72091: मपर्यन्तस्य

Padacheda: मपर्यन्तस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

The substitutions taught hereafter up to प्रतयोत्तरपदयोश्च (7.2.98) take effect with regard to the portions of युष्मद् and अस्मद् up to म् i.e. the substitutes replace युष्म् and अस्म्।

Vasu English Translation

The substitutions taught hereafter up to प्रतयोत्तरपदयोश्च (7.2.98) take effect with regard to the portions of युष्मद् and अस्मद् up to म् i.e. the substitutes replace युष्म् and अस्म्। Thus (7.2.92) teaches that युव and आव are substituted for yushmad and asmad in the dual. The substitutes replace युष्म् and अस्म्. Thus, युवाम्, आवाम् ॥ Why ‘upto म्’? Observe युवकाम्, आवकाम् ॥ The क (5.3.71), is not replaced. Similarly (7.2.97) teaches that त्व and म replace ‘yushmad’ and ‘asmad’ in the singular; by this sutrayushm’ and ‘asm’ are only replaced. Thus त्वया, मया, the अद् portion remains for which य is substituted by (7.2.89). Had the whole been replaced, then the अ of त्व and म would have been replaced by य (7.2.89), and given us undesired forms like त्व्या and म्या ॥ Why is the word पर्यन्त employed in the sutra and not the word अन्त, as मान्तस्य? In the first place this word अन्त is ambiguous, it may mean ending with म् but excluding म्, or ending with म् and including म् ॥ In the second place, the word पर्यन्त is used to indicate the limit, or portion taken out of the whole. The word मान्त would have meant, that form of yusmad and asmad which ends with म् ॥ Now these words have a form which ends in म्, as युष्मानाचष्टे or अस्मानाचष्टे = युष्मते or अस्मते formed by णिच् (the टि portion अद् is elided by (7.4.155), vartika). Now a noun formed from this derivative root युष्मि and अस्मि by क्विप् affix will be युष्म् and अस्म् ॥ These are the two forms of yusmad and asmad which are complete words ending in म् ॥ The present sutra does not apply to these words.

In declining these nouns युष्म् and अस्म्, we shall apply the rules (7.2.89) and (7.2.86), thus:-

  • Nominative त्वं युषां युयं

  • Accusative युषां युषां युषान्

  • Instrumental युष्या युष्याभ्यां युषाभिः

  • Dative तुभ्यं युषाभ्यां युषभ्यं

  • Ablative युषत् युषाभ्यां युषत्

  • Genitive तव युष्योः युषाकं

  • Locative युष्यि युष्योः युषासु ॥ (Padamanjari).

Bhashya

मपर्यन्तस्य परिग्रहणं शक्यमकर्तुं(1), मान्तस्येत्येव सिद्धम् ॥ न सिध्यति ॥ किं कारणम् ? ॥ अन्तशब्दस्योभयार्थत्वात् ॥ कथम् ? ॥ अयमन्तशब्दोऽस्त्येव सह तेन वर्तते । तद्यथा - मर्यादान्तं देवदत्तस्य क्षेत्रम्। सह मर्यादयेति गम्यते । अस्ति प्राक्तस्माद्वर्तते । तद्यथा - नद्यन्तं देवदत्तस्य क्षेत्रमिति । प्राङ्नद्या इति गम्यते ॥ तद्यः सह तेन वर्तते तस्येदं ग्रहणं यथा विज्ञायेत(1) ॥ नैतदस्ति प्रयोजनम् । सर्वत्रैवाऽन्तशब्दः सह तेन वर्तते ॥ अथ कथं नद्यन्तं देवदत्तस्य क्षेत्रमिति ॥ नद्याः(2) क्षेत्रत्वे संभवो नास्तीति कृत्वा प्राङ्नद्या इति गम्यते ॥ ( । ॥ अवधिद्योतनार्थं तु परिग्रहणम् ॥ ) ॥ अवधिद्योतनार्थं तर्हि परिग्रहणं कर्तव्यम् । मान्तस्येत्युच्यमाने यत्रैव मान्ते युष्मदस्मदी तत्रैवादेशाः स्युः ॥ क्व च मान्ते युष्मदस्मदी ? ॥ युष्मानाचष्टे अस्मानाचष्टे इति (णिचि - युष्मयति अस्मयति(1) ।) युष्मयतेरस्मयतेश्चाषप्रत्ययः(2) ॥ ( मपर्यन्तस्य ) ॥

Kashika

मपर्यन्तस्येत्ययमधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामो मपर्यन्तस्येत्येवं तद् वेदितव्यम्। वक्ष्यति — युवावौ द्विवचने (७.२.९२) — युवाम्। आवाम्। मपर्यन्तस्येति किम्? युवकाम्, आवकामिति साकच्कस्य मा भूत्। त्वमावेकवचने (७.२.९७) — त्वया। मया। मपर्यन्तस्येति किम्? सर्वस्य मा भूत्। तथा च सति त्वमयोरकारस्य योऽचि (७.२.८९) इति यकारे कृतेऽनिष्टं रूपं स्यात्। मान्तस्येत्येव सिद्धेऽस्मिन् यत् परिग्रहणं कृतम्, अवधिद्योतनार्थं तत्,मान्ते मा भूत्। कदा? यदा ण्यन्तयोः क्विपि मान्तत्वं विद्यते युष्मदस्मदोः। स्थानिवत्त्वं च णेरत्र क्वौ लुप्तत्वाद् (महाभाष्य १.१.५८ वा०) न विद्यते॥

Siddhanta Kaumudi

इत्यधिकृत्य ॥

Padamanjari

मपर्यन्तस्य इत्यवयवस्य स्थानित्वेन निर्देशाद्यौष्मदस्मदोरित्यवयवषष्ठी विज्ञायते - मः पर्यन्तोऽवधिर्यस्य स मपर्यन्तः । यद्यपि द्वयोद्वाê मपर्यन्तौ, तथाप्यभेदक्विक्षयैकवचनम् । मपर्यन्तस्यैति किमिति । समुदाययोरप्यादेशे आदेशानामप्यदन्तत्वाद्दोषाबाव इति प्रश्नः । साकच्कस्य मा भूदिति । तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात्प्रसङ्गः । सर्वस्य मा भूदिति । साकच्कस्य मा भूदिति तु नोक्तम्, यस्मादकज्विधावुक्तम् - त्वया, मया, त्वयि, मयि इत्यत्र सुबन्तस्य प्राक्टेरकच् इति । अनिष्ट्ंअ रूपं स्यादिति । त्व्या, म्येत्यनिष्ट्ंअ रूपम् । अथ परिग्रहणं किमर्थम्, मान्तस्येत्येवोच्येत, युष्मदस्मदोर्यो मान्तो भागास्तस्येत्यर्थः तत्राह - मान्तस्येत्येव सिद्धेऽस्मिन्निति । अस्मिन् साकच्कस्या देशाभावे, युवकाम्, अवकामिति रूपे वा । अवधिद्योतनार्थमिति । पर्यन्तशब्देनावधिं द्योतयामीत्यर्थः । अन्यथा मान्तस्येत्युच्यमाने युष्मदष्मदोः समानाधिकारणं विशेषणं सम्भाव्येत, प्रत्येकसम्बन्धाच्चैकवचनम्, ततश्च यत्र मान्ते युष्मदस्मदी तत्रैवादेशाः स्युः । अथापि वैयधिकरण्यमाक्षीयते, तथापि चत्र मान्ते तत्र भेदाभावादादेशा न स्युः । व्यपदेशिवद्भावोऽपि प्रातिपदिकेन प्रतिषिद्धः । पर्यन्तशब्देन त्ववधिद्योतने तदुपादानसामर्थ्याद्यौष्मद्स्मदवयवेऽपि युष्मदस्मच्छब्दौ वर्तेते इति सर्वत्रादेशसिद्धिः । वैयधिकरण्येन वा सम्बन्धे परिग्रहणसामर्थ्याद् व्यपदेशिवद्भावोऽप्रतिपदिकेन इति प्रतिषेधाप्रवृतौ मान्तयोरप्यादेशासिद्धिः । अपर आह - सति शेषे पर्यन्तशब्दः, तेन सामानाधिकरण्यासम्भावद्वैयधिकरण्येनैवान्वयः । यदा तु मान्ते युष्मदस्मदी तदा नैवादेशा भवन्ति, तदिदमुक्तम् मान्ते मा भूद्यदा तदेति । यदा युष्मदस्मदी मान्ते तदैव मा भूत्, तदापि वा मा भूदित्यर्थः । क्व पुनर्मान्ते युष्मदस्मदी इत्याह - ण्यन्तयोरिति । युष्मानाचष्टे युष्मयति, अस्मानाचष्टे अस्मयति णिचीष्ठवद्भावे टिलोपः, प्रत्ययोतरपदेयोश्च इत्यत्रैकवचनाधिकारात्वमादेशाभावः । क्विपि णिलोपः । ननु च विभक्तावादेशैर्थाव्यम्, अत्र च णिलोपस्य स्थानिवद्भावाव्द्यवधानमत आह - स्थानिवत्वं चेति । णेः क्वौ लुप्तत्वान्न तल्लोपस्यात्र स्थानिवत् इत्येवमिति भाष्वकारः । तत्र यो मन्यते - मान्तयोरप्यादेशा भवन्तीति , तन्मतेनोदाहरणानि । कृदन्तत्वाद्विभक्तयः, एकदेशविकृतस्यानन्यत्वाद्यौष्मदस्मदाश्रयविभक्त्यादेशाः प्रकृत्यादेशाश्च त्वादयः तत्र त्वाहौ सौ इत्यादिविषये ते भवन्ति । अन्यत्रादेशविभक्तौ लोपः, अजादौ यत्वम्, हलादावात्वम् - त्वम्, युषाम्, युयम्, युषाम्, युषाम्, युषान्, युष्या, युषाभायम्, युषाभिः, तुभ्यं युषाभ्यां युषभ्यम्, युषत्, युषाभ्याम्, युषत्, तव, युष्योः, युषाकम् युष्यि, युष्यो, युषासु । एवमस्मदोऽपि द्रष्टव्यम् । मपर्यन्तापेक्षया तु शेष आश्रीयमाणे, मात्परस्याभावाल्लोपाभावात् युष्मभायम्, युष्मदित्यादि भवति । यदा तु त्वामोचष्टे, मामाचष्ट इति विगृह्य क्विप् क्रियते, तदा प्रत्ययोतरपदयोश्चेति त्वमयोः कृतयोः प्रकृत्यैकाच् इति प्रकृतिभावादसति टिलोपे अत उपधायाः इति वृद्धिः । यदि निष्ठितमङ्गं ततो वदद्ध्यभावः । त्वद्स् त्वाद्स्, मद्स् चमादस् इति स्थिते मपर्यन्ताभावात् त्वाहौ सौ इत्यादेरप्रवृतौ वृद्धिपक्षे त्वामिति भवति । पक्षान्तरे तु त्वमिति । द्विवचने तु त्वाम्, जसि त्वम् । द्वितीयादिषु तु त्वाम्, त्वाम्, त्वान्, त्वया, त्वाभ्याम्, त्वाभिः, त्वम्, त्वाभ्याम्, त्वभ्यम्, त्वत्, त्वाभ्याम्, त्वत्, त्व, त्वयोः, त्वाकम्, त्वयि, त्वयोः त्वासु । एवमस्मदोऽपि । यदा तु द्विवचनान्ताण्णिच् क्रियते, तदापि युष्मयत्यस्मयतीति णिचि भवति, विभक्त्यभावाद्यौवावयोरभावः । एकार्थत्वाभावात् प्रत्ययोतरपदयोश्च इत्यस्याप्यभावः । विभक्तौ तु युवावादेशौ । त्वहौ सो इत्यादिविषये तु त एव भवन्ति । ये तु मान्तयोरादेशौ नेच्छन्ति तेषां सौ, शेषेलोपपक्षे - युषम्, असमिति भवति । पक्षान्तरे तु युष्मम्, अस्ममिति । एवमन्यत्रापि द्रष्टव्यम् । गहनोऽयं प्रकियातर्क इत्युपरम्यते ॥

Nyaas

युवकाम्, आवकाम् इति। अव्ययसर्वनाम्नामकच्प्राक्टेः (5.3.71) इत्यकच। अत्र यदि मपर्यन्तस्येति नोच्यते, ततोऽवधेरनुपादानात्? साकच्कस्यापि स्यादित्यत आह - साकच्कस्य सर्वस्य मा भूत् इति। असति मपर्यन्तग्रहणे, अवधेरनुपादनादनेकाल्वाच्चादेशस्य सर्वस्यैव स्यात्। कः पुनः सर्वादेशे दोषः स्यात्? इत्यत आह - तथा च इत्यादि। अनिष्टं रूपं स्यात् इति। अकारस्य योऽचि (7.2.89) इति यकारे कृते त्व्या, म्या इति स्यात्। मपर्यन्तग्रहणे तु सति युष्मदस्मदोर्मपर्यन्तस्य स्थानित्वेनाधिकृतत्वादस्यैव वक्ष्यमाणा आदेशा भवन्तीति न कश्चिद्दोष इति। अथ परिग्रहणं किमर्थम्, न मान्तस्येत्येवोच्यतेत, एवमपि ह्रुचयमानेऽन्तशब्दस्य समीपवचनत्वात्? तद्गुणसंविज्ञानस्य बहुव्रीहेराश्रयणात्? सिद्धमिष्टम्? इत्यत आह - मान्तस्य इत्यादि। एतस्मिन्? साकच्कस्यादेशाभावे अथवैतस्मिन्? युवकामावकामित्यादिके शब्दरूपे मान्तस्येत्येवं सिद्धं यत्? परिग्रहणं कृतं तदवधिद्योतनार्थम्। युष्टदस्मदोरवयवसय स्थानिनोऽवधिद्योतनार्थम्। तस्मान्मान्ते युष्मच्छब्दे अस्मच्छब्दे च वक्ष्यमाणं कार्यं मा भूदित्येवमर्थम्। कदा? इत्यादि - यदा ण्यन्तयोः इत्यादि। तदाचष्ट इति युष्मदस्मद्भ्यां णिचि कृते णाविष्ठवत्? कार्यं प्रातपदिकस्य (वा।813) इतीष्ठवद्भावाट्टिलोपः, ततः क्विप्, तत्र णेरनिटि (6.4.51) इति णिचो लोपे कृते यदा मान्तत्वं विद्यते युष्यदस्मदोस्तदा मा भूदिति। असत्यपि परिग्रहणे मान्स्येत्येन युष्मदस्मदोरित्ययवावस्थानं लभ्यते, ततश्च यत्र मान्ते युष्मदस्मदी, तत्रैव वक्ष्यमाणा आदेशा भवेयुः। परिग्रहणे त्ववधिद्योतनार्थे सति नियोगतो वज्र्यमानेन भवितव्यम्; न हि तेन वनाऽवधिः सम्भवति। तत्र समुदायावयवस्थानीनिर्द्दिश्यते। यत्राच्छब्दो वर्जनीयोऽस्ति तत्रैव भविष्यति, न तु म#आन्तयोरयुष्मदस्मादोरेव। ननु च विभक्तिपरयोर्युष्मदस्मदोरादेशा विधास्यन्ते, न च मान्तवस्थायां विभक्तिपरतस्ति; णिलोपस्य स्थानिवद्भावात्, तत्? किं मान्तस्य निवत्त्यर्थेन परिग्रहणेन? इत्याह - आह - स्थानिवत्त्वं च इत्यादि। क्वौ लुप्ते न स्थानिवत् (वा।1.1.59) इति वचनात्? स्थानिवद्भावोऽत्र नास्ति। तस्माद्विद्यत एव विभक्तिपरत्वमित्यभिप्रायः॥

Prakriyasarvasvam

इत्यधिकारे—