72106: तदोः सः सावनन्त्ययोः¶
Padacheda: तदोः | S | 6 | 2 |
सः | S | 1 | 1 |
सौ | S | 7 | 1 |
अनन्त्ययोः | S | 6 | 2 |
Sutrartha¶
त्यदादिगणस्य शब्देषु विद्यमानः यः तकारः दकारः च अन्ते नास्ति, तस्य सुँ-प्रत्यये परे सकारादेशः भवति ।
‘त्यदादिगणः’ नाम कश्चन गणः अस्ति । अस्मिन् गणे अष्ट शब्दाः समाविश्यन्ते - त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि । एतेषाम् सर्वेषाम् ‘अनत्यस्य ‘ (इत्युक्ते, यः अन्ते नास्ति, तस्य) तकार-दकारस्य सुँ-प्रत्यये परे सकारादेशः भवति । अस्य सूत्रस्य प्रसक्तिः केवलं पुंलिङ्ग-स्त्रीलिङ्गरूपेषु एव दृश्यते, यतः नपुंसकलिङ्गात् परस्य सुँ-प्रत्ययस्य स्वमोर्नपुंसकात् (7.1.23) इति लुक्-कृते न लुमताङ्गस्य (1.1.63) इति अङ्गकार्यम् निषिध्यते । अतः अनेन सूत्रेण निर्दिष्टः सकारादेशः नपुंसकलिङ्गशब्दस्य विषये न भवति । 1) त्यद् + सुँ → स्यद् + स् [तदोः सः सावनन्त्ययोः (7.2.106) इति तकारस्य सकारादेशः । अत्र ‘त्य’ इत्यस्य तकारः शब्दस्य अन्ते नास्ति अतः अनेन सूत्रेण तस्य सकारादेशः भवति ।] → स्य अ + स् [त्यदादीनामः (7.2.102) इति दकारस्य अकारः । ] → स्य + स् [अतो गुणे (6.1.97) इति पररूप-एकादेशः] → स्यः [विसर्गनिर्माणम्] स्त्रीलिङ्गे ‘त्यद्’ इत्यस्य तु कोऽपि स्त्रीप्रत्ययः न विधीयते, परन्तु दकारस्य अकारः भवति चेत् अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः आगच्छति, अतः ‘स्या’ इति प्रथमैकवचनस्य रूपं जायते । 2) तद् + सुँ → सद् + स् [तदोः सः सावनन्त्ययोः (7.2.106) इति तकारस्य सकारादेशः । अत्र ‘त’ इत्यस्य तकारः शब्दस्य अन्ते नास्ति अतः अनेन सूत्रेण तस्य सकारादेशः भवति ।] → स अ + स् [त्यदादीनामः (7.2.102) इति दकारस्य अकारः] → स + स् [अतो गुणे (6.1.97) इति पररूप-एकादेशः] → सः [विसर्गनिर्माणम्] स्त्रीलिङ्गे ‘तद्’ इत्यस्य तु कोऽपि स्त्रीप्रत्ययः न विधीयते, परन्तु दकारस्य अकारः भवति चेत् अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः आगच्छति, अतः ‘सा’ इति प्रथमैकवचनस्य रूपं जायते । 3) यद् + सुँ इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति यतः अस्मिन् सूत्रे विद्यमानः दकारः अन्ते अस्ति । 4) एतद् + सुँ → एसद् + स् [तदोः सः सावनन्त्ययोः (7.2.106) इति तकारस्य सकारादेशः । अत्र ‘त’ इत्यस्य तकारः शब्दस्य अन्ते नास्ति अतः अनेन सूत्रेण तस्य सकारादेशः भवति ।] → एस अ + स् [त्यदादीनामः (7.2.102) इति दकारस्य अकारः] → एस + स् [अतो गुणे (6.1.97) इति पररूप-एकादेशः] → एसः [विसर्गनिर्माणम्] → एषः [आदेशप्रत्यययोः इति आदेशः यः सकारः, तस्य षत्वम्] स्त्रीलिङ्गे ‘एतद्’ इत्यस्य तु कोऽपि स्त्रीप्रत्ययः न विधीयते, परन्तु दकारस्य अकारः भवति चेत् अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः आगच्छति, अतः ‘एषा’ इति प्रथमैकवचनस्य रूपं जायते । 5) ‘इदम्’ शब्दे यदि दकारः अस्ति, तथापि अस्य सूत्रस्य प्रसक्तिः नास्ति, यतः पुंलिङ्गे इदोऽयं पुँसि (7.2.111) इत्यनेन पुंलिङ्गे इदम्-शब्दस्य ‘इद्’ इत्यस्य ‘अय्’ आदेशः विधीयते, स्त्रीलिङ्गे च यः सौ (7.2.110) इत्यनेन दकारस्य यकारः भवति । 6) अदस् + सुँ → अद औ [अदसः औ सुँलोपश्च (7.2.107) इति सकारस्य औ-आदेशः, सुँ-प्रत्ययस्य लोपः] → अदौ [वृद्धिरेचि (6.1.88) इति वृद्धि-एकादेशः] → असौ [तदोः सः सावनन्त्ययोः (7.2.106) इति दकारस्य सकारादेशः । अत्र ‘अदस्’ इत्यस्य दकारः शब्दस्य अन्ते नास्ति अतः अनेन सूत्रेण तस्य सकारादेशः भवति । प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इति सुँ-प्रत्ययस्य लोपे अपि तस्य लक्षणकार्यम् विधीयते । ]
Sutrartha (English)¶
For the words of त्यदादिगण, a तकार or a दकार which is not at end of the word is converted to सकार when followed by the सुँ-प्रत्यय.
Vasu English Summary¶
For the non-final त् and द् of त्यद् etc. there is substituted स् in the Nominative 1st-Case singular.
Vasu English Translation¶
For the non-final त् and द् of त्यद् etc. there is substituted स् in the Nominative 1st-Case singular. As त्यद् + सु = त्य + अ + सु (7.2.102) = स्य + अ + सु (7.2.106) = स्यः (6.1.97). Similarly सः from तद्, एषः from एसद् as एतद् + सु = एत + अ + स् (7.2.102) = एस + अ + स् (7.2.106) = एषः (6.1.97). So असौ from अदस् by the following sutra. Why do we say ‘non-final’? Observe हे से, सा ॥ Had not this word been used, the case-affix would not be elided in the vocative, as then there would have been no short vowel, as required by (6.1.69).
Bhashya¶
तदोः सः सावनन्त्ययोः किमर्थमनन्त्ययोरित्युच्यते ? ॥ अन्त्ययोर्मा(2) भूदिति ॥ नैतदस्ति प्रयोजनम्, अत्वमन्त्ययोर्बाधकं भविष्यति ॥ अनवकाशा विधयो बाधका भवन्ति, सावकाशं चाऽत्वम् ॥ कोऽवकाशः ? ॥ द्विशब्दः ॥ सत्वमपि सावकाशम् ॥ कोऽवकाशः ? ॥ अनन्त्यः(3) । कथं पुनः सत्यन्त्येऽनन्त्यस्य(1) सत्वं स्यात् ? ॥ भवेद्यस्तकारदकाराभ्यामङ्गं विशेषयेत्तस्याऽनन्त्ययोर्न स्याद्वयं तु खल्वङ्गेन तकारदकारौ विशेषयिष्यामः(2) ॥ एवमप्युभयोः सावकाशयोः परत्वात्सत्वं प्राप्नोति ॥ किं च स्याद्यद्यन्तयोः(3) सत्वं स्यात् ? ॥ इह हे स इति; एङ्ह्रस्वादिति संबुद्धिलोपो न स्यात् । इह च या सा ; अत इति डाब्न स्यात् । तस्मादनन्त्ययोरिति वक्तव्यम् ॥ न वक्तव्यम् ॥ एवं वक्ष्यामि(4) - तदोः सः सौ । ततो ऽदसः । अदसश्च दकारस्य सो भवतीति ॥ इदमिदानीं किमर्थम् ? ॥ नियमार्थम् - अदस एव दकारस्य नान्यस्य दकारस्येति ॥ यदि नियमः क्रियते - द्वीयतेरप्रत्ययो(5) द्व इति प्राप्नोति स्व इति चेष्यते ॥ यथालक्षणमप्रयुक्ते ॥ (तदोः स सौ) ।
Kashika¶
त्यदादीनां तकारदकारयोरनन्त्ययोः सकारादेशो भवति सौ परतः। त्यद् — स्यः। तद् — सः। एतद् — एषः। अदस् — असौ। अनन्त्ययोरिति किम्? हे स। सा॥
Siddhanta Kaumudi¶
त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ परे । स्यः । त्यौ । त्ये । त्यम् । त्यौ । त्यान् । सः । तौ । ते । परमसः । परमतौ । परमते । द्विपर्यन्तानामित्येव । नेह । त्वम् । नच तकारोच्चारणसामर्थान्नेति वाच्यम् । अतित्वमिति गौणे चरितार्थत्वात् । संज्ञायां गौणत्वे चात्वसत्वे न । त्यद् । त्यदौ । त्यदः । अतित्यद् । अतित्यदौ । अतित्यदः । यः । यौ । ये । एषः । एतौ । एते । अन्वादेशे तु । एनम् । एनौ । एनान् । एनेन । एनयोः 2 ॥
Laghu Siddhanta Kaumudi¶
त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ। स्यः। त्यौ। त्ये॥ सः। तौ। ते॥ यः। यौ। ये॥ एषः। एतौ। एते॥
Balamanorama¶
तदोः सः सावनन्त्ययोः - तदोः सः सौ । त्यदादीनामिति । ‘त्यदादीनामः’ इत्यतस्तदनुवृत्तेरिति भावः । तकारदकारयोरिति । सूत्रे तश्च द्चेति विग्रहः । तकारादकार उच्चारणार्थ इति भावः । सः स्यादिति । आदेशेऽपि अकार उच्चारणार्थः । त्यौ इति । सावित्युक्तेर्न सत्वमिति भावः । त्ये इति । सर्वनामत्वाज्जसः शीभाव इति भावः । स्मायादीमप्युपलक्षणमिदम् । त्यं त्यौ त्यान् । त्येन त्याभ्यां त्यैः । त्यस्मै त्याभ्यां त्येभ्यः २ । त्यस्मात् । त्ययोः २ । त्येषां । त्यस्मिन् त्येषु । एवं तद्शब्दः । परमस इति । अत्वादीनामाङ्गत्वात्तदन्तेऽपि प्रवृत्तेरिति भावः । ननु युष्मच्छब्दस्यापि त्यदादित्वात्तस्य प्रथमैकवचने त्वमित्यत्र ‘तदोः सः सौ’ इति सत्वं कुतो न स्यादित्यत आह — द्विपर्यन्तेति । ‘त्यदादीनामः’ इत्यत्र पठितंद्विपर्यन्तानामेवेष्यते॑ इति वार्तिकं ‘तदोः सः सौ’ इत्यत्राप्यनुवर्तते एवेत्यर्थः । ततः किमित्यत आह — नेहेति । इहशब्दविवक्षितमाह — त्वमिति । युष्मच्छब्दस्य द्विशब्दादुपर्येव सर्वादिगणे पाठादिति भावः । ननु ‘त्वाहौ सौ’ इति तकारोच्चारणसामर्थ्यादेव त्वमित्यत्र सत्वं न भवति, अन्यथा ‘स्वाहौ सौ’ इत्येव ब्राऊयात् । अतो द्विपर्यन्तानामित्यनुवृत्तिरिह व्यर्थेत्याशङ्क्य निराकरोति - न चेति । तकारोच्चारणसामर्थ्यादिह सत्वं नेति न वाच्यमित्यन्वयः । अतित्वमिति ।द्विपर्यन्ताना॑मित्यननुवृत्तौत्व॑मित्यत्रापि सत्वं स्यात् । न च ‘त्वाहौ सौ’ इति तकारोच्चारणानर्थक्यं, त्वामतिक्रान्तोऽतित्वमिति गौणे युष्मच्छब्दस्य त्वादेशे त्वाहाविति तकारोच्चारणस्य लब्धप्रयोजनत्वादित्यर्थः । नच अतित्वमित्यत्रापि सत्वप्रवृत्तेर्दुर्वारत्वात्त्वाहाविति तकारोच्चारणानर्थक्यं दुर्वारमिति वाच्यम्, सत्वस्य सर्वाद्यन्तर्गणकार्यत्वेन गौणे तस्याऽप्रवृत्तेः । अत एवाह-संज्ञायामिति । त्यदिति । कस्यचिन्नामेदम् । अतित्यदिति । त्यमतिक्रान्त इति विग्रहः । य इति । यच्छब्दस्य त्यदाद्यत्वे पररूपत्वे सर्वशब्दवद्रूपाणि । तकाराऽभावान्न सत्वम् । एष इति । एतच्छब्दस्य त्यदाद्यत्वे पररूपत्वे सर्ववदेव रूपाणि । सौ तु तकारस्य सत्वमिति विशेषः । अन्वादेशे त्विति ।द्वितीयाटौस्स्वेनः॑ इत्यस्य एतच्छब्देऽपि प्रवृत्तेरिति भावः ।
Tattvabodhini¶
तदोः सः सावनन्त्ययोः - तदोः सः सावनन्त्ययोः ।त्यदादीनामः॑ इत्यतोऽनुवर्तनादाह — त्यदादीनामिति । त्यदादीनामिति किम् । आतपः । तारकः । तदोरिति किम् । यः । अनन्त्ययोः किम् । हे स.अत्र परत्वात्त्यदाद्यत्वं बाधित्वा दस्य सकारे सति हल्डआदिना सुलोपे रुत्वविसर्गौ स्याताम्, तथाचहे सः॑इति रूपं सयात् ।किञ्च स्त्रियांस्ति रूपं न स्यात् । यदा त्वन्त्यस्य सकारे जातेऽपि पुनःप्रसङ्गविज्ञानात्त्यदाद्यत्वं सकारस्य स्वीक्रियते, तदा न किंचिदनिष्टमित्यनन्त्ययोरिति त्यक्तुंशक्यम् । यदि तुतदोः सः सा॑ — वित्यस्यानन्तरम्अदस औ सुलोपश्चे॑त्यत्रअदसः॑इति योगं विभज्याऽदस एव दकारस्य सत्वं नान्यस्य दस्ये॑ति नियमः [स्वी]क्रियते, तदा तुसकृद्गता ॑विति न्यायेप्यनन्त्ययोरिति त्यक्तुं शक्यम् । न चैवं द्वावात्मन इच्छतिद्वीयति॑, ततः क्विपिस्व॑इति रूपं नस्यात्, किंतुद्व॑इति रूपं स्यादिति फले भेदान्नियमपक्षो न संभवतीति वाच्यं, — गौणे अत्वसत्वयोरसंभवेद्वी॑रित्यस्यैव रूपस्य न्याय्यत्वादिति मनोरमायामुक्तत्वात् । सौ किम् । तौ ते तं तौ तान् । ननुतोः सः सौ॑इत्येव सूत्रमस्तु, किमनेनतदो॑रिति पृथग्ग्रहणेनेति चेन्मैवम्,अनेष॑इत्यत्र नकारस्य सत्वप्रसङ्गात् ।नलोपो नञः॒॑तस्मान्नडचि॑इत्यजाद्युत्तरपदस्यएष॑इत्यस्य नुङ्विधानेन त्यदादितवर्गत्वान्नतारस्य । न च सत्वे सति नुङ्विधानं व्यर्थमिति वाच्यम्,अनआ॑इत्यादौ सावकाशत्वात् । तथाचतदौ॑रित्येव सूत्रं युक्तम् । ननुतस्मान्नुडची॑ति सूत्रे ॑तस्मादिति पदं परित्यज्य लाङवात्नुगची॑त्येवोच्यतां, तथाच अजाद्युत्तरपदे परे नञ एव नुगागम इत्यनेष इत्यत्रनोक्तदोष इति चेत्ेवं तर्हिनलोपः प्रातिपदिकान्तस्ये॑ति सूत्रे पञ्चम्यन्तमावश्यकमेव टिदनुबन्धश्चेति ।तदो॑रिति सूत्रे तोरिति वक्तुमशक्यम् ।अने,॑इत्यत्रोक्तदोषात् । अत्र कैयटः — ॒तो॑ — रित्युक्तेऽप्यनेष इत्यत्र सत्वं न भवेत्, नुडागमस्य पदद्वयाश्रितत्वेन बहिरङ्गत्वादन्तरङ्सत्वद्दष्टआ असिद्धत्वादिति । उत्ररपदाधिकारस्थाकार्ये बहिरङ्गपरिभाषाऽभावस्यइच एकाचोऽम् — ॑इत्यत्र भाष्ये उक्तत्वादयं कैयटश्चिन्त्यः । गौणेचरितार्थत्वादिति । गौणे हि अन्तर्गणकार्यत्वात्सत्वं न प्रवर्तते ।स्वाहौ सा॑वित्युक्ते तुअतिस्व॑मिति स्यादिति भावः । अत्वसत्वे नेति । तयोः सर्वाद्यन्तर्गणकार्यत्वादिति भावः ।अतित्यदिति । त्यमतिकान्तोऽतित्यद् ।
Padamanjari¶
सौ, इति प्रथमैकवचनस्य ग्रहणम्, न सप्तमीबहुवचनस्य, स्यश्च्छन्दसि, सोऽचि लोपे चेत् इत्यादिनिर्देशात् । नाप्युभयोः तथाहि सति सि इत्येव ब्रूयात्, सकारादौ विभक्ताविति । अनन्त्ययोरिति किमिति । विशेषणविशेष्यभावे कामचारात्यदादिषु तकारान्तस्यासम्भावच्च त्यदादिभिस्तदोर्विशेषणादनन्त्ययोस्तावस्तावस्तिद्धम्, अन्त्यस्य तु त्यदाद्यत्वं भविष्यतीति प्रश्नः । अत्वस्य सोरन्यक्ष सावकाशत्वात्सौ परत्वादिदमेव स्यादित्युतरम् । तत्र केवले सौ पुंल्लिङ्गे विशेषाभावात् सम्बुद्धौ, स्त्रियां च प्रत्युदाहृतम् । किमर्थं पुनः तदोः इत्युच्यते, तवर्गग्रहणमेव क्रियेत - तोः सः सावनन्त्यस्य इति नकारस्यापि तर्हि प्राप्नोति तस्मान्नुडचि - अनेषः, तानयम्, अनसाविति । नुयं परादिस्तद्ग्रहणेन गृह्यते ॥
Nyaas¶
सै इति। किमिदं प्रथमैकवचनस्य ग्रहणम्? उत सप्तमीबहुवचनस्य? आहोस्विदुभयोरपि? तत्र प्रथमैकवचनस्य ग्रहणम्। तथा हि - द्वयोरपि सामान्येन ग्रहणं न भवति। यदि स्यात्, सीत्र्येवं ब्राऊयात्। एवं हि सकारादौ कार्यं विधीयमानं तयोद्र्वयोरपि भविष्यति। तस्मादन्यतरस्य ग्रहणम्। तथा हि - स्यश्छन्दसि बहुलम् (6.1.133) सोऽचि लोपे चेत् (6.1.134) इत्येवमादेर्निर्देशात्? प्रथमैकवचनस्यैव ग्रहण युक्तम्। हे स, सा इति। हे शब्दो निपातसमुदायोऽवधारणार्थे वर्तते। ननु च त्यदाद्यत्वमत्र बाधकं भविष्यति? नैतदस्ति; अनवकाशा हि विधयो बधका भवन्ति। सावकाशं चात्वम्। कोवकाशः? द्विशब्दः-द्वाविति। सत्यपि तस्मिन्नवकाशे यद्यपि सकरस्याप्यनन्त्योवकाशः, तथाप्यन्तस्य परत्वात्? सत्वं स्यात्। ततश्च हे स इत्यत्र एङ्ह्रस्वात् सम्बुद्धेः (6.1.69) इति सोर्लोपो न स्यात्। तत्र हल्ङ्यादिलोपे कृते रुत्वविसर्जनीययोः कृतयोरनिष्टं रूपं स्यात्। सेत्यत्र तु अजाद्यतष्टाप् (4.1.4) इति स्त्रियां टाब्न स्यात्। तस्मात्? अनन्त्ययोः इति वक्तव्यम्॥
Praudhamanorama¶
अनन्त्ययोः किम्? हे स । परत्वात् त्यदाद्यत्वं बाधित्वा सत्वं स्यात्। ततो हल्ङ्यादिलोपे रुत्वविसर्गौ स्याताम्। किं च स्त्रियां सेति न स्यात्। वस्तुतस्तु अनन्त्यग्रहणं शक्यमकर्तुम्। न चोक्तदोषः, पुनःप्रसङ्गविज्ञाने त्यदाद्यत्वसम्भवात्। सकृद्गताविति पक्षेऽपि ‘तदोः सः सौ’ इत्यस्यानन्तरमदस इति योगं विभज्याऽदस एव सत्वं नान्यस्य दस्येति व्याख्यातुं शक्यत्वाच्च। ननु यथान्यासे द्वीयतेः क्विपि स्व इति प्राप्नोति, नियमे तु द्व इति स्यादिति चेत्? मैवम्। गौणे अत्वसत्वयोरसम्भवेन द्वीरित्यस्यैव न्याय्यत्वात्।
Prakriyasarvasvam¶
त्यदादेरनन्त्ययोस्तकारदकारयोः सौ परे सः स्यात् । सः तौ । ते । हे स, हे तौ इत्यादि सर्ववत् । एवं स्यः । त्यौ । त्ये । यः । यौ । ये । एतदः सत्वे आदेशसत्वात् षः । एषः, एतौः एते इत्यादि । अन्वादेशे तु ‘द्वितीयाटौस्वेनः’ (२–४–३४)। एनमित्यादि इदंवत् । उपसर्जनत्वे त्यदाद्यत्वं न । प्रियः सोऽस्येति प्रियतत् । प्रियतदौ । प्राधान्ये त्वत्वं स्यात् । परमसः । परमतौ । परमते । ‘एतत्तदोः—’ (६–१–१३२) इति सुलोपोऽपि प्राधान्ये स्यात् । महास याति, परमैष वन्द्यः ॥ युष्मदस्मदोर्दान्तयोः लिङ्गत्रये समं रूपम् । युष्मद् स् अस्मद् स्
Sudha¶
तदोः स इति । अत्र **त्यदादीनामः**(7.2.102) इत्यतः त्यदादीनाम् इत्यनुवर्तते । स्यः । त्यद् + सु इत्यत्र **त्यदादीनामः**(7.2.102) इति ‘द्’ इत्यस्य स्थाने अकारादेशे **अतो गुणे**(6.1.97) इति पररूपे कृते ‘त्य सु’ इति जाते **तदोः सः सावनन्त्ययोः**(7.2.106) इति अनन्त्यस्य तकारस्य सत्वे सोरुकारे गते रेफस्य विसर्गत्वे च ‘स्यः’ इति । त्यौ । त्यद् + औ इत्यत्र त्यदाद्यत्वे पररूपत्वे च कृते **वृद्धिरेचि**(6.1.88) इति वृद्धौ ‘त्यौ’ इति रूपम् । त्ये । त्यद् +जस् इत्यत्र त्यादाद्यत्वे पररूपत्वे च सर्वादित्वात्सर्वनामसंज्ञायां ‘जसः शी’ इति जसः स्थाने ‘शी’ आदेशे श् गते गुणे च ‘त्ये’ इति । त्यम्, त्यौ, त्यान् । त्येन, त्याभ्याम्, त्यैः । त्यस्मै, त्याभ्याम्, त्येभ्यः । त्यस्मात् । त्यस्य, त्ययोः, त्येषाम् । त्यस्मिन्, त्येषु । सः । तद् + सु अत्र त्यदाद्यत्वे पररूपत्वे च कृते **तदोः सः सावनन्त्ययोः**(7.2.106) इति तस्य सत्वे सोरुकारे गते रेफस्य विसर्गत्वे च ‘सः’ इति रूपम् । तौ । अत्वे, पररूपत्वे । वृद्धौ च । ते । त्यदाद्यत्वे पररूपत्वे, जसः शीत्वे गुणे च रूपम् । तम्, तौ, तान् । तेन, ताभ्यां, तैः । तस्मै, ताभ्याम्, तेभ्यः । तस्मात् । तस्य, तयोः, तेषाम् । तस्मिन्, तेषु । एवमेव यत् शब्दः । एषः । एतद् + सु इत्यत्र त्यदाद्यत्वे पररूपत्वे च कृते **तदोः सः सावनन्त्ययोः**(7.2.106) इति तकारस्य सकारे कृते **आदेशप्रत्यययोः**(8.3.59) इति सस्य षत्वे च कृते एष + सु इति जाते सोरुकारे गते रेफस्य विसर्गत्वे च ‘एषः’ इति रूपम् । एते । एतद्शब्दस्य त्यदाद्यत्वे पररूपत्वे च सर्ववदेव रूपाणि । अन्वादेशे इति । **द्वितीयाटौस्स्वेनः**(2.4.34) इत्यस्य एतद्शब्देऽपि प्रवृत्तेरिति भावः ।