72107: अदस औ सुलोपश्च¶
Padacheda: अदसः | S | 6 | 1 |
औ | S | | | 1
सुलोपः | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
अदस्-शब्दस्य सुँ-प्रत्यये परे ‘औ’ आदेशः भवति, अदस्-शब्दात् परस्य ‘सुँ’ प्रत्ययस्य च लोपः भवति ।
प्रथमैकवचनस्य सुँ-प्रत्ययस्य उपस्थितौ अदस्-सर्वनामशब्दस्य अन्तिमसकारस्य ‘औ’ आदेशः भवति, तथा, सुँ-प्रत्ययस्य लोपः अपि भवति । यथा - अदस् + सुँ → अद औ [अदस औ सुलोपश्च (7.2.107) इति सकारस्य औकारः, सुलोपश्च] → अदौ [प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते; नादिचि (6.1.103) इति निषेधः । अतः वृद्धिरेचि (6.1.88) इति वृद्धि-एकादेशः] → असौ [यद्यपि सुँ-प्रत्ययस्य लोपः कृतः अस्ति, तथापि प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन सुँ-प्रत्ययविशिष्टमङ्गकार्यम् भवति एव । अतः तदोः सः सावनन्त्ययोः (7.2.106) इति दकारस्य सकारः] अत्र एकं वार्तिकं ज्ञातव्यम् - <!औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च !> । अस्य वार्तिकस्य अर्थः अयम् - अव्ययसर्वनाम्नामकच् प्राक् टेः (5.3.71) अनेन सूत्रेण सर्वनामशब्दानां विषये अकच्-प्रत्ययः स्वार्थे प्रयुज्यते । अयमकच्-प्रत्ययः अङ्गस्य ‘टि’संज्ञकात् पूर्वमागच्छति, अतः अदस्-शब्दात् अकच्-प्रत्यये कृते ‘अदकस्’ इति प्रातिपदिकं सिद्ध्यति । अस्य प्रातिपदिकस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे अनेन सूत्रेण निर्दिष्टः औ-आदेशः विकल्पेन भवति । तथा च, यत्र अयमादेशः न भवति, तत्र सकारात् परस्य वर्णस्य उत्वमपि भवति । यथा - 1) औ-आदेशस्य उपस्थितौ - अदकस् + सुँ → अदक औ [अदस औ सुलोपश्च (7.2.107) इति सकारस्य औकारः, सुलोपश्च] → अदकौ [वृद्धिरेचि (6.1.88) इति वृद्धि-एकादेशः] → असकौ [ तदोः सः सावनन्त्ययोः (7.2.106) इति दकारस्य सकारः] 2) औ-आदेशस्य अभावे - अदकस् + स् अदक अ + स् [त्यदादीनामः (7.2.102) इति सकारस्य अकारः] → अदक + स् [अतो गुणे (6.1.97) इति पररूपः अकारः] → असक + स् [तदोः सः सावनन्त्ययोः (7.2.106) इति दकारस्य सकारः] → असुक + स् [<!औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च !> अनेन वार्तिकेन औ-आदेशस्य अभावे सकारात् परस्य अकारस्य उकारः] → असुकः [विसर्गनिर्माणम्]
Sutrartha (English)¶
The word अदस् gets an ‘औ’ आदेशः when followed by the सुँ-प्रत्यय, and the सुँ-प्रत्यय is removed.
Vasu English Summary¶
For the स् of अदस् there is substituted औ whereby the Nominative 1st-Case singular affix सु is elided.
Vasu English Translation¶
For the स् of अदस् there is substituted औ whereby the Nominative 1st-Case singular affix सु is elided. Karika
अदसः सोर्भवेदौत्वं किं सुलोपो विधीयते । ह्रस्वाल्लुप्येत संबुद्धिर्न हलः प्रकृतं हि तत् ॥ आप एत्वं भवेत्तस्मिन्न झलीत्यनुवर्तनात् । प्रत्ययस्थाश्च कादित्वं शीभावश्च प्रसज्यते ॥
As अदस् + सु = अद + औ + सु (7.2.107) = अस + औ (7.2.166) = असौ ॥
Vart:- When the augment अकच् is added, the औ substitution is optional, and in that alternative उ is added after स्, as असुकः or असकौ ॥
Vart:- When त्यद् &c. form second members of a compound, the above mentioned substitutions take place before the application of sandhi: as परमाहम्, परमायम्, परमानेन ॥
The form असुकः is thus evolved :- अदकस् + सु, now औ substitution of the present sutra is prohibited; therefore, the अ substitution of (7.2.102) takes place, and the द् is changed to स् by (7.2.106), and the अ of अकच् after स् is changed to उ ॥
The following observations may be made with regard to the forms परमाहम् &c. A substitute would be a bahiranga with regard to a case-affix that should be added to a compound. Therefore, being an antaranga rule, the ekadesa should be made first, and this ekadesa being considered as the beginning of the subsequent word, we should get erroneous forms like परमहम्, परमयं instead of परमाहम् and परमायम् &c. Hence the necessity of the above vartika.
Karika :- Let the *sutra be अदस औ without the words सुलोपश्च ॥ The word सौ is understood here from the preceding aphorism. The word अदसः is in the ablative case, the word सौ which is in the 7th case, should be changed here into the 6th case सोः ॥ The sutra would then mean अदस उत्तरस्य सोरौकारो भवति — औ is substituted for the सु after अदस् ॥ Then the final अस् of अदस् is changed to अ by (7.2.102), and द् is changed to स् by (7.2.106), and we have असौ ॥ So where is the necessity of using the words सुलोपश्च in the sutra.
Objection:- If औ be substituted for सु, then in the vocative this औ should be elided by (6.1.69), as it comes after a short vowel अ of (7.2.102). Answer:- औ will not be elided by (6.1.69), for that rule refers to the elision of a consonantal affix only, the word हलः being understood in that sutra, from the preceding sutra (6.1.68).
Objection:- If this be so, then in the Feminine Vocative we have असा + औ, and by the rule (7.3.106), the आ should be changed to ए before this औ ॥ Answer:- No, this will not be so, for the द substitution takes place only before a झल् beginning affix, for the word झलि is understood in the sutra (7.3.106) from the sutra (7.3.103).
Objection:- If this be so, then in the feminine with अकच्, we have, असका + औ, and here rule (7.3.41) shows itself and requires the अ of स to be changed to इ (असिका) before the क of an affix. Answer:- That rule (7.3.44) applies where the feminine affix आ is audible and remains unchanged, but here it is changed to औ (*Vrddhi_ अ । + औ = औ) in असकौ ॥
Objection:- But then in असा + औ, the औ would require to be changed to शी by (7.1.18). Answer:- This objection is partial only, for औङ् in (7.1.18) is explained by some, to be the common name given by ancient grammarians to the औ of Dual; and not to this औ; moreover, in masculine no objection can apply. Hence the words सुलोपश्च may well be omitted.
Bhashya¶
अदस औ सुलोपश्च अदसः(1) सोर्भवेदौत्वं किं सुलोपो विधीयते ? ॥ अदस एव सोर्भवेदौत्वं, किमर्थं सुलोपो विधीयते ? ॥ ह्रस्वाल्लुप्येत(1) संबुद्धिः ॥ इह हे असा विति एङ्ह्रस्वात्संबुद्धेरिति लोपः प्रसज्येत ॥ न हलः(1) ॥ हलो लोपः संबुद्धिलोपः ॥ तद्धल्ग्रहणं कर्तव्यम् ॥ न कर्तव्यम् ? ॥ प्रकृतं(1) हि तत् ॥ प्रकृतं हल्ग्रहणम् ॥ क्व प्रकृतम् ? ॥ हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हलिति ॥ तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः ॥ ह्रस्वादित्येषा पञ्ञ्चमी हलिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति - तस्मादित्युत्तरस्येति ॥ आप एत्वं(1) भवेत्तस्मिन् ॥ इह हे असौ ब्राह्मणि ! । आङि चापः - संबुद्धौ चेत्येत्वं प्रसज्येत ॥ न झलीत्यनुवर्त्तनात् ॥ (नैष दोषः(2)) । झलीति तत्रानुवर्त्तते ॥क्व प्रकृतम् ? ॥ सुपि च बहुवचने झल्येदिति । ॥ प्रत्ययस्थाच्च(1) कादित्त्वम् ॥ इर्ह च असकौ ब्राह्मणीति प्रत्ययस्थात्कात्पूर्वस्येतीत्त्वं प्रसज्येत ॥ नैष दोषः । प्रश्लिष्टनिर्देशोऽयम् - आ-आप् - आबिति ॥ इहापि तर्हि न प्राप्नोति - कारिके हारिके(3) इति ॥ ॥ शीभावश्च प्रसज्यते(1) ॥ इह च शीभावः प्राप्नोति - असौ ब्राह्मणी ॥ आप उत्तरस्यौङः शी भवतीति शीभावः प्राप्नोति । तस्मात्सोर्लोपो वक्तव्यः ॥ सावौत्वप्रतिषेधः(3) साकच्काद्वा सादुत्वं च ॥ सावौत्वप्रतिषेधः साकच्काद्वा वक्तव्यः । साच्च परस्य उत्वं वक्तव्यम् । असकौ असुकः । ॥ उत्तरपदभूतानामादेश उपदेशिवद्वचनम् (अनादिष्टार्थम्) ॥ उत्तरपदभूतानांत्यदादीनामादेश उपदेशिवद्भावो वक्तव्यः । परमाहं परमायं परमानेन ॥ किं प्रयोजनम् ? ॥ अनादिष्टार्थम् । अकृते एकादेशे आदेशा यथा स्युरिति । किं पुनः कारणम् - एकादेशस्तावद्भवति न पुनरादेशाः ?, न परत्वादादेशैर्भवितव्यम् ? ॥ बहिरङ्गलक्षणत्वात् ॥ बहिरङ्गा आदेशाः, अन्तरङ्ग एकादेशः - असिद्धं बहिरङ्गमन्तरङ्गे ॥ स तर्ह्युपदेशिवद्भावो वक्तव्यः ? ॥ न वक्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति - पूर्वपदोत्तरपदयोस्तावत्कार्यं भवति नैकादेश इति, - यदयं नेन्द्रस्य परस्येति प्रतिषेधं शास्ति ॥ कथं कृत्वा ज्ञापकम् ? ॥ इन्द्रे द्वावचौ, तत्रैको यस्येति लोपेनापह्रियतेऽपर एकादेशेन, अनच्क इन्द्रः संवृत्तस्तत्र(4) को वृद्धेः प्रसङ्गः(5) ? । पश्यति त्वाचार्यः-पूर्वपदोत्तरपदयोस्तावत्कार्यं भवति नैकादेशइति, - ततो नेन्द्रस्य परस्येति प्रतिषेधं शास्ति ॥ ॥ अदसः(6) सोर्भवेदौत्वं कि सुलोपो विधीयते ? ॥ ह्रस्वाल्लुप्येत संबुद्धिर्न हलः प्रकृतं हि तत् ॥ आप एत्वं भवेत्तस्मिन्न झलीत्यनुवर्तनात् । प्रत्ययस्थाच्च कादित्त्वं शीभावश्च प्रसज्यते ॥
Kashika¶
अदसः सौ परतः सकारस्य औकारादेशो भवति, सोश्च लोपो भवति। असौ॥ औत्वप्रतिषेधः साकच्काद् वा वक्तव्यः सादुत्वं च॥ यदा चौत्वप्रतिषेधः तदा सकारादुत्तरस्योत्वं भवति। असुकः। असकौ॥ उत्तरपदभूतानां त्यदादीनामकृतसन्धीनामादेशा वक्तव्याः॥ परमाहम्। परमायम्। परमानेन।
अदसः सोर्भवेदौत्वं किं सुलोपो विधीयते।
ह्रस्वाल्लुप्येत संबुद्धिर्न हलः प्रकृतं हि तत् ॥ १॥
आप एत्वं भवेत्तस्मिन्न झलीत्यनुवर्तनात्।
प्रत्ययस्थाच्च कादित्वं शीभावश्च प्रसज्यते॥ २॥
Siddhanta Kaumudi¶
अदस औकारोन्तादेशः स्यात्सौ परे सुलोपश्च । तदोः सः सौ (SK381) इति दस्य सः । असौ ॥<!औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च !> (वार्तिकम्) ॥ प्रतिषेधसंनियोगशिष्टमुत्वं तदभावे न प्रवर्तते । असकौ । असुकः । त्यदाद्यत्वं । पररूपत्वम् । वृद्धिः । अदसोऽसेः (SK419) इति मत्वोत्वे । अमू । जसः शी (SK214) । आद् गुणः (SK69) ॥
Laghu Siddhanta Kaumudi¶
अदस औकारोऽन्तादेशः स्यात्सौ परे सुलोपश्च। तदोरिति सः। असौ। त्यदाद्यत्वम्। वृद्धिः॥
Balamanorama¶
अदस औ सुलोपश्च - अदस्शब्दात्सौ त्यदाद्यत्वे प्राप्ते-अदस औ ।अदस इति षष्ठी । ‘औ’ इत्यविभक्तिकनिर्देशः । ‘तदोः सः सौ’ इत्यतःसा वित्यनुवर्तते । तदाह — अदस इति । ‘अन्तादेश’ इत्यलोन्त्यपरिभाषालभ्यम् । सकारस्य औत्त्वे कृते हलः परत्वाऽभावाद्धल्ङ्यादिलोपेऽप्राप्ते सुलोपविधिः । दस्य स इति । मुत्वापवाद इति भावः । असौ इति । अदस्स् इति स्थिते सकारस्य औत्त्वे, सुलोपे, दस्य सत्वे च रूपम् ।अतअव्ययसर्वनाम्ना मित्यकचि अदकस्शब्दात्सो विशेषमाह — औत्वप्रतिषेध इति ।अदस औ सुलोपश्चे॑त्यत्र अदस्शब्देन तन्मध्यपतितन्यायेन अदकस्शब्दस्यापि ग्रहणादौत्त्वे प्राप्ते विकल्पेन तत्प्रतिषेदो वक्तव्यः । ‘तदोः सः सौ’ इति दकारस्य सकारे कृते तस्मात्सकारात्परस्य अकारस्य उकारश्च वा वक्तव्य इत्यर्थः । ततश्च अदकस्स् इति स्थिते, औत्वाऽभावे, दसय् सत्वे सति, सकारातपरस्य अकारस्य उत्वे सति, त्यदाद्यत्वे, पररूपे, रुत्वे, विसर्गे असुक इति रूपम् । औत्वप्रतिषेधाभावपक्षे अदकस्स् इति स्थिते, सकारस्य औत्वे, सुलोपे, दस्य सत्वे, असकौ इति रूपं वक्ष्यति । तत्र औत्वप्रतिषेधाऽभावपक्षे औत्वे कृते सकारादकारस्य उत्वविकल्पः कुतो न स्यादित्यत आह — प्रतिषेधेति ।सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः॑ इति न्यायादिति भावः । ‘अमुकः’ ‘अमुकशर्मा’ इत्यादि त्वसाध्वेवेत्याहुः । केचित्तु अदस्शब्दपर्यायोऽमुकशब्दोऽव्युत्पन्न इत्याहुः । अदस् औ इति स्थिते प्रक्रियां दर्शयति — त्यदाद्यत्वमिति । पररूपमपि बोध्यम् । मत्वोत्वे इति । ‘अदौ’ इत्यत्र दात्परस्य औकारस्य दीर्घ ऊकारः, दस्य मत्वं चेत्यर्थः । जसि त्यदाद्यत्वं पररूपं च सिद्धवत्कृत्य आह — जसःशीति । आद्गुणे अदे इति स्थितम् ।
Tattvabodhini¶
अदस औ सुलोपश्च - अदस औ सुलोपश्च ।अदस इति षष्ठी ।तदोः सः सौ इत्यतः सावित्यनुवर्तते, तदाह — औकारोऽन्तादेशः स्यात्सौ पर इति । नन्वदस इति पञ्चम्येवाऽस्तु ततः परस्य सोरेवौकारो विधीयतां, त्यदाद्यत्वेन असाविति रूपं सिध्यति किं सुलोपविधानेन । न च स्वरे भेदः, उदात्तेन सहेकादेश औकारस्योदात्तत्वात् । मैवम् ।असकौ स्त्री॑त्यत्र टापिपत्र्ययस्था॑दितीत्त्वपर्सङ्गात् । असुक इति । औत्वाऽभावे त्यदाद्यत्वे सादुत्वम् । स्त्रियां तुअसुकौ॒॑असुका॑इति ।अमुकी॒॑असुकी॑ति च प्रयोगऽसाधुरेव । एवममुकशर्मेत्यादिरपि ।अदकःशर्मे॑त्यादेरेव न्याय्यत्वात् ।
Padamanjari¶
असुक इति । अदकस् सु इति स्थिते औत्वप्रतिषेधात्यदाद्यत्वं दकारस्य सत्वं सकारादुतरस्य चाकचोऽकारस्य उत्वम् । उतरपदभूतानामित्यादि । समासाद्या विभक्तिरुत्पद्यते, तदपेक्षत्वादादेशो बहिङ्गः, ततश्चान्तरङ्गत्वादेकादेशे कृते तस्यादिवद्भावादादेशेषु क्रियमाणेषु परमयम्, परमहमित्याद्यनिष्टप्रसङ्गः । तस्मादकृतसन्धिकार्याणामेवामी आदेशा वक्तव्याः । एतच्च नेन्द्रस्य परस्य इत्यत्र ज्ञापयिष्यते । अदसः सोर्भवेदित्यादि । अदस औ इत्येतावदेव सूत्रमस्तु, सौ इत्येव अदसः इति पञ्चमी, तया पूर्वसूत्रे कृतार्थायाः सप्तम्याः षष्ठ।लं प्रकल्पितायामदस उतरस्य सोरौकारो भवतीत्यर्थः, तत्र त्यदाद्यत्वे कृते असाविति सिद्धे किं सुलोपो विधीयते । ह्रस्वाल्लुप्येत सम्बुद्धिः । यदि सोरौकारो विधीयते, तदा हि असावित्यत्र त्यदाद्यत्वे ह्रस्वात्परस्याः सम्बुद्धेरौकारस्य लोपः स्यात्, न हलः नैष दोषः, हलः सलोपे विधीयते ए। यद्येवम्, तत्र हल्ग्रहणं कर्तव्यम् नेत्याह - प्रकृतं हि तत् । हल्ङ्याब्भ्यो दीर्घात् इत्यत्र । ननु चेदं प्रथमानिर्दिष्टम्, षष्ठआआ प्रकल्पयिष्यति तस्मादित्युतरस्य इति । पूर्वसूत्रवद्वा प्रथमाया तएव यथाकथञ्चिन्निर्वाहो भविष्यति । आप एत्वं भवेतस्मिन् । इह तर्हि स्त्रियां सम्बुद्धौ असा - औ आङ् चापिः सम्बुद्धौ च थैत्येवं प्राप्नोति, प्रकृते रेव त्वौत्वे टापोऽभावादेत्वाभावः, न, झलीत्युवर्तनात् नैष दोषः, बहुवचने झल्येत् इत्यतो झलीति तत्रानुवर्तते - झलादौ सम्बुद्धाविति, औत्वे कृते अझलादित्वान्न भविष्यति । प्रत्ययस्थाच्च कादित्वमिति । इह तर्हि स्त्रियामकचि असका - औ इति स्थिते प्रत्ययस्थात्कात्पूर्वस्य इतीत्वं प्राप्नोति, प्रकृतेरेव त्वौकारे टापोऽभावादित्वाभावः । शीभावश्च प्रसज्यते । इह च स्त्रियामसा - औ इति स्थिते औह आपः इति शीभावः प्राप्नोति, औत्वविधानं तु पुंसि चरितार्थम् पाक्षिक एष दोषः, यदा औङ् आपः इति पूर्वाचार्यनिर्देशस्तदा नास्ति, इतरयोरस्तु पक्षयोरस्ति ॥
Nyaas¶
सौ इत्येव। त्यदाद्यत्वापवादोऽदस औत्वं विधीयते। असौ इति। पूर्वसूत्रेण दकारस्य सकारः, वृद्धिरेचि (6.1.88) इति वृद्धिः। यदा च इत्यादि। सादुत्वञ्च इति। चकारः सन्नियोगार्थः। तेन यस्मिन्? पक्षे औत्वप्रतिषेधः, तस्मिन्नेव पक्षे सादुत्तरस्याकारस्योत्त्वं विधीयते। उत्तरपदमभूतानाम् इत्यादि। इह परमाहम्, परमानेनेति त्वाहौ सौ (7.2.94) , इदोऽय्? पुंसि (7.2.111) , अनाप्यकः (7.2.112) इति समासाद्? या विभक्तिः, तस्यामेत आदेशः भवन्तो बहिरङ्गा भवन्ति; प्रागेव तु विभक्त्युत्पत्तेः। अकः सवर्णे दीर्घत्वं प्राप्नुवदन्तरङ्गम्, तस्मात्? पूर्वं तदेव स्यात्, पश्चादादेशाः स्युः; ततश्च परमहम्, परमयम्, परमनेनेत्यनिष्टानि रूपाणि रूपणि स्युः। तस्मादुत्तपदभूतानामकृतसवरसन्धीनां त्यदीदीनामादेशा वक्तव्याः=व्याख्येया इत्यर्थः। आचार्यप्रवृत्तिज्र्ञापयति - पूर्वोत्तरयोः पदयोस्तावत्? कार्यं प्रथमं भवति, पश्चादेकादेश ति। यदयं नेन्द्रस्य परस्य (7.3.22) इति प्रतिषेधं शास्ति। कथं कृत्वा ज्ञापकम्? इन्द्रे द्वावचौ, तत्रैकः - यस्येति च (6.4.148) इति लोपेनापह्नियते, अपरः - एकादेशेनेत्यनच्क इन्द्रशब्दः सम्पन्नः, तत्र को वृद्धिप्रसङ्गः! पश्यति त्वाचार्यः - पुर्वोत्तरयोः पदयोस्तावत् कार्यं भवति, पश्चादेकादेश इति; यतः नेन्द्रस्य परस्य (7.3.22) इति वृद्धिप्रतिषेधं शास्ति। तदेतस्माज्ज्ञापकादकृतस्वरसन्धीनामुत्तरपदभूतानां त्यदादीनामादेशा भवन्तीति। अवसः सोर्भवेदौत्वम् इत्यादि। अवधारणमत्र द्रष्टव्यम्। अदःशब्दात्? परस्य सोरेवौत्वं भवेत्। भवतु, मा वा भूत्। अदश्शब्दस्य त्यदाद्यत्वे कृते वृद्धिरेचि (6.1.88) इति वृद्धौ कृतायामसाविति सिध्यत्येव, तत्? किमर्थं सुलोपे विधीयते? निरर्थकतवान्नैवं सोर्लोपो विधेयः, औत्वमेव विधेयम्। अत्र दोषमाह - ह्रस्वाल्लुप्येत सम्बुद्धिः इति। हेऽसावित्यत्र एङ्ह्रस्वात् सम्बुद्धेः (6.1.69) इति सोर्लोपः प्रसज्येत, ततश्च सम्बुद्धौ हेऽसाविति न सिध्येत्? न हलः प्रकृतं हि तत् इति। नायं देषः; हलः सम्बुद्धेर्लोप औत्वे कृतेऽण्? भवति, न हलिति, तत्कुतो लोपप्रसङ्गस्तत्र! तर्हि हल्ग्रहणं कर्तव्यम्? न कर्तव्यम्; यस्मात्? प्रकृतं तत्। हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यतो हल्ग्रहणं प्रकृतमेव। यद्यपि तत्र प्रथमानिर्दिष्टम्, षष्ठीनिर्देशेन चेहार्थः, तथापि एङ्? ह्रस्वात् (6.1.67) इति पञ्चमी हलित्यस्याः प्रथमायाः षष्ठीत्वं प्रकलप्यिष्यति; तस्मादित्युत्तरस्य (1.1.67) इति वचनात्। अथं तर्हि दोषः - आप एत्वं भवेत्? तस्मिन् इत्यादि। तस्मिन्नोकारे परतस्त्यदाद्यत्वे कृते स्त्रियां टापि - हे असौ ब्राआहृणीत्यतर सम्बुद्धौ च (7.3.106) इत्येत्वं स्यात्, यथा हि हे खट्वे इत्यत्र? न ज्ञलीत्यनुवर्तनात् इति। नायं दोषः; सम्बुद्धो च (7.3.106) इत्यत्र बहुवचने झल्येत् (7.3.103) इत्यनुवर्तते, तेन झलादौ सम्बुद्धावेत्येन भवितव्यम्। च चौकारे कृते झलादिः सम्बुद्धिर्भवति, किं तर्हि? अजादिः। प्रत्ययस्थाच्च कादित्त्वं शीभावश्च प्रसज्यते [प्रसज्येत - प्रा। मुद्रितः पाठः] इति। पूर्वकश्चकारः तह्र्रर्थे, इतरः समुच्चये। अयं तर्हि दोषः - असकौ ब्राआहृणीत्यत्राज्ञाताद्यर्थविवक्षायामकचि कृते टापि च प्रत्ययस्थात्? कात् (7.3.44) इत्यादिना कात्? पूर्वस्येत्वं प्राप्नोति? असौ ब्राआहृणी इत्यत्र औङ आपः (7.1.18) इत्यनेन शीभावोऽदसस्त्ववयव ओकारे कृते टाबेव नास्तीति नैतद्दोषद्वयं सम्भवति। शीभावदोषश्च पाक्षिको वेदितव्यः, यस्मिन्? पक्षे सामान्यग्रहणार्थो ङकारः प्रत्ययस्यासज्यते। यदा तु पूर्वसूत्रनिर्देशस्तदा द्विवचनयोरेव शीभावः; तयोरेव पूर्वाचार्यैर्ङित्वस्य कृतत्वात्। अन्यस्य प्राप्तिरेव नास्ति; आङित्त्वात्॥
Praudhamanorama¶
ननु सोरेवौकारो विधीयतां त्यदाद्यत्वेनाऽसाविति सिद्धे किं सुलोपविधानेन; मैवम्, असकौ स्त्रीत्यत्र टापि ‘प्रत्ययस्थात्’ इतीत्त्वप्रसङ्गात्। असुक इति। औत्वाभावे त्यदाद्यत्वं सादुत्वम्। अमुक इति त्वसाधुः। सत्वेन मुत्वस्य बाधात्। एवममुकी अमुकशर्मा इत्यादयोऽप्यसाधव एव। असुका अदकः शर्मेत्यादेरेव न्याय्यत्वात्।
Prakriyasarvasvam¶
अदसः सौ परेऽन्त्यस्यौत्वं सोर्लोपश्च स्यात् । वृद्धिः । अदौ । ‘तदोः सः सौ—’ (७-२-१०६) इति दस्य सः । असौ । साकच्कस्यौत्वं वा वाच्यम् । औत्वाभावे सादुत्वं च । असकौ । असुकः । अत्रौत्वाभावात् त्यदाद्यत्वपररूपत्वयोः सौ विसर्गः । ‘अमुक इति दृष्टान्ताभावादि’त्यादावमुकशब्दः प्रकृत्यन्तरमित्याहुः । अदस् औ । त्यदाद्यत्वपररूपत्वे । वृद्धिः । अदौ । ‘अदसोसेः—’ (८-२-८०) इत्युत्वं च । ‘स्थानेऽन्तरतमः’ (१-१-५०) इति ह्रस्वस्य ह्रस्वः, दीर्घस्य दीर्घ उकारः । अमू । जसि त्यदाद्यत्वेन सर्ववत् अदे इति स्थिते—
Sudha¶
अदस औ सुलोपश्चेति । अदसः इति षष्ठी । **तदोः सः सावनन्त्ययोः**(7.2.106) इत्यतः सावित्यनुवर्तते, तदाह - अदसः औत्स्यात्सौ परे इति । असौ । अदस् + सु इत्यत्र **अदस औ सुलोपश्च**(7.2.107) इति सस्य स्थाने औत्वे सलोपे च विहिते, अद औ इति जाते **तदोः सः सावनन्त्ययोः**(7.2.106) इति दस्य सत्वे **वृद्धिरेचि**(6.1.88) इति वृद्धौ च कृतायाम् ‘असौ’ इति सिद्ध्यति ।
Vartika¶
अदस औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च ।