72105: क्वाति ============= **Padacheda:** क्व | S | | | 1 अति | S | 7 | 1 | Sutrartha --------- **'अत्' विभक्तिप्रत्यये परे किम्-शब्दस्य 'क्व' आदेशः भवति ।** **किमोऽत्** (5.3.12) अनेन सूत्रेण किम्-शब्दात् 'अत्' इति तद्धितप्रत्ययः भवति । अस्य प्रत्ययस्य **प्राग्दिशौ विभक्तिः** (5.3.1) इत्यनेन विभक्तिसंज्ञा अपि भवति । अस्मिन् प्रत्यये परे किम्-शब्दस्य वर्तमानसूत्रेण क्व-आदेशः भवति । **अनेकाल्शित्सर्वस्य** (1.1.55) इति अयम् सर्वादेशः जायते ।] किम् + अत् [**किमोऽत्** (5.3.12) इति किम्-शब्दात् 'अत्' इति तद्धितप्रत्ययः] → क्व + अ [**क्वाति** (7.2.105) इति किम्-इत्यस्य क्व-आदेशः] → क्व् + अ [**यस्येति च** (6.4.148) इति अकारलोपः] → क्व Sutrartha (English) ------------------- The word किम् is converted to क्व when followed by the विभक्तिप्रत्यय 'अत्'. Vasu English Summary -------------------- कु is substituted for किम् before the विभक्ति अत् । Vasu English Translation ------------------------ कु is substituted for किम् before the विभक्ति अत् । As क्व गमिष्यसि, क्व भोक्ष्यते ॥ The substitute कु of the last rule, before the affix अ would have become क्व, but that it would have caused *guna*, hence this separate substitute. Had the *sutra* been किमोऽड्वत् it would not have included the अकच् augmented किम् ॥ Bhashya ------- क्वाऽति किमर्थं क्वादेश उच्यते न कुतिहात्स्वित्येवोच्येत ॥ का रूपसिद्धिः क्व ? ॥ यणादेशेन सिद्धम् ॥ न सिध्यति - ओर्गुणः प्रसज्येत ॥ (क्वाति) ॥ Kashika ------- अतीत्येतस्यां विभक्तौ परतः किमित्येतस्य क्व इत्ययमादेशो भवति। क्व गमिष्यसि। क्व भोक्ष्यते। आदेशान्तरवचनम् ओर्गुण — (६.४.१४६) — निवृत्त्यर्थम्। किमो ड्वदिति प्रत्ययान्तरं न विधीयते, साकच्कार्थम्॥ Siddhanta Kaumudi ----------------- किमः क्वादेशः स्यादति । क्व । कुत्र ॥ Laghu Siddhanta Kaumudi ----------------------- किमः क्वादेशः स्यादति। क्व। कुत्र॥ Balamanorama ------------ **क्वाति** - क्वाऽति । क्व — अतीति छेदः ।क्वे॑ति लुप्तप्रथमाकं । 'किमः कः' इत्यतः किम इत्यनुवर्तते । तदाह — किमः क्वेति । किंशब्दात्सप्तम्यन्तादत्प्रत्ययः, तकार इत्, किमः क्वादेश इति भावः । कुत्रेति । अत्प्रत्ययाऽभावपक्षे त्रलिकु तिहो॑रिति कुभावे रूपम् । केचित्तुकिमोऽ॑दित्यत्र उत्तरसूत्राद्वाग्रहणाऽपकर्षे प्रमाणाऽभावात्रलं बाधित्वा नित्य एव अत्प्रत्ययः,कुत्रे॑ति त्वपशब्द एवेत्याहुः । Tattvabodhini ------------- **क्वाति** - कुत्रेति । यद्यपि भागृवृत्तिकारो बाषायं त्रल् नेच्छति, तथापि बहु प्रयोगदर्शनादिह स्वीकृतम् । तथा च श्रीहर्षः -॒नान्यत्र कुत्रापि च साभिलाषम् । अमरस्चाह -॒साहचर्याच्च कुत्रचि॑दिति । Padamanjari ----------- क्वेति । किमोऽत् इत्यत्प्रत्ययः ॥ अथदेशान्तरकरणं किमर्थम्, न प्रकृतः कुशब्द एव विधीयते, एवं च कृत्वा योगाविभागोऽपि न कर्तव्यः कुतिहात्सु इत्येवास्तु का रूपसिद्धिः यणादेशे कृते क्वेति सिद्धम्, ओर्गुणस्तु अङ्गवृते पुनर्वृतौ इति वचनान्न भविष्यति, यणदेशस्त्वनाङ्गत्वाद्भवत्येव तत्राह - आदेशान्तरकरणमोर्गुणनिवृत्यर्थमिति । निष्ठिततत्वं दुर्ज्ञानमिति भावः । एवं तर्हि किमोऽत् इत्येतत् किमोड्वत् इति वक्तव्यम्, टिलोपो कृते क्वेति सिद्धमत आह - किमोड्वदिति चेति । कथं पुनः प्रत्ययान्तरे रूपसिद्धिः, यावता ककारस्य जश्त्वं प्राप्नोति टिलोपो हि डित्प्रत्यभविष्यति । कथमसिद्धत्वमसिद्धं बहिरङ्गमन्तरणेó । टिलोपो हि डित्प्रत्ययापेक्षत्वाद्बहिरङ्गः जश्त्वं तु तदनपेक्षत्वादन्तरङ्गम् । साकच्कार्थमिति । साकच्के हि प्रत्ययान्तरे विहिते कक्वेति स्यत् । यथान्यासे तु तत्रापि क्वेत्येव भवति ॥ Nyaas ----- कादेशस्यायमपवादः। `क्व` इति। `किमोऽत्` (5.3.12) इत्यत्। अथ किमर्थमादेशान्तरं विधीयते, न प्रकृतः कु एव विधीयताम्, तत्रापि यणादेशो क्वेति सिध्यत्येव; योगविभागश्च न कर्तव्यो भवति, `कुतिहात्सु` इत्येको योगः करिष्यते? इत्यत आह - `आदेशान्तरवचनम्` इत्यादि। कुशब्दे ह्रादेशे सति यणादेशं बाधित्वा **ओर्गुणः** (6.4.146) इति गुणः स्यात्। तस्मात्? तन्निवृत्त्यर्थं क्वादेश इत्युच्यते। एवमपि प्रत्ययविधावेव `किमो ड्वत्` इति ड्वत्प्रत्ययो विधेयः, तत्रापि टिलोपे कृते क्वेति रूपं सिध्यत्येव। पदसंज्ञायां सत्यां **झलां जशोऽन्ते** (8.2.39) इति ककारस्य गकारः प्राप्नोतीत्यतो न सिध्यतीति चेत्? नैतदस्ति; `असिद्धं बहिरङ्गमन्तरङ्गे (व्या।प।42) इति टिलोपस्यासिद्धत्वाज्जश्त्वं न भवति। टिलोपो हि डिति विधीयते, तेन डितमपेक्षमाणो बहिरङ्गो भवति। जश्त्वं तु पदान्ते विधीयमानं नापरनिमित्तमपेक्षत इत्यन्तरङ्गमित्यत आह - `किमो ड्वदिति प्रत्ययान्तरम्` इत्यादि। यदि डवदिति प्रत्ययान्तरं विधीयेत, साकच्कस्य क्वेति रूपं न सिध्यति। असचि हि कृते ककिमिति स्थिते ड्वत्प्रत्यये परतष्टिलोपे सति कक्वेत्यनिष्टं रूपं स्यत्। अत्प्रत्यये तु क्वादेशो विधीयमानोऽनेकास्त्वात्? साकच्कस्य सर्वादेश एव भवतीति न भवत्यनिष्टरूपप्रसङ्घः। तस्मात्? साकच्कार्थं ड्वदिति न प्रत्ययान्तरं विधीयते। साकच्कोऽर्थः प्रयोजनं यस्य तत्? साकच्कार्थम्॥ Prakriyasarvasvam ----------------- अतिविभक्तौ परतः किमः क्वः स्यात् । 'यस्येति च' (६-४-१४८) इति लोपः । क्व । त्रलपीष्टः । कुत्र ।