72098: प्रत्ययोत्तरपदयोश्च ========================== **Padacheda:** प्रत्यय-उत्तरपदयोः | S | 7 | 2 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- त्व is substituted for युष्म् and म for अस्म् when they signify a single individual, even when an affix follows or a word is in composition. Vasu English Translation ------------------------ त्व is substituted for युष्म् and म for अस्म् when they signify a single individual, even when an affix follows or a word is in composition. As त्वदीयः, मदीयः, with the affix छ (4.2.114), (1.1.74) त्वत्तरः (= अतिशयेन त्वं), मत्तरः, त्वद्यति (= त्वामिच्छति), मद्यति; त्वद्यते (= त्वमिवाचरते), मद्यते ॥ Similarly when a second member of the compound follows. As तव पुत्रः = त्वत्पुत्रः, मत्पुत्रः ॥ त्वं नाथोऽस्य = त्वन्नाथः, मन्नाथः ॥ When more than one individual is signified, the substitution does not take place, as युष्मदीयं (= युष्माकमिदं), अस्मदीयं; युष्मत्पुत्रः (= युष्माकं पुत्रः), अस्मत्पुत्रः ॥ The *sutra* (7.2.97) referred to the *vibhaktis* or case-endings, as that word from (7.2.84) governs these *sutras*, the present *sutra* refers to other affixes, and to compounds. It might be objected, that even before other affixes and compounds these words had in them *vibhaktis*, though those *vibhaktis* were elided when these affixes were added or when the words became part of a compound; and that having in them suppressed *vibhaktis*, the substitutions would take place in spite of this *sutra*. This objection is not valid, for there the *vibhaktis* have been elided. But is not elision a *Bahiranga* and the substitute an *antaranga* process; and should not, therefore, the substitute come first and then the *vibhakti* elided? The substitution specially taught in this *sutra* is, therefore, a *jnapaka* and proves the existence of the following maxim :- अन्तरङ्गानपि विधीन् बहिरङ्गोलुग्बाधते 'a *bahiranga* substitution of लुक् supersedes even *antaranga* rules'. Thus गोमान् प्रियोऽस्य = गोमत्प्रियः, here the *antaranga* नुम् augment is superseded by the *bahiranga* लुक् ॥ This *sutra* further indicates, that all other substitutes of '*yushmad*' and '*asmad*' which take place in the singular, such as तव, मम, तुभ्य, मह्य, त्व, अह, do not take effect, before general affixes or in compounds, but that त्व and म are the only substitutes there even. As तुभ्यं हितं = त्वद्धितं, मद्धितं ॥ तव पुत्रः = त्वत्पुत्रः, मत्पुत्रः ॥ Bhashya ------- प्रत्ययोत्तरपदयोश्च किमर्थमिदमुच्यते न त्वमावेकवचन इत्येव सिद्धम् ? ॥ न सिध्यति ॥ किं कारणम् ? ॥ एकवचनाऽभावात् । एकवचन इत्युच्यते न चात्रैकवचनं पश्यामः ॥ प्रत्ययलक्षणेन ॥ न लुमताङ्गस्येति प्रत्ययलक्षणस्य प्रतिषेधः ॥ एवं तर्हि इदमिह संप्रधार्यं - लुक्क्रियतामादेशाविति(1), किमत्र कर्तव्यम् ? ॥ परत्वादादेशौ(2) ॥ नित्यो लुक् । कृतयोरप्यादेशयोः(2) प्राप्नोत्यकृत्योरपि ॥ - अन्तरङ्गावादेशौ ॥ एवं तर्हि सिद्धे सति यत्प्रत्ययोत्तरपदयोस्त्वमौ शास्ति तज्ज्ञापयत्याचार्योऽन्तरङ्गानपि विधीन्बाधित्वा बहिरङ्गो लुग्भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ गोमान् प्रियो यस्य गोमत्प्रियः यवमत्प्रियः गोमानिवाचरति गोमत्यते यवमत्यते । अन्तरङ्गानपि नुमादीन्बहिरङ्गो लुग्बाधत इति ॥ नैतदस्ति ज्ञापकम्, अस्त्यन्यदेतस्य वचने प्रयोजनम् ॥ किम् ? ॥ येऽन्ये एकवचनादेशाः प्राप्नुवन्ति तद्बाधनार्थमेतत्स्यात् । तद्यथा - तव पुत्रः त्वत्प्रुत्रः, मम पुत्रो मत्पुत्रः । तुभ्यं हितं त्वद्धितं, मह्यं हितं मद्धितमिति ॥ यत्तर्हि मपर्यन्तग्रहणमनुवर्तयति ॥ यद्यत्राऽन्ये एकवचनादेशाः स्युर्मपर्यन्तानुवृत्तिरनर्थिका स्यात् ॥ त्रिचतुर्युष्मदस्मद्ग्रहणेष्वर्थग्रहणं शब्दविशेषणम्(1) ॥ त्रिचतुर्युष्मदस्मद्ग्रहणेष्वर्थग्रहणं शब्दविशेषणं द्रष्टव्यम् । त्रिचतुरोः स्त्रियां तिसृचतसृ(2) ॥ यद्यपि समासः पुंसि नपुंसके वा वर्तते त्रिचतुरौ च स्त्रियां वर्तेते, भवत्येव तिसृचतसृभावः, प्रियास्तिस्रो ब्राह्मण्योऽस्य ब्राह्मणस्य, - प्रियतिसा प्रियतिस्रौ प्रियतिस्रः । प्रियचतसा प्रियचतस्रौ प्रियचतस्रः ॥ प्रियास्तिस्रो ब्राह्मण्योऽस्थ ब्राह्मणकुलस्य - प्रियतिसृ प्रियतिसृणी प्रियतिसॄणि । प्रियचतसृ प्रियचतसृणी प्रियचतसॄणि ॥ यदा हि समासः स्त्रियां वर्तते त्रिचतुरौ च(1) पुंसि नपुंसके वा तदा मा भूतामिति, प्रियास्त्रियो ब्राह्मणा अस्या ब्राह्मण्याः प्रियत्रि ब्राह्मणी(2) प्रियत्री प्रियत्रयः । प्रियचत्वाः प्रियचत्वारौ प्रियचत्वारः । प्रियाणि त्रीणि ब्राह्मणकुलानि अस्या ब्राह्मण्याः-प्रियत्रिः प्रियत्री प्रियत्रयः । प्रियचत्वाः प्रियचत्वारौ प्रियचत्वारः ॥ युवावौ द्विवचने । यद्यपि च(1) समास एकार्थो वा भवति बह्वर्थो वा भवति, द्व्यर्थे च युष्मदस्मदी, भवत एव युवावौ ॥ किमविशेषेण ? ॥ नेत्याह । यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसि इत्येतान्विधीन्वर्जयित्वा(4) । अतिक्रान्तो युवामतित्वम्, अत्यहम् । अतिक्रान्तौ युवामतियुवामत्यावाम् । अतिक्रान्ता युवामतियूयमतिवयम् । अतिक्रान्तं युवामतियुवामत्यावाम् । अतिक्रान्तौ युवामतियुवामत्यावाम् । अतिक्रान्तान्युवाम्(5) अतियुवान् अत्यावान् । अतियुवयाऽत्यावया । अतियुवाभ्याम् - अत्यावाभ्याम् । अतियुवाभिः. अत्यावाभिः । अतितुभ्यमतिमह्यम् ॥ अतियुवाभ्यामत्यावा भ्याम् । अतियुवभ्यमत्यावभ्यम् । अतियुवत् अत्यावत् । अतियुवाभ्यामत्यावाभ्याम् । अतियुवत् अत्यावत् । अतितव अतिमम । अतियुवयोः अत्यावयोः अतियुवाकम् - अत्यावाकम । अतियुवयि अत्यावयि । अतियुवयोः, अत्यावयोः,। अतियुवासु अत्यावासु । त्वमावेकवचने - यद्यपि समासो व्यर्थो भवति बह्वर्थो वा, एकार्थे च युष्मदस्मदी, भवत एव त्वमौ ॥ किम् विशेषेण ? ॥ नेत्याह। तानेव विधीन्वर्जयित्वा । अतिक्रान्तस्त्वामतित्वमत्यहम् । अतिक्रान्तौ त्वामतित्वामतिमाम् । अतिक्रान्तास्त्वामतियूयमतिवयम् । अतिक्रान्तं त्वामतित्वामतिमाम् । अतिक्रान्तौ त्वामतित्वामतिमाम् । अतिक्रान्तान् त्वाम् - अतित्वान् अतिमान् । अतित्वयाऽतिमया । अतित्वाभ्यामतिमाभ्याम् । अतित्वाभिः, अतिमाभिः । अतितुभ्यम्, अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वभ्यमतिमभ्यम्(1) । अतित्वत् । अतिमत् । अतित्वाभ्यामतिमाभ्यम् । अतित्वत् अतिमत् । अतितव अतिमम । अतित्वयोः अतिमयोः । अतित्वाकमतिमाकम् । अतित्वयि अतिमयि । अतित्वयोः अतिमयोः । अतित्वासु अतिमासु ॥ यद्येवं यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसीत्येतेभ्यो विधिभ्यः परत्वात्त्वमावेकवचन इति प्राप्नोति, सावकाशा ह्येते विधय इदानीं भवन्ति ॥ कोऽवकाशः ? ॥ अनेकार्थे युष्मदस्मदी(2) ॥ त्वमावेकवचन इत्यस्यावकाशः-अन्यानि वचनानि । एकार्थयोर्युष्मदस्मदोरेतेषु वचनेषूभयं प्राप्नोति । परत्वात्त्वमावेकवचन इति प्राप्नोति ॥ नैषः दोषः । शेष इति वर्तते ॥ कश्च शेषः ? ॥ जसादिभिरव्याप्तं यदेकवचनं, तस्मिन् शेषे । अशेषत्वान्न(3) भविष्यति ॥ अथ वा(4) त्वमावेकवचनःइत्यत्र यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसीत्येतदनुवर्तिष्यते ॥ Kashika ------- एकवचने इत्यनुवर्तते। प्रत्यय उत्तरपदे च परत एकवचने वर्तमानयोर्युष्मदस्मदोर्मपर्यन्तस्य त्व म इत्येतावादेशौ भवतः। तवायं त्वदीयः। मदीयः। अतिशयेन त्वं त्वत्तरः। मत्तरः। त्वामिच्छति त्वद्यति। मद्यति। त्वमिवाचरति त्वद्यते। मद्यते। उत्तरपदे — तव पुत्रः त्वत्पुत्रः। मत्पुत्रः। त्वं नाथोऽस्य त्वन्नाथः। मन्नाथः। एकवचने इत्येव — युष्माकमिदं युष्मदीयम्। अस्मदीयम्। युष्माकं पुत्रोऽस्माकं पुत्रो युष्मत्पुत्रोऽस्मत्पुत्रः। विभक्तावित्यधिकारात् पूर्वयोगो विभक्तावेव। ततोऽन्यत्रापि प्रत्यय उत्तरपदे च यथा स्यादित्ययमारम्भः। ननु चात्राप्यन्तर्वर्तिनी विभक्तिरस्ति, तस्यामेवादेशौ भविष्यतः? नैवं शक्यम्, लुका तस्या भवितव्यम्। बहिरङ्गो लुक् अन्तरङ्गावादेशौ, प्रथमं तौ भविष्यतः? एतदेव तर्ह्यादेशवचनं ज्ञापकम् — **अन्तरङ्गानपि विधीन् बहिरङ्गोऽपि लुग् बाधते** इति। तेन गोमान् प्रियोऽस्य गोमत्प्रिय इत्येवमादौ नुमादि लुका बाध्यते। एवं च सति **त्वाहौ सौ** (७.२.९४) इत्येवमादयोऽपि प्रत्ययोत्तरपदयोरादेशा न भवन्ति। त्वं प्रधानमेषां त्वत्प्रधानाः। मत्प्रधानाः। यूयं पुत्रा अस्य युष्मत्पुत्रः। अस्मत्पुत्रः। तुभ्यं हितं त्वद्धितम्। मद्धितम्। तव पुत्रः त्वत्पुत्रः। मत्पुत्रः। अथ किमर्थमेषां त्वाहादीनां बाधनार्थमेतद् न विज्ञायते? लक्ष्यस्थित्यपेक्षया। ज्ञापकार्थे ह्येतस्मिन् बहुतरमिष्टं संगृह्यते॥ Siddhanta Kaumudi ----------------- मपर्यन्तयोरेकार्थयोस्त्वमौ स्तः प्रत्यये उत्तरपदे च । त्वदीयः । मदीयः ॥ Laghu Siddhanta Kaumudi ----------------------- मपर्यन्तयोरेतयोरेकार्थवाचिनोस्त्वमौ स्तः प्रत्यये उत्तरपदे च परतः। त्वदीयः। मदीयः। त्वत्पुत्रः। मत्पुत्रः॥ Balamanorama ------------ **प्रत्ययोत्तरपदयोश्च** - प्रत्ययोत्तरपदयोश्च । साप्तमिकमिदम् । 'त्वमावेकवचने' इत्यनुवर्तते ।युष्मदस्मदोरनादेशे॑ इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतं । तदाह — मपर्यन्तयोरित्यादि । त्वदीयः मदीय इति । छे सुब्लुकि तवममयोर्निवृत्तौ मपर्यन्तयोः त्वदिति मदिति च आदेशौ । विभक्तिपरकत्वाऽभावान्न शेषे लोपः । उत्तरपदे तु परे त्वत्पुत्रो मत्पुत्र इत्युदाहरणम् । Padamanjari ----------- एकवचने वर्तमानयोरिति । एकार्थाभिधानविषययोरित्यर्थः । वस्तुकथनं चैतम्, न तु शब्दार्थकथनम् । एकवचने इत्यस्य प्रथमाद्विवचनान्तत्वात् । त्वदीय इति । त्यदादीनि चेति च वृद्धसंज्ञा, वृद्धाच्छः । त्वतर इति । पारम्यवत्प्रर्षयोगः । वभक्तावित्यधिकारादिति । ननु च पूर्वसूत्रे विभक्तौ इति न सम्भान्त्यते कथमावृद्धेरनुवर्तमानं न सम्बध्येत एवमपि योगविभागो न कर्तव्यः, त्वमावेकवचने प्रत्ययोतरपदयोः इत्येकयोग एव कर्तव्यः, एवं हि चकारो न कर्तव्यो भवति नैवं शक्यम्, एवं ह्युच्यमाने यथासङ्ख्यं प्राप्नोति - युष्मदः प्रत्यये, अस्मद उतरपद एइति । अथ क्रियमाणेऽपि योगविभागे, यावता निमितयोः साम्यं कस्मादेव यथासङ्ख्यं न स्यात् । नै, दोषः चकारोऽत्र क्रियते, स द्वयोरपि द्वे निमिते समुच्चेष्यति । ननु चेति । चोदकः । प्रकृतिप्रत्यययोः पूर्वातरपदयोश्च मध्ये या वर्तते सामन्तर्वर्तिनी विभक्तिः । परिहरति - नैषं शक्यमिति । लब्धुमिति शेषः । किं कारणम् इत्याह - तस्या लुका भवितव्यमिति । लुक्तु सुपो धातुप्रातिपदिकयोः इत्यनेन । अन्तरङ्गावित्यादि । चोदकः । विभक्तिमात्रापेक्षत्वादन्तरङ्गत्वम्, लुक्तु पश्चादुत्पन्नः प्रत्ययमुतरपदं धापेक्ष्य धातुत्वप्रतिपदिकत्वयोरुपजातयोः प्राप्नुवन् बहिरङ्गः । यद्यप्ययं नित्यः, तथापि नित्यान्तरङ्गयोरन्तरङ्गमेव बलीयः । यथोक्तम् - परिनित्यान्तरङ्गप्रतिपदविधयो विरोधिनः सन्निपाते तेषां मिथः प्रसङ्गे परबलीयस्त्वमिति । एतदेवेत्यादि । परिहारः । किमेतस्य ज्ञापने प्रयोजनम् इत्याहतेनेति । प्रथमेनादिब्देन गोमत्यतीत्यादेर्ग्रहणम्, द्वितीयेन दीर्घहल्ङ्यादिलोपयोः, हल्ङ्यादिलोपे हि प्रत्ययलक्षणेन नुमादि स्यादेव । लुकि तु न लुमताङ्गस्य इति प्रत्ययलक्षणप्रतिषेधान्न भवति । ज्ञापनस्य प्रयोजनान्तरमाह - एवं चेति । पुनश्चोदयति - अथेति । असति हि प्रयोजने ज्ञापकं भवति, अस्ति चात्र प्रयोजनम्, किम् एषामेव त्वाहादीनामादेशान्तराणां बाधनम् । सत्येतस्मिन् प्रयोजने न ज्ञापनमुपपद्यत इति । परिहरति - लक्ष्यस्थित्यपक्षयेति । गोमत्प्रिय इत्यादिकं लक्ष्यं लोके साधुभावे स्थितम्, तदादेशान्तरबाधनार्थेऽस्मिन्विज्ञायमाने न संगृहीतं स्यात्, तच्चापेक्ष्यं प्रयोगमूलत्वाव्द्याकरणस्य । तस्मातदपेक्षया नैतदादेशान्तराणां बाधनार्थं युक्तं विज्ञातुमिति । अपर आह - यद्येतदादेशान्तराणां बाधनार्तं स्यात् मपर्यन्तस्य इत्यनुवृत्तिरपार्थिका स्यात् । कथमुत्सर्गसमानदेशत्वादपवादानां श्यनादिषु तथा दृष्टत्वादिति । नायं नियमः - उत्सर्गसमानदेशा अपवादाः इति श्नमादिषु व्यभिचारात् । न हि श्नम्बहुजकचः शबादिभिः समानदेशाः । तस्माद्यद्यवश्यमुपपर्तिर्वक्तव्या, एवं वक्तव्यम् - इह त्वाहादयोऽप्यनुवर्तनेत, मपर्यन्तस्येति च तत्र त्वाहाद्यनुवृत्यैव तद्वाधे सिद्धे मपर्यन्तानुवृत्तिरप्राप्तप्रापणार्था सती ज्ञापकमुक्तस्यार्थस्येति । वयं तु ब्रूमः - मपर्यन्तस्य इत्येवानुवर्त्य तस्यादेशौ विधेयौ । यदि चान्तरङ्गा आदेशाः स्युः , प्रत्ययोतरपदयोर्मपर्यन्तस्य न क्वापि सम्भव इति तस्यादेशविधानमनुपपन्नं स्यादिति ज्ञापकमुक्तस्यार्थस्येति ॥ Nyaas ----- `एकवचने वर्तमानयोः` इति। एकार्थाभिधानविषयोयोरित्यर्थः। `त्वदीयः मदीयः` इति। **त्यदादीनि च** (1.1.74) इति वृद्धसंज्ञकत्वात्? **वृद्धाच्छः** (4.2.114) इति च्छप्रत्ययः। `त्वत्तरः, मत्तरः` इति। `द्विवचनविभदज्योपपदे तरबीयसुनौ` (5.3.57) इति तरप्। `त्वद्यति, मद्यति` इति। **सुप आत्मनः क्यच्** (3.1.8) । `त्वद्यते, मद्यते` इति। `कर्त्तुः क्यङ सलोपश्च` (3.1.11) इति क्यङ। ननु च पूर्वेणेवदेशौ सिद्धौ, तत्? किमर्थोऽयमारम्बः? इत्यत आह - `विभक्तावित्यधिकारात्` इत्यादि। `ननु च` इत्यादि देशकः। प्रकृतिप्रत्यययोः पूर्वोत्तरपदयोश्च या मध्र्ये वर्तते साऽन्तर्वत्तिनी विभक्तिः। नैवं शक्यम्` इतीतरः। `लुका तस्य भवितव्यम्` इति, अश्यतायां हेतुः। **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति प्रागेवादेशाभ्यां लुका भवितव्यमिति, ततश्च तन्निमित्तावादेशौ न स्यातामित्यभिप्रायः। `बहिरङ्गो लुक्` इत्यादि देशकः। विभक्तिमात्रं ह्रादेशयोराश्रयः लुकस्तु धातुत्वं प्रातिपदिकत्वञ्चापरम्। तदेवं धातुप्रतिपदिकत्वे यथायोगं बाह्रप्रत्ययापेक्षत्वात्? समासापेक्षत्वाच्च बहिरङ्गे किं पुनस्तदपेक्षया लुको बहिरङ्गता? `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यादेशावेव प्रथमं भविष्यतः। `एतदेवेत्यादि` इतरोऽपि। `अन्तरङ्गानपि विथीन्? बहिरङ्गो लुग्न बाधते` इति पूर्वेणैव सिद्धत्वाददेशवचनं न कुर्यात्, कृतञ्च, तदेव ज्ञापयति - `अन्तरङ्गानपि विधीन्? बहिरङ्गो लुग्? बाधते` (व्या।प।128) इति। किमेतस्य ज्ञापकस्य प्रयोजनम्? इत्यत आह - `तेन` इत्यादि। यद्ययमर्थो न ज्ञाप्यते, तदा गोमान्? प्रियोऽस्येति गोमत्प्रिय इत्यन्तरङ्गत्वाल्लुकः प्राक्? `उगिदचाम्` (7.1.70) इति नुम्? स्यात्, **अत्वसन्तस्य चाधातोः** (6.4.14) इति दीर्घत्वम्, ततश्च संयोगान्तलोपे (8.2.23) कृते गोमान्प्रिय इत्यनिष्टं रूपं प्रसज्येत। अस्मिन्? हयर्थे ज्ञापिते, अन्तरङ्गमपि नुमादिकं बहिरङ्गेण लुका बाध्यत इति न भवत्येष दोषप्रसङ्गः। एकेनादिशब्देन गोमन्तमिच्छति गोमत्यति, गोमानिवाचरति गोमत्यते - इत्यादेग्र्रहणम्। द्वितीयेन दीर्घत्वस्य हल्ङ्यादिलोपस्य (6.1.64) । यद्यन्तरङ्गत्वाद्? हल्ङ्यादिलोपः (6.1.64) स्यात्, प्रत्ययलक्षणेन नुमादिकं स्यात्, ततश्च तदेवानिष्टं रूपं स्यात्। लुकि च सति **न लुमताङ्गस्य** (1.1.63) इति प्रत्ययलक्षणप्रतषेधान्न भवति। `एवं च` इत्यादि। यत एवं बहिरङ्गोऽपि लुगन्तरङ्गानपि विधीन्? बाधने, एवञ्च कृत्वा, **त्वाहौ सौ** (7.2.94) , **यूयवयौ जसि** (7.2.93) , `तुम्यमह्रौ ङयि` (7.2.95) **तवममौ ङसि** (7.2.96) - इत्येत आदेशाः प्रत्यय उत्तरपदे च परतो न भवन्तीति। `अथ` इत्यादि। असति प्रयोजने ज्ञापकं भवति, अस्ति चास्यत्? प्रयोजनम् - एवां त्वहटीनामादेशान्तराणां बाधनम्। सत्येतस्मिन्? प्रयोजने, एतदर्थमेवेदं युक्तं विज्ञातुम्, न तु ज्ञापनार्थमिति भावः। `लक्ष्यस्थित्यपेक्षया` इति। लक्ष्यस्य व्युत्पाद्यस्य स्थितिः=स्थानं लक्ष्यस्थितिः, तद्विषयेऽपेक्षा=लक्ष्यस्थित्यपेक्षा; तथा हेतु भूतया। नेदमादेशान्तराणां बाधनार्थं विज्ञायते। गोमत्प्रियो गोमत्यतीत्येवमादिकं लक्ष्यं लोके साधुभावेनादस्थितम्। आदेशान्तरबाधनार्थे ह्रेतस्मिन्` विज्ञायमाने न संगृहतं सायत्। ज्ञापनार्थे त्वेतदपि संगृहीतं भवतत्येतद्दर्शयति - `ज्ञापनार्थे ह्रेतस्मिन्` इत्यादि। कथं पुनः सत्येवं प्रयोजने सत्यामपि लक्ष्यस्थित्यपेक्षायां ज्ञापकार्थमेतत्? शक्यं विज्ञातुम्? एवं मन्यते - प्रयोजनमेवैतन्न भवति; मपर्यन्तग्रहणस्य चकारेणानुकर्षणार्थत्वात्। तदनुकर्षणस्यैतदेव प्रयोजनम् - मपर्यन्तयोरादेशौ यथा स्यातामिति। यदि चादेशान्तराणां बाधनार्थमेतत्? स्यात्, अनुकर्षणं तस्यापार्थकं स्यात्। यद्बाधनार्थमेत्? सूत्रं प्रकल्प्यते तान्यादेशान्तराणि मपर्यन्तस्यैव प्रयुक्तानि, नान्यस्य। ततश्चान्तरेणापि मपर्यन्तग्रहणानुवृत्तिमुत्सर्गसमानदेशत्वादपवादानां मपर्यन्तस्यैव भविष्यत इति किं मपर्यन्तस्येत्यनुवर्तनेन! आदेशान्तरामबाधनार्थे ह्रेतस्मिन्? सर्वादेशिवृत्त्यर्थं मपर्यन्तग्रहणमनुवर्तयितुं युक्तम्। तस्मादेतस्मान्मपर्यन्तग्रहणानुवर्तनान्नादेशान्तरबाधनमस्य प्रयोजनम्। अतो ज्ञापकं विज्ञायते। ननु च किमर्थमेषां त्वाहादीनां बाधनार्थमेतन्न विज्ञायत इति परेण देशितम्। तस्यायमभिप्रायः - मपर्यन्तस्येतत्येतन्निवर्त्त्यादेशान्तरबाधनार्थमेतत्? कस्मान्न भवतीति? तत्रायमर्थः - मपर्यन्तग्रहणस्यानुकर्षणार्थश्चकारो न कर्तव्यो भवति। मपर्यन्तग्रहणानुवृत्तावेतदादेशान्तरबाधनार्थं नोपपद्यते, तस्मिन्निवृत्तौ तूपपद्यत एव॥ Prakriyasarvasvam ----------------- प्रत्यये उत्तरपदे च परे एकार्थयोर्युष्मदस्मदोर्मकारपर्यन्तस्य भागस्य त्व म इत्यादेशौ स्तः । त्व अद् ईय्, म अद् ईय्, अतो गुणे । त्वदीयम् । मदीयम् । उत्तरपदे परे तु त्वमादेशः । त्वत्प्रियो मत्प्रिय इत्यादि ॥ Sutra Prayogas -------------- * **मदीये** (भट्टिकाव्यम्): `प्रत्ययोत्तरपदयोश्च` इति मदादेशः। * **मत्तो** (भट्टिकाव्यम्): `प्रत्ययोत्तरपदयोश्च` इति मदादेशः। * **मत्कम्** (भट्टिकाव्यम्): `प्रत्ययोत्तरपदयोश्च` इति मपर्यन्तस्य मादेशः। * **मत्तो** (भट्टिकाव्यम्): `प्रत्ययोत्तरपदयोश्च` इति मदादेशः । * **मन्-नियोगाच्च** (भट्टिकाव्यम्): `प्रत्ययोत्तरपदयोश्च` इति अस्मदो मदादेशः। * **त्वत्-कृतां** (भट्टिकाव्यम्): `प्रत्ययोत्तरपदयोश्च` इति त्वदादेशः।