72097: त्वमावेकवचने¶
Padacheda: त्वमौ | S | 1 | 2 |
एकवचने | S | 1 | 2 |
Sutrartha¶
Vasu English Summary¶
In the remaining cases of the singular त्व is substituted for युष्म् and म for अस्म्।
Vasu English Translation¶
In the remaining cases of the singular त्व is substituted for युष्म् and म for अस्म्। As त्वाम्, माम्, त्वया, मया, त्वत्, मत्, त्वयि, मयि ॥ The compounds also take this substitution according to the sense: as अतिक्रान्तस्त्वाम् = अतित्वम्, अत्यहम्, अतिक्रान्तौ मम = अतिमाम्, अतित्वाम्,अतिक्रान्तान् त्वाम् = अतित्वान्, अतिमान्, अतिक्रान्ताभ्यां त्वां = अतित्वाभ्याम्, अतिमाभ्याम्, अतिक्रान्तैस्त्वाम् = अतित्वाभिः, अतिमाभिः ॥
When in a compound, the words yushmad and asmad denote one, though the compound may denote two or many, thereeven the त्व and म substitutions must take place. And as regards different substitutes, like त्व and आह before सु &c, those prior taught substitutes debar this latter by the rule of पूर्वविप्रतिषेधः ॥ Some examples have already been given above, others are अतियूयम्, अतितुभ्यम्, अतितव ॥ So also with asmad. Similarly अतित्वां पश्य, अतित्वान्, अतित्वाभ्वाम्, अतित्वाभिः, अतित्वभ्यम्, अतित्वत्, अतित्वयोः, अतित्वाकम्, अतित्वयि, अतित्वयोः, अतित्वासु ॥
Kashika¶
एकवचने इत्यर्थनिर्देशः। एकवचने ये युष्मदस्मदी एकार्थाभिधानविषये तयोर्मपर्यन्तस्य स्थाने त्व म इत्येतावादेशौ भवतः। त्वाम्। माम्। त्वया। मया। त्वत्। मत्। त्वयि। मयि। यदा समास एकार्थे युष्मदस्मदी भवतः, समासार्थस्य त्वन्यसंख्यत्वाद् द्विवचनं बहुवचनं वा भवति, तदापि त्वमावादेशौ भवतः। आदेशान्तराणां तु त्वाहौ सौ (७.२.९४) इत्येवमादीनां विषये पूर्वविप्रतिषेधेन त एवेष्यन्ते। अतिक्रान्तस्त्वाम् अतित्वम्। अत्यहम्। अतिक्रान्तौ त्वाम् अतित्वाम्। अतिमाम्। अतिक्रान्तान् त्वामतित्वान्। अतिमान्। अतिक्रान्ताभ्यां त्वामतित्वाभ्याम्। अतिमाभ्याम्। अतिक्रान्तैस्त्वामतित्वाभिः। अतिमाभिः। इत्येवमाद्युदाहर्तव्यम्॥
Siddhanta Kaumudi¶
एकस्योक्तौ युष्मदस्मदोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ ॥
Laghu Siddhanta Kaumudi¶
एकस्योक्तावनयोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ॥
Balamanorama¶
त्वमावेकवचने - अथ द्वितीयैकवचनस्याऽमोङे प्रथमयो॑रित्यमि कृते युष्मद् अम्, अस्मद् अम् इति स्थिते — त्वमावेकवचने ।युष्मदस्मदोरनादेशे॑ इत्यतोयुष्मदस्मदो॑रित्यनुवर्तते ।मपर्यन्तस्ये॑त्यधिकृतम् । एकवचनशब्दो यौगिक एव, वचनग्रहणसामर्थ्यात् । तदाह — एकस्येत्यादिना ।
Tattvabodhini¶
त्वमावेकवचने - अविभक्तिकमिति । तथाचङे प्रथमयो॑रिति पूर्वसूत्रेण प्राप्तषेधोऽयमिति भाष्ये शङ्कितम् । नच तथैब किं न स्यात्,द्लितीयायां चे॑त्यात्वे पूर्वसवर्णदीर्घेतस्माच्छसः॑इति नत्वे चेष्टसिद्धेरिति वाच्यं, स्त्रीनपुंसकयोर्नत्वाऽप्राप्त्या॒युष्मान्ब्राआहृणीः॑युष्मान्कुलानी॑त्यसिद्धिप्रसङ्गात् । अलिङ्गत्वपक्षे तु युष्माम् ब्राआहृणा॒नित्यादेरप्यसिद्धिप्रसङ्गाच्च ।
Padamanjari¶
एकवचन इत्यर्थनिर्देश इत्यादि । एतच्च द्विवचन इत्यर्थनिर्द्देशः इत्येतदनुसारेण योज्यम् । अर्थग्रहणे यदिष्ट्ंअ सम्पद्यते तद्दर्शयति - तदेति । पारिभा, इकस्य त्वेकवचनस्य ग्रहणेऽत्र न स्यादित्यव्याप्तिः । अतिक्रान्तौ त्वामिति । तदापि त्वमौ भवत इत्यस्योदाहरणम् । अतित्वामिति । पूर्ववदात्वम् । एवमन्यदुदाहर्तव्यमिति । एतद् अतित्वम्, अत्यहमित्यनेनापि सम्बध्यते । अतियूयम्, अतितुभ्यम्, अतितव । एवमस्मदः । अतित्वामतिमामित्यनेन तु सम्बन्धः स्पष्ट एव । अतित्वां पश्य अतित्वान्, अतित्वाभ्याम्, अतित्वाभिः, अतित्वभायम् । अतित्वम् । अतित्वयोः अतित्वाकम् । अतित्वयि, अतित्वयोः, अतित्वासु । एवमस्मदः । अत्रानन्तरं यदा युष्मदस्मदी द्वित्वबहुत्वयोर्वर्तेते समासार्थेस्यैकत्वं तदा त्वमौ न भवतः अतिक्रान्तं युवामतियुवाम्, अत्यावाम् । अतिक्रान्तं युष्मान् अतियुष्मान्, अत्यस्मान् । एवं नेयमिति पठितव्यम् पूर्वानुसारेण गम्यमानत्वान्न पठितम् ॥
Nyaas¶
एकवचन इत्यर्थेनिर्देशः इति। एतेनार्थस्येवं ग्रहणम्, न तु पारिभाषिकस्यैकवचनस्येति दर्शयति। पारिभाषिकस्य तु ग्रहणे यो दोषः स युवाधौ द्विवचने (7.2.92) इत्यत्रोक्त इत्यभिप्रायः। अर्थग्रहणं त्विह वचनग्रहणाल्लभ्यते। यदीह प्रत्ययग्रहणमभिमतं स्यात्, एकत्वे इत्येवं ब्राऊयात्। विभक्ताविति वर्तते, तत्रैवमभिसम्बन्धः करिष्यते - एकत्वे या विभक्तिरिति। अथ वा - एतदिति न ब्राऊयात्; एकवचने हि प्रत्ययोत्तरपदयोश्च (7.2.98) इत्येनेनैवादेशयोः सिद्धत्वात्। त्वाम्, माम् इति। द्वितीयायाञ्च (7.2.87) इत्यात्त्वम्। यदा समास एकार्थे इत्यादिनाऽर्थग्रहणं सति यदिष्टं सिध्यति तद्दर्शयति। यदापि समासात्? संख्यान्तरयुक्ताद्द्विवचनं बहुवचनं वा भवति, तदाप्येकार्थयोर्युष्मदस्मदोरेतावादेशो भवतः। एवं सति त्वाहौ सौ (7.2.94) , यूय्वयौ जसि (7.2.93) , तुभ्यमह्रौ ङयि (7.2.95) , तवममौ ङसि (7.2.96) - इत्येषामप्यादेशान्तराणां विषयं स्यातामित्यत आह - आदेशान्तराणां तु इत्यादि। पूर्वविप्रतिषेधस्येति वचनं परस्य विप्रतिषेधस्यासम्भवात्। असम्भवस्त्वनयोरेव परत्वात्। पूर्वविप्रतिषेधस्तु परशब्दस्येष्टवाचित्वाल्लभ्यते। तत्र त्वाहौ सौ (7.2.94) इत्यस्यावकाशो यत्रैकार्थे युष्मदस्मदी न भवतः - अतिक्रान्तो युष्मानित्यतित्वमत्यहमिति, त्वमावेकवचन (7.2.97) स्यावकाशो यत्रैकार्थाभ्यां विभक्त्यन्तरं भवति - त्वाम्, मामिति; अतिक्रान्तस्त्वामतित्वमतिक्रान्तो मामत्यहमित्यत्रोभयप्रसङ्गे प्राप्ते त्वहौ सौ भवतः पूर्वविप्रतिषेधेन। अन्या दिशाऽऽदेशान्तरेषु प्राप्तेषु पूर्वं विप्रतिषेधो वक्तव्यः। अतिक्रान्तो त्वामतित्वाम्, अतिमाम् इति। अत्र यद्यपि समासाद्द्विवचन भवति, तथाप्येकार्थे युष्मदस्मदी इति भवत एव त्वमादेशौ। पारिभाषिकस्य त्व#एकवचनस्य ग्रहणे न स्याताम्; तस्येहाविद्यमानत्वात्। एवमाद्युदाहर्तव्यम् इति। अतिक्रान्तौ त्वां पश्यातित्वाम्, अतिमां पश्य। अतित्वाभिरतिमाभिः कृतम्। अतक्रान्ताभ्यां त्वां देह्रतित्वाभ्यामतिमाभ्यां देहि। अतिक्रान्तेभ्यस्त्वां देह्रतित्वभ्यमतिमभ्यं देहि। अतिक्रान्तयोस्त्वां त्वामागतोऽतित्वाभ्यामतिमाब्यामागतः। अतिक्रान्तेभ्यस्त्वामागतोऽतित्वदागतोऽतिमदागतः। अतिक्रान्तयोस्त्वां स्वमतित्वयोः स्वम्, अतिमयोः स्वम्। अतिक्रान्तानां त्वां स्वमतित्वाकं स्वम्, अतिमाकं स्वम्। अतिक्रान्तयोस्त्वां निधेह्रतित्वयोर्निधेहि, अतिमयोर्निधेहि। अतिक्रान्तेषु त्वां निधेह्रतित्वासु निधेहि, अतिमासु निधेहि॥
Prakriyasarvasvam¶
एकार्थवाचिनोरनयोर्मपर्यन्तस्य सुपि त्वमौ । त्वअद् अम् मअद् अम् ।