72098: प्रत्ययोत्तरपदयोश्च¶
Padacheda: प्रत्यय-उत्तरपदयोः | S | 7 | 2 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
त्व is substituted for युष्म् and म for अस्म् when they signify a single individual, even when an affix follows or a word is in composition.
Vasu English Translation¶
त्व is substituted for युष्म् and म for अस्म् when they signify a single individual, even when an affix follows or a word is in composition. As त्वदीयः, मदीयः, with the affix छ (4.2.114), (1.1.74) त्वत्तरः (= अतिशयेन त्वं), मत्तरः, त्वद्यति (= त्वामिच्छति), मद्यति; त्वद्यते (= त्वमिवाचरते), मद्यते ॥ Similarly when a second member of the compound follows. As तव पुत्रः = त्वत्पुत्रः, मत्पुत्रः ॥ त्वं नाथोऽस्य = त्वन्नाथः, मन्नाथः ॥ When more than one individual is signified, the substitution does not take place, as युष्मदीयं (= युष्माकमिदं), अस्मदीयं; युष्मत्पुत्रः (= युष्माकं पुत्रः), अस्मत्पुत्रः ॥
The sutra (7.2.97) referred to the vibhaktis or case-endings, as that word from (7.2.84) governs these sutras, the present sutra refers to other affixes, and to compounds. It might be objected, that even before other affixes and compounds these words had in them vibhaktis, though those vibhaktis were elided when these affixes were added or when the words became part of a compound; and that having in them suppressed vibhaktis, the substitutions would take place in spite of this sutra. This objection is not valid, for there the vibhaktis have been elided. But is not elision a Bahiranga and the substitute an antaranga process; and should not, therefore, the substitute come first and then the vibhakti elided? The substitution specially taught in this sutra is, therefore, a jnapaka and proves the existence of the following maxim :- अन्तरङ्गानपि विधीन् बहिरङ्गोलुग्बाधते ‘a bahiranga substitution of लुक् supersedes even antaranga rules’. Thus गोमान् प्रियोऽस्य = गोमत्प्रियः, here the antaranga नुम् augment is superseded by the bahiranga लुक् ॥ This sutra further indicates, that all other substitutes of ‘yushmad’ and ‘asmad’ which take place in the singular, such as तव, मम, तुभ्य, मह्य, त्व, अह, do not take effect, before general affixes or in compounds, but that त्व and म are the only substitutes there even. As तुभ्यं हितं = त्वद्धितं, मद्धितं ॥ तव पुत्रः = त्वत्पुत्रः, मत्पुत्रः ॥
Bhashya¶
प्रत्ययोत्तरपदयोश्च किमर्थमिदमुच्यते न त्वमावेकवचन इत्येव सिद्धम् ? ॥ न सिध्यति ॥ किं कारणम् ? ॥ एकवचनाऽभावात् । एकवचन इत्युच्यते न चात्रैकवचनं पश्यामः ॥ प्रत्ययलक्षणेन ॥ न लुमताङ्गस्येति प्रत्ययलक्षणस्य प्रतिषेधः ॥ एवं तर्हि इदमिह संप्रधार्यं - लुक्क्रियतामादेशाविति(1), किमत्र कर्तव्यम् ? ॥ परत्वादादेशौ(2) ॥ नित्यो लुक् । कृतयोरप्यादेशयोः(2) प्राप्नोत्यकृत्योरपि ॥ - अन्तरङ्गावादेशौ ॥ एवं तर्हि सिद्धे सति यत्प्रत्ययोत्तरपदयोस्त्वमौ शास्ति तज्ज्ञापयत्याचार्योऽन्तरङ्गानपि विधीन्बाधित्वा बहिरङ्गो लुग्भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ गोमान् प्रियो यस्य गोमत्प्रियः यवमत्प्रियः गोमानिवाचरति गोमत्यते यवमत्यते । अन्तरङ्गानपि नुमादीन्बहिरङ्गो लुग्बाधत इति ॥ नैतदस्ति ज्ञापकम्, अस्त्यन्यदेतस्य वचने प्रयोजनम् ॥ किम् ? ॥ येऽन्ये एकवचनादेशाः प्राप्नुवन्ति तद्बाधनार्थमेतत्स्यात् । तद्यथा - तव पुत्रः त्वत्प्रुत्रः, मम पुत्रो मत्पुत्रः । तुभ्यं हितं त्वद्धितं, मह्यं हितं मद्धितमिति ॥ यत्तर्हि मपर्यन्तग्रहणमनुवर्तयति ॥ यद्यत्राऽन्ये एकवचनादेशाः स्युर्मपर्यन्तानुवृत्तिरनर्थिका स्यात् ॥ त्रिचतुर्युष्मदस्मद्ग्रहणेष्वर्थग्रहणं शब्दविशेषणम्(1) ॥ त्रिचतुर्युष्मदस्मद्ग्रहणेष्वर्थग्रहणं शब्दविशेषणं द्रष्टव्यम् । त्रिचतुरोः स्त्रियां तिसृचतसृ(2) ॥ यद्यपि समासः पुंसि नपुंसके वा वर्तते त्रिचतुरौ च स्त्रियां वर्तेते, भवत्येव तिसृचतसृभावः, प्रियास्तिस्रो ब्राह्मण्योऽस्य ब्राह्मणस्य, - प्रियतिसा प्रियतिस्रौ प्रियतिस्रः । प्रियचतसा प्रियचतस्रौ प्रियचतस्रः ॥ प्रियास्तिस्रो ब्राह्मण्योऽस्थ ब्राह्मणकुलस्य - प्रियतिसृ प्रियतिसृणी प्रियतिसॄणि । प्रियचतसृ प्रियचतसृणी प्रियचतसॄणि ॥ यदा हि समासः स्त्रियां वर्तते त्रिचतुरौ च(1) पुंसि नपुंसके वा तदा मा भूतामिति, प्रियास्त्रियो ब्राह्मणा अस्या ब्राह्मण्याः प्रियत्रि ब्राह्मणी(2) प्रियत्री प्रियत्रयः । प्रियचत्वाः प्रियचत्वारौ प्रियचत्वारः । प्रियाणि त्रीणि ब्राह्मणकुलानि अस्या ब्राह्मण्याः-प्रियत्रिः प्रियत्री प्रियत्रयः । प्रियचत्वाः प्रियचत्वारौ प्रियचत्वारः ॥ युवावौ द्विवचने । यद्यपि च(1) समास एकार्थो वा भवति बह्वर्थो वा भवति, द्व्यर्थे च युष्मदस्मदी, भवत एव युवावौ ॥ किमविशेषेण ? ॥ नेत्याह । यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसि इत्येतान्विधीन्वर्जयित्वा(4) । अतिक्रान्तो युवामतित्वम्, अत्यहम् । अतिक्रान्तौ युवामतियुवामत्यावाम् । अतिक्रान्ता युवामतियूयमतिवयम् । अतिक्रान्तं युवामतियुवामत्यावाम् । अतिक्रान्तौ युवामतियुवामत्यावाम् । अतिक्रान्तान्युवाम्(5) अतियुवान् अत्यावान् । अतियुवयाऽत्यावया । अतियुवाभ्याम् - अत्यावाभ्याम् । अतियुवाभिः. अत्यावाभिः । अतितुभ्यमतिमह्यम् ॥ अतियुवाभ्यामत्यावा भ्याम् । अतियुवभ्यमत्यावभ्यम् । अतियुवत् अत्यावत् । अतियुवाभ्यामत्यावाभ्याम् । अतियुवत् अत्यावत् । अतितव अतिमम । अतियुवयोः अत्यावयोः अतियुवाकम् - अत्यावाकम । अतियुवयि अत्यावयि । अतियुवयोः, अत्यावयोः,। अतियुवासु अत्यावासु । त्वमावेकवचने - यद्यपि समासो व्यर्थो भवति बह्वर्थो वा, एकार्थे च युष्मदस्मदी, भवत एव त्वमौ ॥ किम् विशेषेण ? ॥ नेत्याह। तानेव विधीन्वर्जयित्वा । अतिक्रान्तस्त्वामतित्वमत्यहम् । अतिक्रान्तौ त्वामतित्वामतिमाम् । अतिक्रान्तास्त्वामतियूयमतिवयम् । अतिक्रान्तं त्वामतित्वामतिमाम् । अतिक्रान्तौ त्वामतित्वामतिमाम् । अतिक्रान्तान् त्वाम् - अतित्वान् अतिमान् । अतित्वयाऽतिमया । अतित्वाभ्यामतिमाभ्याम् । अतित्वाभिः, अतिमाभिः । अतितुभ्यम्, अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वभ्यमतिमभ्यम्(1) । अतित्वत् । अतिमत् । अतित्वाभ्यामतिमाभ्यम् । अतित्वत् अतिमत् । अतितव अतिमम । अतित्वयोः अतिमयोः । अतित्वाकमतिमाकम् । अतित्वयि अतिमयि । अतित्वयोः अतिमयोः । अतित्वासु अतिमासु ॥ यद्येवं यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसीत्येतेभ्यो विधिभ्यः परत्वात्त्वमावेकवचन इति प्राप्नोति, सावकाशा ह्येते विधय इदानीं भवन्ति ॥ कोऽवकाशः ? ॥ अनेकार्थे युष्मदस्मदी(2) ॥ त्वमावेकवचन इत्यस्यावकाशः-अन्यानि वचनानि । एकार्थयोर्युष्मदस्मदोरेतेषु वचनेषूभयं प्राप्नोति । परत्वात्त्वमावेकवचन इति प्राप्नोति ॥ नैषः दोषः । शेष इति वर्तते ॥ कश्च शेषः ? ॥ जसादिभिरव्याप्तं यदेकवचनं, तस्मिन् शेषे । अशेषत्वान्न(3) भविष्यति ॥ अथ वा(4) त्वमावेकवचनःइत्यत्र यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसीत्येतदनुवर्तिष्यते ॥
Kashika¶
एकवचने इत्यनुवर्तते। प्रत्यय उत्तरपदे च परत एकवचने वर्तमानयोर्युष्मदस्मदोर्मपर्यन्तस्य त्व म इत्येतावादेशौ भवतः। तवायं त्वदीयः। मदीयः। अतिशयेन त्वं त्वत्तरः। मत्तरः। त्वामिच्छति त्वद्यति। मद्यति। त्वमिवाचरति त्वद्यते। मद्यते। उत्तरपदे — तव पुत्रः त्वत्पुत्रः। मत्पुत्रः। त्वं नाथोऽस्य त्वन्नाथः। मन्नाथः। एकवचने इत्येव — युष्माकमिदं युष्मदीयम्। अस्मदीयम्। युष्माकं पुत्रोऽस्माकं पुत्रो युष्मत्पुत्रोऽस्मत्पुत्रः। विभक्तावित्यधिकारात् पूर्वयोगो विभक्तावेव। ततोऽन्यत्रापि प्रत्यय उत्तरपदे च यथा स्यादित्ययमारम्भः। ननु चात्राप्यन्तर्वर्तिनी विभक्तिरस्ति, तस्यामेवादेशौ भविष्यतः? नैवं शक्यम्, लुका तस्या भवितव्यम्। बहिरङ्गो लुक् अन्तरङ्गावादेशौ, प्रथमं तौ भविष्यतः? एतदेव तर्ह्यादेशवचनं ज्ञापकम् — अन्तरङ्गानपि विधीन् बहिरङ्गोऽपि लुग् बाधते इति। तेन गोमान् प्रियोऽस्य गोमत्प्रिय इत्येवमादौ नुमादि लुका बाध्यते। एवं च सति त्वाहौ सौ (७.२.९४) इत्येवमादयोऽपि प्रत्ययोत्तरपदयोरादेशा न भवन्ति। त्वं प्रधानमेषां त्वत्प्रधानाः। मत्प्रधानाः। यूयं पुत्रा अस्य युष्मत्पुत्रः। अस्मत्पुत्रः। तुभ्यं हितं त्वद्धितम्। मद्धितम्। तव पुत्रः त्वत्पुत्रः। मत्पुत्रः। अथ किमर्थमेषां त्वाहादीनां बाधनार्थमेतद् न विज्ञायते? लक्ष्यस्थित्यपेक्षया। ज्ञापकार्थे ह्येतस्मिन् बहुतरमिष्टं संगृह्यते॥
Siddhanta Kaumudi¶
मपर्यन्तयोरेकार्थयोस्त्वमौ स्तः प्रत्यये उत्तरपदे च । त्वदीयः । मदीयः ॥
Laghu Siddhanta Kaumudi¶
मपर्यन्तयोरेतयोरेकार्थवाचिनोस्त्वमौ स्तः प्रत्यये उत्तरपदे च परतः। त्वदीयः। मदीयः। त्वत्पुत्रः। मत्पुत्रः॥
Balamanorama¶
प्रत्ययोत्तरपदयोश्च - प्रत्ययोत्तरपदयोश्च । साप्तमिकमिदम् । ‘त्वमावेकवचने’ इत्यनुवर्तते ।युष्मदस्मदोरनादेशे॑ इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतं । तदाह — मपर्यन्तयोरित्यादि । त्वदीयः मदीय इति । छे सुब्लुकि तवममयोर्निवृत्तौ मपर्यन्तयोः त्वदिति मदिति च आदेशौ । विभक्तिपरकत्वाऽभावान्न शेषे लोपः । उत्तरपदे तु परे त्वत्पुत्रो मत्पुत्र इत्युदाहरणम् ।
Padamanjari¶
एकवचने वर्तमानयोरिति । एकार्थाभिधानविषययोरित्यर्थः । वस्तुकथनं चैतम्, न तु शब्दार्थकथनम् । एकवचने इत्यस्य प्रथमाद्विवचनान्तत्वात् । त्वदीय इति । त्यदादीनि चेति च वृद्धसंज्ञा, वृद्धाच्छः । त्वतर इति । पारम्यवत्प्रर्षयोगः । वभक्तावित्यधिकारादिति । ननु च पूर्वसूत्रे विभक्तौ इति न सम्भान्त्यते कथमावृद्धेरनुवर्तमानं न सम्बध्येत एवमपि योगविभागो न कर्तव्यः, त्वमावेकवचने प्रत्ययोतरपदयोः इत्येकयोग एव कर्तव्यः, एवं हि चकारो न कर्तव्यो भवति नैवं शक्यम्, एवं ह्युच्यमाने यथासङ्ख्यं प्राप्नोति - युष्मदः प्रत्यये, अस्मद उतरपद एइति । अथ क्रियमाणेऽपि योगविभागे, यावता निमितयोः साम्यं कस्मादेव यथासङ्ख्यं न स्यात् । नै, दोषः चकारोऽत्र क्रियते, स द्वयोरपि द्वे निमिते समुच्चेष्यति । ननु चेति । चोदकः । प्रकृतिप्रत्यययोः पूर्वातरपदयोश्च मध्ये या वर्तते सामन्तर्वर्तिनी विभक्तिः । परिहरति - नैषं शक्यमिति । लब्धुमिति शेषः । किं कारणम् इत्याह - तस्या लुका भवितव्यमिति । लुक्तु सुपो धातुप्रातिपदिकयोः इत्यनेन । अन्तरङ्गावित्यादि । चोदकः । विभक्तिमात्रापेक्षत्वादन्तरङ्गत्वम्, लुक्तु पश्चादुत्पन्नः प्रत्ययमुतरपदं धापेक्ष्य धातुत्वप्रतिपदिकत्वयोरुपजातयोः प्राप्नुवन् बहिरङ्गः । यद्यप्ययं नित्यः, तथापि नित्यान्तरङ्गयोरन्तरङ्गमेव बलीयः । यथोक्तम् - परिनित्यान्तरङ्गप्रतिपदविधयो विरोधिनः सन्निपाते तेषां मिथः प्रसङ्गे परबलीयस्त्वमिति । एतदेवेत्यादि । परिहारः । किमेतस्य ज्ञापने प्रयोजनम् इत्याहतेनेति । प्रथमेनादिब्देन गोमत्यतीत्यादेर्ग्रहणम्, द्वितीयेन दीर्घहल्ङ्यादिलोपयोः, हल्ङ्यादिलोपे हि प्रत्ययलक्षणेन नुमादि स्यादेव । लुकि तु न लुमताङ्गस्य इति प्रत्ययलक्षणप्रतिषेधान्न भवति । ज्ञापनस्य प्रयोजनान्तरमाह - एवं चेति । पुनश्चोदयति - अथेति । असति हि प्रयोजने ज्ञापकं भवति, अस्ति चात्र प्रयोजनम्, किम् एषामेव त्वाहादीनामादेशान्तराणां बाधनम् । सत्येतस्मिन् प्रयोजने न ज्ञापनमुपपद्यत इति । परिहरति - लक्ष्यस्थित्यपक्षयेति । गोमत्प्रिय इत्यादिकं लक्ष्यं लोके साधुभावे स्थितम्, तदादेशान्तरबाधनार्थेऽस्मिन्विज्ञायमाने न संगृहीतं स्यात्, तच्चापेक्ष्यं प्रयोगमूलत्वाव्द्याकरणस्य । तस्मातदपेक्षया नैतदादेशान्तराणां बाधनार्थं युक्तं विज्ञातुमिति । अपर आह - यद्येतदादेशान्तराणां बाधनार्तं स्यात् मपर्यन्तस्य इत्यनुवृत्तिरपार्थिका स्यात् । कथमुत्सर्गसमानदेशत्वादपवादानां श्यनादिषु तथा दृष्टत्वादिति । नायं नियमः - उत्सर्गसमानदेशा अपवादाः इति श्नमादिषु व्यभिचारात् । न हि श्नम्बहुजकचः शबादिभिः समानदेशाः । तस्माद्यद्यवश्यमुपपर्तिर्वक्तव्या, एवं वक्तव्यम् - इह त्वाहादयोऽप्यनुवर्तनेत, मपर्यन्तस्येति च तत्र त्वाहाद्यनुवृत्यैव तद्वाधे सिद्धे मपर्यन्तानुवृत्तिरप्राप्तप्रापणार्था सती ज्ञापकमुक्तस्यार्थस्येति । वयं तु ब्रूमः - मपर्यन्तस्य इत्येवानुवर्त्य तस्यादेशौ विधेयौ । यदि चान्तरङ्गा आदेशाः स्युः , प्रत्ययोतरपदयोर्मपर्यन्तस्य न क्वापि सम्भव इति तस्यादेशविधानमनुपपन्नं स्यादिति ज्ञापकमुक्तस्यार्थस्येति ॥
Nyaas¶
एकवचने वर्तमानयोः इति। एकार्थाभिधानविषयोयोरित्यर्थः। त्वदीयः मदीयः इति। त्यदादीनि च (1.1.74) इति वृद्धसंज्ञकत्वात्? वृद्धाच्छः (4.2.114) इति च्छप्रत्ययः। त्वत्तरः, मत्तरः इति। द्विवचनविभदज्योपपदे तरबीयसुनौ (5.3.57) इति तरप्। त्वद्यति, मद्यति इति। सुप आत्मनः क्यच् (3.1.8) । त्वद्यते, मद्यते इति। कर्त्तुः क्यङ सलोपश्च (3.1.11) इति क्यङ। ननु च पूर्वेणेवदेशौ सिद्धौ, तत्? किमर्थोऽयमारम्बः? इत्यत आह - विभक्तावित्यधिकारात् इत्यादि। ननु च इत्यादि देशकः। प्रकृतिप्रत्यययोः पूर्वोत्तरपदयोश्च या मध्र्ये वर्तते साऽन्तर्वत्तिनी विभक्तिः। नैवं शक्यम्` इतीतरः। लुका तस्य भवितव्यम् इति, अश्यतायां हेतुः। सुपो धातुप्रातिपदिकयोः (2.4.71) इति प्रागेवादेशाभ्यां लुका भवितव्यमिति, ततश्च तन्निमित्तावादेशौ न स्यातामित्यभिप्रायः। बहिरङ्गो लुक् इत्यादि देशकः। विभक्तिमात्रं ह्रादेशयोराश्रयः लुकस्तु धातुत्वं प्रातिपदिकत्वञ्चापरम्। तदेवं धातुप्रतिपदिकत्वे यथायोगं बाह्रप्रत्ययापेक्षत्वात्? समासापेक्षत्वाच्च बहिरङ्गे किं पुनस्तदपेक्षया लुको बहिरङ्गता? असिद्धं बहिरङ्गमन्तरङ्गे (व्या।प।42) इत्यादेशावेव प्रथमं भविष्यतः। एतदेवेत्यादि इतरोऽपि। अन्तरङ्गानपि विथीन्? बहिरङ्गो लुग्न बाधते इति पूर्वेणैव सिद्धत्वाददेशवचनं न कुर्यात्, कृतञ्च, तदेव ज्ञापयति - अन्तरङ्गानपि विधीन्? बहिरङ्गो लुग्? बाधते (व्या।प।128) इति। किमेतस्य ज्ञापकस्य प्रयोजनम्? इत्यत आह - तेन इत्यादि। यद्ययमर्थो न ज्ञाप्यते, तदा गोमान्? प्रियोऽस्येति गोमत्प्रिय इत्यन्तरङ्गत्वाल्लुकः प्राक्? उगिदचाम् (7.1.70) इति नुम्? स्यात्, अत्वसन्तस्य चाधातोः (6.4.14) इति दीर्घत्वम्, ततश्च संयोगान्तलोपे (8.2.23) कृते गोमान्प्रिय इत्यनिष्टं रूपं प्रसज्येत। अस्मिन्? हयर्थे ज्ञापिते, अन्तरङ्गमपि नुमादिकं बहिरङ्गेण लुका बाध्यत इति न भवत्येष दोषप्रसङ्गः। एकेनादिशब्देन गोमन्तमिच्छति गोमत्यति, गोमानिवाचरति गोमत्यते - इत्यादेग्र्रहणम्। द्वितीयेन दीर्घत्वस्य हल्ङ्यादिलोपस्य (6.1.64) । यद्यन्तरङ्गत्वाद्? हल्ङ्यादिलोपः (6.1.64) स्यात्, प्रत्ययलक्षणेन नुमादिकं स्यात्, ततश्च तदेवानिष्टं रूपं स्यात्। लुकि च सति न लुमताङ्गस्य (1.1.63) इति प्रत्ययलक्षणप्रतषेधान्न भवति। एवं च इत्यादि। यत एवं बहिरङ्गोऽपि लुगन्तरङ्गानपि विधीन्? बाधने, एवञ्च कृत्वा, त्वाहौ सौ (7.2.94) , यूयवयौ जसि (7.2.93) , तुम्यमह्रौ ङयि (7.2.95) तवममौ ङसि (7.2.96) - इत्येत आदेशाः प्रत्यय उत्तरपदे च परतो न भवन्तीति। अथ इत्यादि। असति प्रयोजने ज्ञापकं भवति, अस्ति चास्यत्? प्रयोजनम् - एवां त्वहटीनामादेशान्तराणां बाधनम्। सत्येतस्मिन्? प्रयोजने, एतदर्थमेवेदं युक्तं विज्ञातुम्, न तु ज्ञापनार्थमिति भावः। लक्ष्यस्थित्यपेक्षया इति। लक्ष्यस्य व्युत्पाद्यस्य स्थितिः=स्थानं लक्ष्यस्थितिः, तद्विषयेऽपेक्षा=लक्ष्यस्थित्यपेक्षा; तथा हेतु भूतया। नेदमादेशान्तराणां बाधनार्थं विज्ञायते। गोमत्प्रियो गोमत्यतीत्येवमादिकं लक्ष्यं लोके साधुभावेनादस्थितम्। आदेशान्तरबाधनार्थे ह्रेतस्मिन्` विज्ञायमाने न संगृहतं सायत्। ज्ञापनार्थे त्वेतदपि संगृहीतं भवतत्येतद्दर्शयति - ज्ञापनार्थे ह्रेतस्मिन् इत्यादि। कथं पुनः सत्येवं प्रयोजने सत्यामपि लक्ष्यस्थित्यपेक्षायां ज्ञापकार्थमेतत्? शक्यं विज्ञातुम्? एवं मन्यते - प्रयोजनमेवैतन्न भवति; मपर्यन्तग्रहणस्य चकारेणानुकर्षणार्थत्वात्। तदनुकर्षणस्यैतदेव प्रयोजनम् - मपर्यन्तयोरादेशौ यथा स्यातामिति। यदि चादेशान्तराणां बाधनार्थमेतत्? स्यात्, अनुकर्षणं तस्यापार्थकं स्यात्। यद्बाधनार्थमेत्? सूत्रं प्रकल्प्यते तान्यादेशान्तराणि मपर्यन्तस्यैव प्रयुक्तानि, नान्यस्य। ततश्चान्तरेणापि मपर्यन्तग्रहणानुवृत्तिमुत्सर्गसमानदेशत्वादपवादानां मपर्यन्तस्यैव भविष्यत इति किं मपर्यन्तस्येत्यनुवर्तनेन! आदेशान्तरामबाधनार्थे ह्रेतस्मिन्? सर्वादेशिवृत्त्यर्थं मपर्यन्तग्रहणमनुवर्तयितुं युक्तम्। तस्मादेतस्मान्मपर्यन्तग्रहणानुवर्तनान्नादेशान्तरबाधनमस्य प्रयोजनम्। अतो ज्ञापकं विज्ञायते। ननु च किमर्थमेषां त्वाहादीनां बाधनार्थमेतन्न विज्ञायत इति परेण देशितम्। तस्यायमभिप्रायः - मपर्यन्तस्येतत्येतन्निवर्त्त्यादेशान्तरबाधनार्थमेतत्? कस्मान्न भवतीति? तत्रायमर्थः - मपर्यन्तग्रहणस्यानुकर्षणार्थश्चकारो न कर्तव्यो भवति। मपर्यन्तग्रहणानुवृत्तावेतदादेशान्तरबाधनार्थं नोपपद्यते, तस्मिन्निवृत्तौ तूपपद्यत एव॥
Prakriyasarvasvam¶
प्रत्यये उत्तरपदे च परे एकार्थयोर्युष्मदस्मदोर्मकारपर्यन्तस्य भागस्य त्व म इत्यादेशौ स्तः । त्व अद् ईय्, म अद् ईय्, अतो गुणे । त्वदीयम् । मदीयम् । उत्तरपदे परे तु त्वमादेशः । त्वत्प्रियो मत्प्रिय इत्यादि ॥
Sutra Prayogas¶
मदीये (भट्टिकाव्यम्): प्रत्ययोत्तरपदयोश्च इति मदादेशः।
मत्तो (भट्टिकाव्यम्): प्रत्ययोत्तरपदयोश्च इति मदादेशः।
मत्कम् (भट्टिकाव्यम्): प्रत्ययोत्तरपदयोश्च इति मपर्यन्तस्य मादेशः।
मत्तो (भट्टिकाव्यम्): प्रत्ययोत्तरपदयोश्च इति मदादेशः ।
मन्-नियोगाच्च (भट्टिकाव्यम्): प्रत्ययोत्तरपदयोश्च इति अस्मदो मदादेशः।
त्वत्-कृतां (भट्टिकाव्यम्): प्रत्ययोत्तरपदयोश्च इति त्वदादेशः।