशिंशपः ‘the name of a village’ See (7.3.14). Similarly दात्यौहम् from दित्यवाह्, (दित्यौह इदं) and दार्घसत्रम् (दार्घसत्रे भवं) and श्रायसम् (श्रेयसि भवं) ॥

Vart:- The Vriddhi of वहीनर under similar circumstances is with an ऐ as if व was वि, as वहीनरस्यापत्यं = वैहीनरिः ॥ Some say the original word itself is विहीनर (विहीनोनरः), and so its taddhita derivative is regular.

Bhashya

देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् देविकादिषु तदादिग्रहणम् देविकादिषु तदादिग्रहणं कर्तव्यम् । (देवकाद्यादीनामिति वक्तव्यम्(2) ।) इहापि यथा स्यात् - दाविकाकूलाः शालयः शांशपास्थला देवाः ॥ किं पुनः कारणं न सिध्यति अन्यत्र तद्ग्रहणात्तदन्तग्रहणाद्वा अन्यत्र हि तस्य वा ग्रहणं भवति तदन्तस्य वा, न चेदं तत्, नापि तदन्तमाद्यज्विशेषणत्वात्सिद्धमाद्यज्विशेषणं देविकादयः । नैवं विज्ञायते - देविकादीनामङ्गानामचामादेराकारो भवतीति ॥ कथं तर्हि ? ॥ ञ्ञ्णित्यङ्गस्याऽचामादेरच(2) आकारो भवति स चेदेविकादीनामाद्यज्भवतीति ॥ आन्तरतम्यनिवर्तकत्वाद्वा(3) अथ वा नाऽनेनाऽनन्तरतमा वृद्धिर्निर्र्वत्यते ॥ किं तर्हि ? ॥ अन्तरतमाऽनेन(3) निर्वत्यते । अतः(4) सिद्धाऽत्र वृद्धिस्तद्धितेष्वचामादेरित्येव । तत्राऽनेनाऽन्तरतमा(1) वृद्धिर्निर्वत्यते ॥ परिहारान्तरमेवेदं मत्वा पठितं, कथं चेदं परिहारान्तरं स्यात् ? ॥ यदि नाद्यज्विशेषणं देविकादयः ॥ अवश्यं चैतदेवं विज्ञेयमाद्यज्विशेषणं देविकादय इति, यदि नाद्यज्विशेषणं देविकादयः स्युरिहापि प्राप्नोति - सुदेविकायां भवः सौदेविक इति ॥ अथात्राऽप्याद्यज्विशेषणत्वादित्येव सिद्धं, परिहारान्तरं न भवति ॥ न ब्रूमो यत्र क्रियमाणे दोषस्तत्र कर्तव्यमिति ॥ किं तर्हि ? ॥ यत्र क्रियमाणे न दोषस्तत्र कर्तव्यम् ॥ क्व च क्रियमाणे न दोषः ? ॥ संज्ञाविधौ ॥ वृद्धिरादैज्देविकादीनामाकारइति ॥ सिध्यति, सूत्रं तर्हि भिद्यते ॥ यथान्यासमेवास्तु ॥ ननु चोक्तं-देविकादिषु तदादिग्रहणमन्यत्र तद्ग्रहणात्तदन्तग्रहणाद्वेति। परिहृतमेतत् - देविकादिषु तदादिग्रहणमन्यत्र तद्ग्रहणात्तदन्तग्रहणाद्वेति ॥ परिहृतमेतत् - आद्यज्विशेषणत्वात्सिद्धमिति ॥ न्यग्रोधे च केवलग्रहणात् न्यग्रोधे च केवलग्रहणान्मन्यामहे - आद्यज्विशेषणं देविकादयइति । तस्य(3) हि केवलग्रहणस्यैतत्प्रयोजनम् इह मा - भूत् न्याग्रोधमूलाः । शालय इति । यदि चाद्यज्विशेषणं देविकादयस्ततः केवलग्रहणमर्थवद्भवति ॥ तदेतत्कथं कृत्वा ज्ञापकं भवति ? ॥ यदि न्यग्रोधशब्दोऽव्युत्पन्नं प्रातिपदिकं भवति । अथ हि न्यग्रोहतीति न्यग्रोधः, ततो नियमार्थं पदान्त इति कृत्वा न ज्ञापकं भवति । ॥ वहीनरस्येद्वचनम् ॥ वहीनरस्येत्वं वक्तव्यम्। वहीनरस्याऽपत्यं वैहीनरिः ॥ कुणरवाडवस्त्वाह - नैष वहीनरः ॥ कस्तर्हि ? ॥ विहीनर(1) एषः । विहीनो नरः कामभोगाभ्यां विहीनरः । विहीनरस्याऽपत्यं - वैहीनरिः ॥

Kashika

देविका शिंशपा दित्यवाट् दीर्घसत्र श्रेयस् इत्येतेषामङ्गानामचामादेरचः स्थाने वृद्धिप्रसङ्ग आकारो भवति ञिति णिति किति तद्धिते परतः। देविकायां भवमुदकं दाविकमुदकम्। देविकाकूले भवाः शालयो दाविकाकूलाः शालयः। पूर्वदेविका नाम प्राचां ग्रामः, तत्र भवः पूर्वदाविकः। प्राचां ग्रामनगराणाम् (७.३.१४) इत्युत्तरपदवृद्धिः, साप्याकार एव भवति। शिंशपा — शिंशपाया विकारश्चमसः शांशपश्चमसः। पलाशादिरयं तेन पक्षेऽण् (४.३.१४१) अनुदात्तादिलक्षणो वाञ् (४.३.१४०)। शिंशपास्थले भवाः शांशपास्थला देवाः। पूर्वशिंशपा नाम प्राचां ग्रामः, तत्र भवः पूर्वशांशपः। दित्यवाट् — दित्यौह इदं दात्यौहम्। दीर्घसत्र — दीर्घसत्रे भवं दार्घसत्रम्। श्रेयस् — श्रेयसि भवं श्रायसम्॥ वहीनरस्येद्ववचनं कर्तव्यम्॥ वृद्धिविषयेऽचामादेरचः स्थाने वहीनरस्येकारादेशो भवति। वहीनरस्यापत्यं वैहीनरिः। केचित् तु विहीनरस्यैव वैहीनरिमिच्छन्ति॥

Siddhanta Kaumudi

एषां पञ्चानां वृद्धिप्राप्तावदेरच आत् स्यात् ञिति णिति किति च । दाविकम् । देविकाकूले भवा दाविकाकूलाः शालयः । शिंशपाया विकारः शांशपश्चमसः । पलाशादिभ्यो वा (SK1521) त्यञ् । दित्यौह इदं दात्यौहम् । दीर्घसत्रे भवं दार्घसत्रम् । श्रेयसि भवं श्रायसम् ॥

Balamanorama

देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् - देविका । आदिवृद्धि प्रकरणे इदं सूत्रम् । षामिति । देविका, शिंशपा, दित्यवाहू, दीर्घसत्र क्षेयस् इत्येषामित्यर्थः । वृद्धिप्राप्ताविति । आदिवृद्धिप्राप्तौ तदपवादत्वेन आदेरच आकारः स्यादित्यर्थः । दाविकमिति । देविका नाम नदी, तस्यां भवमित्यर्थः । दाविकाकूला इति । उत्तरपदवृद्धिभ्रमनिरासाय इदमुदाहरसणम्, अस्य सूत्रस्य तदधिकारबहिर्भूतत्वादिति भावः । शांशप इति । इकारस्य आकारः, अञिवृद्धिः, शिशपाशब्दस्य पलाशादौ पाठात् पाक्षिको ।ञञ् । तदभावेऽणित्यर्थः । दात्यौहमिति । दित्यवाह्शब्दात्तस्येद॑मित्यणि ‘वाह ऊठ्’ इति संप्रसारणं, पूर्वरूपम् । ‘एत्येधत्यूठसु’ इति वृद्धिः । इकारस्य आदिवृद्ध्यपवाद आकारः । दीर्घसूत्रमिति ।तस्येद॑मित्यण्, आदेरीकारस्य आकारः । श्रायसमिति । तत्र भव इत्यणि एकारस्य आकारः ।

Padamanjari

अत्र विशेषणविशेष्यभावे कामचाराद् देविकादिभिरङ्गं विशेष्यते, तेन वा तानि, तत्रापि सामानाधिकरण्येन, वैयधिकरण्यन वा - इति चत्वारः पक्षाः । तत्र देविकादिभिः सामानाधिकरण्येनाङ्गस्य विशेषणात् तदन्तविधिसम्भवाद्देविकाद्यन्तस्याचामादेराकारो भवतीत्यर्थः स्यात् । तत्र केवलानां न स्यात्, न हि तदेव तदन्तं भवति । व्यपदेशिवद्भावोऽपि प्रातिपदिकेन निषिद्धः । यदि तु प्रत्ययविधिविषयः स प्रतिषेधः । तदा केवलानां भवतु, तदादौ तु न स्यात् - देविकाकूले भवा दाविकाकूलाः शालय इति । तदन्ते चातिप्रसङ्गः - सुदेविकादौ भवं सौदेविकमिति; अत्र सोरुकारस्याकारः स्यात् । अथ वैयधिकरण्येन विशेषणम् - देविकादीनां यदङ्गमिति, किञ्चि - देविकादीनामङ्गं यत्र च तेऽवयवभूताः, ततश्च केवलान्न स्यात्, न हि स एव तस्यावयवो भवति । व्यपदेशिवद्भावोऽपि प्रातिपदिकेन प्रतिषिद्धः । यदि तु प्रत्ययविषयः स प्रतिषेधः, तदा केवलानां भवतु, तदन्ते त्वतिप्रसङ्गः पूर्ववत् । केवलं तदादावप्रसङ्ग एवास्मिन्पक्षे परिहृतः । अथाङ्गं समानाधिकरणं विशेषणम् - अङ्गं ये देविकादय इति, तदा तदन्तेऽतिप्रसङ्गः परिहृतः, तदादौ त्वप्रसङ्गः स्यादेव । तदेव तर्हि व्यधिकरणं वशेषिणम् - अङ्गस्य ये अवयवभूता देविकादयस्तेषामचामादेराकार इति ? तदा केवले तदादौ च न दोषः, किन्तु परपदभूतानामपि तेषामाकारप्रसङ्गः । तत्र प्राग्ग्रामे पूर्वशांशप इत्यादाविष्ट एवाकारः, सुदेविकादावग्रामे त्वनिष्टप्रसङ्गः । तदेवमेते चत्वारोऽपि पक्षा दुष्टाः । अथापरः पक्षः - अङ्गेन देवकादिभिश्चाचामादिविशेष्यते - अङ्गस्याचामादेराकारो भवति स चेद्देविकादीनां सम्बन्धी भवतीति । अत्र पक्षे केवलेषु तदातौ चाङ्गे नास्ति दोषः, नापि सौदेविकमित्यत्र पूर्वपदस्योतरपदस्य वा प्रसङ्गः; किन्तु प्राग्ग्रामे पूर्वशांशपः - इत्यादावुतरपदभूतानां देविकादीनामाकारो न स्यात् ? नैष दोषः;’प्राचां ग्रामनगराणाम्’ इत्यत्रैतदनुवर्तिष्यते, तत्र च वाक्यबेदेन सम्बन्धः - प्राचां ग्रामनगराणामुतरपदस्याचामादेरचो वृद्धिर्भवति, देविकादीनामुतरपदानामचामादेराकार इति । अयमपि वृत्तिकारस्य पक्षो न भवति; यद्ययं पक्षोऽभविष्यत्, उतरपदवृद्धावप्येतदनुवर्तिष्यत इत्येवावक्ष्यत् । कस्तर्हि वृत्तिकारस्य पक्षोऽयमभिधीयते ? परिभाषेयमान्तर्यपरिभाषाऽपवादिनी ॥ देविकादेरचामादेर्यत्र वृद्धिः प्रसज्यते । तत्रोपतिष्ठते, तेन सर्वमिष्ट्ंअ प्रसिध्यति ॥ इति । अनारभ्यमाणे एतस्मिन्, देविकादीनामादेरचो वृद्धिर्भवन्ती स्थानेऽन्तरतमवचनादैकारः प्राप्नोति, तदपवादेनाकारः प्राप्यते, तत्राङ्गं भवतु देविकादयः पूर्वपदमुतरपदं वा; सर्वथा यत्र देविकादीनामचामादेरचो वृद्धिप्रसङ्गः, तत्राकारो भवतीति परिभाष्यते । ननु च ठङ्गस्यऽ इति वर्तते ? सत्यम्; नैवमस्याभिसम्बन्धः - अङ्गस्याचामादेराकारो भवति स चेद्देविकादीनां सम्बन्धीति, किं तर्हि ? देविकादीनामचामादेराकारो भवति स चेदङ्गस्य सम्बन्धीति । अथैवमभिसम्बन्धे किं व्यावर्त्यम् ? न किञ्चित्, अनुवृतस्य तु सम्बन्धो वक्तव्य इत्येतावत् । साप्याकार एव भवतीति । उक्तोऽत्र हेतुः । वहीनरस्येति । वहोऽस्यास्तीति वही, वही चासौ नरश्चेति वहीनरः, ठन्येषामपि दृश्यतेऽ इति दीर्घत्वम् । वैहीनरिरिति । अत्राकारवृद्धिः प्राप्ता इकारेण बाध्यते । तस्य त्वैकारवृद्धिर्भवत्येव, न हि तस्यां नाप्राप्तायामिकारो विधीयते, एवं च कृत्वा सूत्रेऽप्यकार एव विधेयः, तस्याकारवृद्धौ सिद्धमिष्टम् ? तथा तु न कृतमित्येव । केचित्विति । विहीनो नरो विहीनरः, पृषोदरादित्वान्नशब्दस्य लोपः ॥

Nyaas

तद्धितेष्वचामादेः (7.2.117) इत्यान्तरतम्यादैकारे वृद्धौ प्राप्तायां देविकादीनामाकारो विधीयते। अत्र पक्षत्रयं सम्भाव्यते - 1। प्रकृतेनाङ्गेन देविकादयो विशिष्यन्ते - देविकादीनामङ्गानामिति; 2। तैर्वाङ्गम् - `देविकाद्यन्तस्याङ्गस्येति, अथ वा - 3। तैराद्योऽच् - देविकदीनां सम्बन्धिनामचां मध्ये य आदिरजिति। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा देविकाकूले भवाः शालयो दाविकाकूलाः शालय इति न सिध्येत्, न ह्रतर देविकाशब्दोऽङ्गम्, किं तर्हि? देविकाकूलशब्दः। ननु चाङ्गस्येत्यवयवषष्ठी, तत्रैवं विशेषणविशेष्यभावः करिष्यते - अङ्गस्य ये देविकादयोऽवयवभूता इति, भवति चेहावयवोऽङ्गस्य देविकाशब्दः, ततोऽयमोदोष इति चेत्? सत्यमेतत्? किन्त्वतिप्रसङ्गः स्यात्, सुदेविकायां भवः सौदेविकः - इत्यत्रापि स्यात्। अथ द्वितीयपक्ष आश्रीयेत, एवमपि दाविकाकूलाः शालय इति न सिध्येत्। देविकादिभिः प्रकृतेऽङ्गे विशेष्यमाणे विशेषणे च तदन्तविधिरिति देविकाद्यन्तस्याङ्गस्येति भवितव्यम्, न तदादेः। तस्मात्? तदादेरपि यथा स्थादिति यत्नान्तरमास्थेयमिति। तृतीये तु पक्ष आश्रीयमाणे, विनापि यत्नान्तरेण केवलस्य तदादेस्तदन्तस्य भवति। सर्वत्राचामादेरचो देविकादिसम्बन्धित्वात्। अतस्तमेवाश्रित्याह - `देविकाशिंशपादित्यवाड्दीर्घसत्त्रश्रेयस इत्येतेषाम् इत्यादि। एषां देविकादीनामचां मध्य आदिभूतो योऽज्? वृद्धेरैकारस्य प्रसङ्गे तस्याकारो विधीयते।पूर्वशांशप इति। पूर्ववदुत्तरपदस्य वृद्धिः। साप्याकार एव भवतीत्युत्तरपदाधिकारे देविकादीनामनुवृत्तेर्लभ्यते। वहीनरस्येद्वचनं कर्तव्यम् इति। अकारस्य या वृद्धिः प्राप्नोति तद्वाधनार्थमेत्। इकारे कृते या वृद्धिः प्राप्नोति सा तु भवत्येव। केचित्तु इत्यादि। कुणडवाडवादयः। विहीनो नरः कामक्रोधाभ्यामिति पृषोदरादित्वान्नलोपः, विहीनरस्यापत्यं वैहीनरिः - अत इञ् (4.1.95) ॥

Prakriyasarvasvam

एषामाद्यचो वृद्धिप्राप्तावात् स्यात् । देविकायां भवं दाविक जलम् । शांशपम् । एवं दात्यवाह्-अ ।।