72105: क्वाति

Padacheda: क्व | S | | | 1

अति | S | 7 | 1 |

Sutrartha

‘अत्’ विभक्तिप्रत्यये परे किम्-शब्दस्य ‘क्व’ आदेशः भवति ।

किमोऽत् (5.3.12) अनेन सूत्रेण किम्-शब्दात् ‘अत्’ इति तद्धितप्रत्ययः भवति । अस्य प्रत्ययस्य प्राग्दिशौ विभक्तिः (5.3.1) इत्यनेन विभक्तिसंज्ञा अपि भवति । अस्मिन् प्रत्यये परे किम्-शब्दस्य वर्तमानसूत्रेण क्व-आदेशः भवति । अनेकाल्शित्सर्वस्य (1.1.55) इति अयम् सर्वादेशः जायते ।] किम् + अत् [किमोऽत् (5.3.12) इति किम्-शब्दात् ‘अत्’ इति तद्धितप्रत्ययः] → क्व + अ [क्वाति (7.2.105) इति किम्-इत्यस्य क्व-आदेशः] → क्व् + अ [यस्येति च (6.4.148) इति अकारलोपः] → क्व

Sutrartha (English)

The word किम् is converted to क्व when followed by the विभक्तिप्रत्यय ‘अत्’.

Vasu English Summary

कु is substituted for किम् before the विभक्ति अत् ।

Vasu English Translation

कु is substituted for किम् before the विभक्ति अत् । As क्व गमिष्यसि, क्व भोक्ष्यते ॥ The substitute कु of the last rule, before the affix अ would have become क्व, but that it would have caused guna, hence this separate substitute. Had the sutra been किमोऽड्वत् it would not have included the अकच् augmented किम् ॥

Bhashya

क्वाऽति किमर्थं क्वादेश उच्यते न कुतिहात्स्वित्येवोच्येत ॥ का रूपसिद्धिः क्व ? ॥ यणादेशेन सिद्धम् ॥ न सिध्यति - ओर्गुणः प्रसज्येत ॥ (क्वाति) ॥

Kashika

अतीत्येतस्यां विभक्तौ परतः किमित्येतस्य क्व इत्ययमादेशो भवति। क्व गमिष्यसि। क्व भोक्ष्यते। आदेशान्तरवचनम् ओर्गुण — (६.४.१४६) — निवृत्त्यर्थम्। किमो ड्वदिति प्रत्ययान्तरं न विधीयते, साकच्कार्थम्॥

Siddhanta Kaumudi

किमः क्वादेशः स्यादति । क्व । कुत्र ॥

Laghu Siddhanta Kaumudi

किमः क्वादेशः स्यादति। क्व। कुत्र॥

Balamanorama

क्वाति - क्वाऽति । क्व — अतीति छेदः ।क्वे॑ति लुप्तप्रथमाकं । ‘किमः कः’ इत्यतः किम इत्यनुवर्तते । तदाह — किमः क्वेति । किंशब्दात्सप्तम्यन्तादत्प्रत्ययः, तकार इत्, किमः क्वादेश इति भावः । कुत्रेति । अत्प्रत्ययाऽभावपक्षे त्रलिकु तिहो॑रिति कुभावे रूपम् । केचित्तुकिमोऽ॑दित्यत्र उत्तरसूत्राद्वाग्रहणाऽपकर्षे प्रमाणाऽभावात्रलं बाधित्वा नित्य एव अत्प्रत्ययः,कुत्रे॑ति त्वपशब्द एवेत्याहुः ।

Tattvabodhini

क्वाति - कुत्रेति । यद्यपि भागृवृत्तिकारो बाषायं त्रल् नेच्छति, तथापि बहु प्रयोगदर्शनादिह स्वीकृतम् । तथा च श्रीहर्षः -॒नान्यत्र कुत्रापि च साभिलाषम् । अमरस्चाह -॒साहचर्याच्च कुत्रचि॑दिति ।

Padamanjari

क्वेति । किमोऽत् इत्यत्प्रत्ययः ॥ अथदेशान्तरकरणं किमर्थम्, न प्रकृतः कुशब्द एव विधीयते, एवं च कृत्वा योगाविभागोऽपि न कर्तव्यः कुतिहात्सु इत्येवास्तु का रूपसिद्धिः यणादेशे कृते क्वेति सिद्धम्, ओर्गुणस्तु अङ्गवृते पुनर्वृतौ इति वचनान्न भविष्यति, यणदेशस्त्वनाङ्गत्वाद्भवत्येव तत्राह - आदेशान्तरकरणमोर्गुणनिवृत्यर्थमिति । निष्ठिततत्वं दुर्ज्ञानमिति भावः । एवं तर्हि किमोऽत् इत्येतत् किमोड्वत् इति वक्तव्यम्, टिलोपो कृते क्वेति सिद्धमत आह - किमोड्वदिति चेति । कथं पुनः प्रत्ययान्तरे रूपसिद्धिः, यावता ककारस्य जश्त्वं प्राप्नोति टिलोपो हि डित्प्रत्यभविष्यति । कथमसिद्धत्वमसिद्धं बहिरङ्गमन्तरणेó । टिलोपो हि डित्प्रत्ययापेक्षत्वाद्बहिरङ्गः जश्त्वं तु तदनपेक्षत्वादन्तरङ्गम् । साकच्कार्थमिति । साकच्के हि प्रत्ययान्तरे विहिते कक्वेति स्यत् । यथान्यासे तु तत्रापि क्वेत्येव भवति ॥

Nyaas

कादेशस्यायमपवादः। क्व इति। किमोऽत् (5.3.12) इत्यत्। अथ किमर्थमादेशान्तरं विधीयते, न प्रकृतः कु एव विधीयताम्, तत्रापि यणादेशो क्वेति सिध्यत्येव; योगविभागश्च न कर्तव्यो भवति, कुतिहात्सु इत्येको योगः करिष्यते? इत्यत आह - आदेशान्तरवचनम् इत्यादि। कुशब्दे ह्रादेशे सति यणादेशं बाधित्वा ओर्गुणः (6.4.146) इति गुणः स्यात्। तस्मात्? तन्निवृत्त्यर्थं क्वादेश इत्युच्यते। एवमपि प्रत्ययविधावेव किमो ड्वत् इति ड्वत्प्रत्ययो विधेयः, तत्रापि टिलोपे कृते क्वेति रूपं सिध्यत्येव। पदसंज्ञायां सत्यां झलां जशोऽन्ते (8.2.39) इति ककारस्य गकारः प्राप्नोतीत्यतो न सिध्यतीति चेत्? नैतदस्ति; असिद्धं बहिरङ्गमन्तरङ्गे (व्या।प।42) इति टिलोपस्यासिद्धत्वाज्जश्त्वं न भवति। टिलोपो हि डिति विधीयते, तेन डितमपेक्षमाणो बहिरङ्गो भवति। जश्त्वं तु पदान्ते विधीयमानं नापरनिमित्तमपेक्षत इत्यन्तरङ्गमित्यत आह - `किमो ड्वदिति प्रत्ययान्तरम् इत्यादि। यदि डवदिति प्रत्ययान्तरं विधीयेत, साकच्कस्य क्वेति रूपं न सिध्यति। असचि हि कृते ककिमिति स्थिते ड्वत्प्रत्यये परतष्टिलोपे सति कक्वेत्यनिष्टं रूपं स्यत्। अत्प्रत्यये तु क्वादेशो विधीयमानोऽनेकास्त्वात्? साकच्कस्य सर्वादेश एव भवतीति न भवत्यनिष्टरूपप्रसङ्घः। तस्मात्? साकच्कार्थं ड्वदिति न प्रत्ययान्तरं विधीयते। साकच्कोऽर्थः प्रयोजनं यस्य तत्? साकच्कार्थम्॥

Prakriyasarvasvam

अतिविभक्तौ परतः किमः क्वः स्यात् । ‘यस्येति च’ (६-४-१४८) इति लोपः । क्व । त्रलपीष्टः । कुत्र ।