73001: देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् ================================================ **Padacheda:** देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसाम् | S | 6 | 3 | आत् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- When a तद्धित affix having an indicatory ञ् , ण् or क् follows, आ is substituted instead of वृद्धि for the first vowels of the following - 1. देविका 2. शिंशपा 3. दित्यवाट् 4. दीर्घसत्र and 5. श्रेयस। Vasu English Translation ------------------------ When a तद्धित affix having an indicatory ञ् , ण् or क् follows, आ is substituted instead of वृद्धि for the first vowels of the following - 1. देविका 2. शिंशपा 3. दित्यवाट् 4. दीर्घसत्र and 5. श्रेयस। Thus दाविकम् (= देविकायां भवम्) in दाविकमुदकम्; दाविकाकूलाः शालयः (= देविकाकूले भवाः), पूर्वदाविकः from पूर्वदेविका 'the name of a village of the Eastern people'. Here the *vriddhi* of the second member ordained by (7.3.14), becomes आ ॥ Similarly शांशपचमसः (= शिंशपायाविकारः) ॥ The word belongs to the *Palasadi* class (4.3.141), and takes अण् or अञ्, the difference being in accent. So also शांशपास्थलाः (= शिंशपास्थले भवाः), and पूर्वशांशप from पूर्वशिंशपः 'the name of a village' See (7.3.14). Similarly दात्यौहम् from दित्यवाह्, (दित्यौह इदं) and दार्घसत्रम् (दार्घसत्रे भवं) and श्रायसम् (श्रेयसि भवं) ॥ Vart:- The *Vriddhi* of वहीनर under similar circumstances is with an ऐ as if व was वि, as वहीनरस्यापत्यं = वैहीनरिः ॥ Some say the original word itself is विहीनर (विहीनोनरः), and so its *taddhita* derivative is regular. Bhashya ------- देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् देविकादिषु तदादिग्रहणम् देविकादिषु तदादिग्रहणं कर्तव्यम् । (देवकाद्यादीनामिति वक्तव्यम्(2) ।) इहापि यथा स्यात् - दाविकाकूलाः शालयः शांशपास्थला देवाः ॥ किं पुनः कारणं न सिध्यति अन्यत्र तद्ग्रहणात्तदन्तग्रहणाद्वा अन्यत्र हि तस्य वा ग्रहणं भवति तदन्तस्य वा, न चेदं तत्, नापि तदन्तमाद्यज्विशेषणत्वात्सिद्धमाद्यज्विशेषणं देविकादयः । नैवं विज्ञायते - देविकादीनामङ्गानामचामादेराकारो भवतीति ॥ कथं तर्हि ? ॥ ञ्ञ्णित्यङ्गस्याऽचामादेरच(2) आकारो भवति स चेदेविकादीनामाद्यज्भवतीति ॥ आन्तरतम्यनिवर्तकत्वाद्वा(3) अथ वा नाऽनेनाऽनन्तरतमा वृद्धिर्निर्र्वत्यते ॥ किं तर्हि ? ॥ अन्तरतमाऽनेन(3) निर्वत्यते । अतः(4) सिद्धाऽत्र वृद्धिस्तद्धितेष्वचामादेरित्येव । तत्राऽनेनाऽन्तरतमा(1) वृद्धिर्निर्वत्यते ॥ परिहारान्तरमेवेदं मत्वा पठितं, कथं चेदं परिहारान्तरं स्यात् ? ॥ यदि नाद्यज्विशेषणं देविकादयः ॥ अवश्यं चैतदेवं विज्ञेयमाद्यज्विशेषणं देविकादय इति, यदि नाद्यज्विशेषणं देविकादयः स्युरिहापि प्राप्नोति - सुदेविकायां भवः सौदेविक इति ॥ अथात्राऽप्याद्यज्विशेषणत्वादित्येव सिद्धं, परिहारान्तरं न भवति ॥ न ब्रूमो यत्र क्रियमाणे दोषस्तत्र कर्तव्यमिति ॥ किं तर्हि ? ॥ यत्र क्रियमाणे न दोषस्तत्र कर्तव्यम् ॥ क्व च क्रियमाणे न दोषः ? ॥ संज्ञाविधौ ॥ वृद्धिरादैज्देविकादीनामाकारइति ॥ सिध्यति, सूत्रं तर्हि भिद्यते ॥ यथान्यासमेवास्तु ॥ ननु चोक्तं-देविकादिषु तदादिग्रहणमन्यत्र तद्ग्रहणात्तदन्तग्रहणाद्वेति। परिहृतमेतत् - देविकादिषु तदादिग्रहणमन्यत्र तद्ग्रहणात्तदन्तग्रहणाद्वेति ॥ परिहृतमेतत् - आद्यज्विशेषणत्वात्सिद्धमिति ॥ न्यग्रोधे च केवलग्रहणात् न्यग्रोधे च केवलग्रहणान्मन्यामहे - आद्यज्विशेषणं देविकादयइति । तस्य(3) हि केवलग्रहणस्यैतत्प्रयोजनम् इह मा - भूत् न्याग्रोधमूलाः । शालय इति । यदि चाद्यज्विशेषणं देविकादयस्ततः केवलग्रहणमर्थवद्भवति ॥ तदेतत्कथं कृत्वा ज्ञापकं भवति ? ॥ यदि न्यग्रोधशब्दोऽव्युत्पन्नं प्रातिपदिकं भवति । अथ हि न्यग्रोहतीति न्यग्रोधः, ततो नियमार्थं पदान्त इति कृत्वा न ज्ञापकं भवति । ॥ वहीनरस्येद्वचनम् ॥ वहीनरस्येत्वं वक्तव्यम्। वहीनरस्याऽपत्यं वैहीनरिः ॥ कुणरवाडवस्त्वाह - नैष वहीनरः ॥ कस्तर्हि ? ॥ विहीनर(1) एषः । विहीनो नरः कामभोगाभ्यां विहीनरः । विहीनरस्याऽपत्यं - वैहीनरिः ॥ Kashika ------- देविका शिंशपा दित्यवाट् दीर्घसत्र श्रेयस् इत्येतेषामङ्गानामचामादेरचः स्थाने वृद्धिप्रसङ्ग आकारो भवति ञिति णिति किति तद्धिते परतः। देविकायां भवमुदकं दाविकमुदकम्। देविकाकूले भवाः शालयो दाविकाकूलाः शालयः। पूर्वदेविका नाम प्राचां ग्रामः, तत्र भवः पूर्वदाविकः। **प्राचां ग्रामनगराणाम्** (७.३.१४) इत्युत्तरपदवृद्धिः, साप्याकार एव भवति। शिंशपा — शिंशपाया विकारश्चमसः शांशपश्चमसः। पलाशादिरयं तेन पक्षेऽण् (४.३.१४१) अनुदात्तादिलक्षणो वाञ् (४.३.१४०)। शिंशपास्थले भवाः शांशपास्थला देवाः। पूर्वशिंशपा नाम प्राचां ग्रामः, तत्र भवः पूर्वशांशपः। दित्यवाट् — दित्यौह इदं दात्यौहम्। दीर्घसत्र — दीर्घसत्रे भवं दार्घसत्रम्। श्रेयस् — श्रेयसि भवं श्रायसम्॥ वहीनरस्येद्ववचनं कर्तव्यम्॥ वृद्धिविषयेऽचामादेरचः स्थाने वहीनरस्येकारादेशो भवति। वहीनरस्यापत्यं वैहीनरिः। केचित् तु विहीनरस्यैव वैहीनरिमिच्छन्ति॥ Siddhanta Kaumudi ----------------- एषां पञ्चानां वृद्धिप्राप्तावदेरच आत् स्यात् ञिति णिति किति च । दाविकम् । देविकाकूले भवा दाविकाकूलाः शालयः । शिंशपाया विकारः शांशपश्चमसः । पलाशादिभ्यो वा (SK1521) त्यञ् । दित्यौह इदं दात्यौहम् । दीर्घसत्रे भवं दार्घसत्रम् । श्रेयसि भवं श्रायसम् ॥ Balamanorama ------------ **देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्** - देविका । आदिवृद्धि प्रकरणे इदं सूत्रम् । षामिति । देविका, शिंशपा, दित्यवाहू, दीर्घसत्र क्षेयस् इत्येषामित्यर्थः । वृद्धिप्राप्ताविति । आदिवृद्धिप्राप्तौ तदपवादत्वेन आदेरच आकारः स्यादित्यर्थः । दाविकमिति । देविका नाम नदी, तस्यां भवमित्यर्थः । दाविकाकूला इति । उत्तरपदवृद्धिभ्रमनिरासाय इदमुदाहरसणम्, अस्य सूत्रस्य तदधिकारबहिर्भूतत्वादिति भावः । शांशप इति । इकारस्य आकारः, अञिवृद्धिः, शिशपाशब्दस्य पलाशादौ पाठात् पाक्षिको ।ञञ् । तदभावेऽणित्यर्थः । दात्यौहमिति । दित्यवाह्शब्दात्तस्येद॑मित्यणि 'वाह ऊठ्' इति संप्रसारणं, पूर्वरूपम् । 'एत्येधत्यूठसु' इति वृद्धिः । इकारस्य आदिवृद्ध्यपवाद आकारः । दीर्घसूत्रमिति ।तस्येद॑मित्यण्, आदेरीकारस्य आकारः । श्रायसमिति । तत्र भव इत्यणि एकारस्य आकारः । Padamanjari ----------- अत्र विशेषणविशेष्यभावे कामचाराद् देविकादिभिरङ्गं विशेष्यते, तेन वा तानि, तत्रापि सामानाधिकरण्येन, वैयधिकरण्यन वा - इति चत्वारः पक्षाः । तत्र देविकादिभिः सामानाधिकरण्येनाङ्गस्य विशेषणात् तदन्तविधिसम्भवाद्देविकाद्यन्तस्याचामादेराकारो भवतीत्यर्थः स्यात् । तत्र केवलानां न स्यात्, न हि तदेव तदन्तं भवति । व्यपदेशिवद्भावोऽपि प्रातिपदिकेन निषिद्धः । यदि तु प्रत्ययविधिविषयः स प्रतिषेधः । तदा केवलानां भवतु, तदादौ तु न स्यात् - देविकाकूले भवा दाविकाकूलाः शालय इति । तदन्ते चातिप्रसङ्गः - सुदेविकादौ भवं सौदेविकमिति; अत्र सोरुकारस्याकारः स्यात् । अथ वैयधिकरण्येन विशेषणम् - देविकादीनां यदङ्गमिति, किञ्चि - देविकादीनामङ्गं यत्र च तेऽवयवभूताः, ततश्च केवलान्न स्यात्, न हि स एव तस्यावयवो भवति । व्यपदेशिवद्भावोऽपि प्रातिपदिकेन प्रतिषिद्धः । यदि तु प्रत्ययविषयः स प्रतिषेधः, तदा केवलानां भवतु, तदन्ते त्वतिप्रसङ्गः पूर्ववत् । केवलं तदादावप्रसङ्ग एवास्मिन्पक्षे परिहृतः । अथाङ्गं समानाधिकरणं विशेषणम् - अङ्गं ये देविकादय इति, तदा तदन्तेऽतिप्रसङ्गः परिहृतः, तदादौ त्वप्रसङ्गः स्यादेव । तदेव तर्हि व्यधिकरणं वशेषिणम् - अङ्गस्य ये अवयवभूता देविकादयस्तेषामचामादेराकार इति ? तदा केवले तदादौ च न दोषः, किन्तु परपदभूतानामपि तेषामाकारप्रसङ्गः । तत्र प्राग्ग्रामे पूर्वशांशप इत्यादाविष्ट एवाकारः, सुदेविकादावग्रामे त्वनिष्टप्रसङ्गः । तदेवमेते चत्वारोऽपि पक्षा दुष्टाः । अथापरः पक्षः - अङ्गेन देवकादिभिश्चाचामादिविशेष्यते - अङ्गस्याचामादेराकारो भवति स चेद्देविकादीनां सम्बन्धी भवतीति । अत्र पक्षे केवलेषु तदातौ चाङ्गे नास्ति दोषः, नापि सौदेविकमित्यत्र पूर्वपदस्योतरपदस्य वा प्रसङ्गः; किन्तु प्राग्ग्रामे पूर्वशांशपः - इत्यादावुतरपदभूतानां देविकादीनामाकारो न स्यात् ? नैष दोषः;'प्राचां ग्रामनगराणाम्' इत्यत्रैतदनुवर्तिष्यते, तत्र च वाक्यबेदेन सम्बन्धः - प्राचां ग्रामनगराणामुतरपदस्याचामादेरचो वृद्धिर्भवति, देविकादीनामुतरपदानामचामादेराकार इति । अयमपि वृत्तिकारस्य पक्षो न भवति; यद्ययं पक्षोऽभविष्यत्, उतरपदवृद्धावप्येतदनुवर्तिष्यत इत्येवावक्ष्यत् । कस्तर्हि वृत्तिकारस्य पक्षोऽयमभिधीयते ? परिभाषेयमान्तर्यपरिभाषाऽपवादिनी ॥ देविकादेरचामादेर्यत्र वृद्धिः प्रसज्यते । तत्रोपतिष्ठते, तेन सर्वमिष्ट्ंअ प्रसिध्यति ॥ इति । अनारभ्यमाणे एतस्मिन्, देविकादीनामादेरचो वृद्धिर्भवन्ती स्थानेऽन्तरतमवचनादैकारः प्राप्नोति, तदपवादेनाकारः प्राप्यते, तत्राङ्गं भवतु देविकादयः पूर्वपदमुतरपदं वा; सर्वथा यत्र देविकादीनामचामादेरचो वृद्धिप्रसङ्गः, तत्राकारो भवतीति परिभाष्यते । ननु च ठङ्गस्यऽ इति वर्तते ? सत्यम्; नैवमस्याभिसम्बन्धः - अङ्गस्याचामादेराकारो भवति स चेद्देविकादीनां सम्बन्धीति, किं तर्हि ? देविकादीनामचामादेराकारो भवति स चेदङ्गस्य सम्बन्धीति । अथैवमभिसम्बन्धे किं व्यावर्त्यम् ? न किञ्चित्, अनुवृतस्य तु सम्बन्धो वक्तव्य इत्येतावत् । साप्याकार एव भवतीति । उक्तोऽत्र हेतुः । वहीनरस्येति । वहोऽस्यास्तीति वही, वही चासौ नरश्चेति वहीनरः, ठन्येषामपि दृश्यतेऽ इति दीर्घत्वम् । वैहीनरिरिति । अत्राकारवृद्धिः प्राप्ता इकारेण बाध्यते । तस्य त्वैकारवृद्धिर्भवत्येव, न हि तस्यां नाप्राप्तायामिकारो विधीयते, एवं च कृत्वा सूत्रेऽप्यकार एव विधेयः, तस्याकारवृद्धौ सिद्धमिष्टम् ? तथा तु न कृतमित्येव । केचित्विति । विहीनो नरो विहीनरः, पृषोदरादित्वान्नशब्दस्य लोपः ॥ Nyaas ----- **तद्धितेष्वचामादेः** (7.2.117) इत्यान्तरतम्यादैकारे वृद्धौ प्राप्तायां देविकादीनामाकारो विधीयते। `अत्र पक्षत्रयं सम्भाव्यते - 1। प्रकृतेनाङ्गेन देविकादयो विशिष्यन्ते - देविकादीनामङ्गानामिति; 2। तैर्वाङ्गम् - `देविकाद्यन्तस्याङ्गस्येति, अथ वा - 3। तैराद्योऽच् - देविकदीनां सम्बन्धिनामचां मध्ये य आदिरजिति। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा देविकाकूले भवाः शालयो दाविकाकूलाः शालय इति न सिध्येत्, न ह्रतर देविकाशब्दोऽङ्गम्, किं तर्हि? देविकाकूलशब्दः। ननु चाङ्गस्येत्यवयवषष्ठी, तत्रैवं विशेषणविशेष्यभावः करिष्यते - अङ्गस्य ये देविकादयोऽवयवभूता इति, भवति चेहावयवोऽङ्गस्य देविकाशब्दः, ततोऽयमोदोष इति चेत्? सत्यमेतत्? किन्त्वतिप्रसङ्गः स्यात्, सुदेविकायां भवः सौदेविकः - इत्यत्रापि स्यात्। अथ द्वितीयपक्ष आश्रीयेत, एवमपि दाविकाकूलाः शालय इति न सिध्येत्। देविकादिभिः प्रकृतेऽङ्गे विशेष्यमाणे विशेषणे च तदन्तविधिरिति देविकाद्यन्तस्याङ्गस्येति भवितव्यम्, न तदादेः। तस्मात्? तदादेरपि यथा स्थादिति यत्नान्तरमास्थेयमिति। तृतीये तु पक्ष आश्रीयमाणे, विनापि यत्नान्तरेण केवलस्य तदादेस्तदन्तस्य भवति। सर्वत्राचामादेरचो देविकादिसम्बन्धित्वात्। अतस्तमेवाश्रित्याह - `देविकाशिंशपादित्यवाड्दीर्घसत्त्रश्रेयस इत्येतेषाम्` इत्यादि। एषां देविकादीनामचां मध्य आदिभूतो योऽज्? वृद्धेरैकारस्य प्रसङ्गे तस्याकारो विधीयते।`पूर्वशांशप` इति। पूर्ववदुत्तरपदस्य वृद्धिः। साप्याकार एव भवतीत्युत्तरपदाधिकारे देविकादीनामनुवृत्तेर्लभ्यते। `वहीनरस्येद्वचनं कर्तव्यम्` इति। अकारस्य या वृद्धिः प्राप्नोति तद्वाधनार्थमेत्। इकारे कृते या वृद्धिः प्राप्नोति सा तु भवत्येव। `केचित्तु` इत्यादि। कुणडवाडवादयः। विहीनो नरः कामक्रोधाभ्यामिति पृषोदरादित्वान्नलोपः, विहीनरस्यापत्यं वैहीनरिः - `अत इञ्` (4.1.95) ॥ Prakriyasarvasvam ----------------- एषामाद्यचो वृद्धिप्राप्तावात् स्यात् । देविकायां भवं दाविक जलम् । शांशपम् । एवं दात्यवाह्-अ ।।