72092: युवावौ द्विवचने¶
Padacheda: युवावौ | S | 1 | 2 |
द्विवचने | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In the dual, युव is substituted for युष्म् and आव for अस्म्।
Vasu English Translation¶
In the dual, युव is substituted for युष्म् and आव for अस्म्। Thus युवाम्, आवाम्, युवाभ्याम्, आवाभ्याम्, युवयोः, आवयोः ॥ This substitution takes place even in compounds, where the sense of duality is prominent, if some other substitute like (7.2.94) &c. does not intervene. As अतिक्रान्तं युवाम् = अतियुवाम्, so also अत्यावाम्; अतियुवान्, अत्यावान् (= अतिक्रान्तान् युवाम् &c.) अतियुवया and अत्यावया (= अतिक्रान्तेन युवाम्) Similarly अतियुवाभिः, ॥ (अतिक्रान्तैर्युवां) अत्यावाभिः, अतियुवभ्यम्, (अतिक्रान्तेभ्योयुवां) अत्यावभ्यम्, अतियुवत्, (अतिक्रान्ताद् युवां) अत्यावत्, अतियुवाकम्, (अतिक्रान्तानां युवां) अत्यावाकम्, अतियुवयि, (अतिक्रान्ते युवां) अत्यावयि, अतियुवासु, अतिक्रान्तेषु युवां अत्यावासु ॥ But where त्व &c are to be substituted, there those will be substituted, as अतित्वम् (= अतिक्रान्तो युवाम्), अत्यहम्, अतियूयम्, अतिवयम्, अतितुभ्यम्, अतिमह्यम्, अतितव, अतिमम ॥ This substitution does not take place when ‘yushmad’ and ‘asmad’ denote one or many (more than two), though the compound may denote a duality: as अतिक्रान्तौ त्वाम् = अतित्वाम्, अतिगाम्, अतियुष्गान्, अत्यस्मान् ॥
If in a compound, the words yushmad and asmad are employed in a dual signification, though the compound as a whole may have a singular or plural number, for the number of a compound does not depend upon the number of the words composing it, yet even in such a compound the युव and आव substitution should be made for the dual-significant yushmad and asmad: unless such substitution is debarred by some other substitutes like त्व and अह ((7.2.94) &c). Thus अतिक्रान्तं युवां = अतियुवाम्, similarly अति-आवाम् ॥ The whole declension is given below:-
Nominative अतित्वम् अतियूयम् अत्यवम् अतिवयम्
Accusative अतियुवाम् अतियुवाम् अत्यावाम् अत्यावान्
Instrumental अतियुवया अतियुवभिः अत्यावया अत्यावाभिः
Dative अतितुभ्यं अतियुवभ्यं अतिमह्यम् अत्यावभ्यं
Ablative अतियुवत् अतियुवत् अत्यावत् अत्यावत्
Genitive अतितव अतियुवाकम् अतिमम आत्यावाकम्
Locative अतियुवयि अतियुवासु अत्यावयि अत्यावासु
But when the words yushmad and asmad denote singular or plural and the compound denotes a dual, then the yuva and ava substitutions do not take place. As अतिक्रान्तौ त्वाम् = अतित्वाम्, so also अतिक्रान्तौ युष्मान् = अतियुष्मान् so also अत्यस्मान् ॥ So on in other cases.
Kashika¶
द्विवचने इत्यर्थग्रहणम्। द्विवचने ये युष्मदस्मदी द्व्यर्थाभिधानविषये तयोर्मपर्यन्तस्य स्थाने युव आव इत्येतावादेशौ भवतः। युवाम्। आवाम्। युवाभ्याम्। आवाभ्याम्। युवयोः। आवयोः। यदा समासे द्व्यर्थे युष्मदस्मदी भवतः, समासार्थस्यान्यसंख्यत्वादेकवचनं बहुवचनं वा भवति, तदापि द्व्यर्थयोर्युष्मदस्मदोर्युवावौ भवतः, यदि त्वाहौ सौ (७.२.९४) इत्येवमादिना आदेशान्तरेण न बाध्येते। अतिक्रान्तं युवाम् अतियुवाम्। अत्यावाम्। अतिक्रान्तान् युवाम् अतियुवान्। अत्यावान्। अतिक्रान्तेन युवाम् अतियुवया। अत्यावया। अतिक्रान्तैर्युवाम् अतियुवाभिः। अत्यावाभिः। अतिक्रान्तेभ्यो युवाम् अतियुवभ्यम्। अत्यावभ्यम्। अतिक्रान्ताद् युवाम् अतियुवत्। अत्यावत्। अतिक्रान्तेभ्यो युवाम् अतियुवत्। अत्यावत्। अतिक्रान्तानां युवाम् अतियुवाकम्। अत्यावाकम्। अतिक्रान्ते युवाम्। अतियुवयि। अत्यावयि। अतिक्रान्तेषु युवाम् अतियुवासु। अत्यावासु। त्वाहादीनां तु विषये परत्वात् त एव भवन्ति। अतिक्रान्तो युवाम् अतित्वम्। अत्यहम्। अतिक्रान्ता युवाम् अतियूयम्। अतिवयम्। अतिक्रान्ताय युवाम् अतितुभ्यम्। अतिमह्यम्। अतिक्रान्तस्य युवाम् अतितव। अतिमम। यदा तु युष्मदस्मदी एकत्वबहुत्वयोर्वर्तेते, समासार्थस्तु द्वित्वे, तदा युवावौ न भवतः। अतिक्रान्तौ त्वाम् अतित्वाम्। अतिमाम्। अतिक्रान्तौ युष्मान् अतियुष्माम्। अत्यस्माम्। एवमुन्नेयम्॥
Siddhanta Kaumudi¶
द्वियोरुक्तौ युष्मदस्मदोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ ॥
Laghu Siddhanta Kaumudi¶
द्वयोरुक्तावनयोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ ॥
Balamanorama¶
युवावौ द्विवचने - ॒युष्मद्-औ, अस्मद्-औ, इति स्थितेङे प्रथमयो॑रित्यमि कृते युष्मद्-अम्, अस्मद्-अम् इति स्थिते-युवावौ द्विवचने ।युष्मदस्मदोरनादेशे॑ इत्ययो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यदिकृतम् । उक्तिर्वचनम् । द्वयोर्वचनं द्विवचनम् । तत्र समर्थयोरित्यर्थः । द्वित्वविशिष्टार्थवाचिनोरिति यावत् । नतु द्विवचनसंज्ञके प्रत्यये परे इत्यर्थः, वचनग्रहणसामर्थ्यात् । अन्यथा ‘द्वित्वे’ इत्येव ब्राऊयात् । ‘अष्टन आ विभक्तौ’ इत्यते विभक्तावित्यस्यानुवृत्तौ सत्यां द्वित्वे या विभक्तिस्तस्यां परत इत्यर्थलाभात् । तदाह — द्वयोरुक्तावित्यादिना । द्वयोरुक्तावित्याश्रयणस्य फलमग्रे मूल एव स्पष्टीभविष्यति ।
Tattvabodhini¶
युवावौ द्विवचने - युवावौ द्विवचने । उक्तिर्वचनं, द्वयोर्वचनं द्विवचनं, तदेतदाह — द्वयोरुक्ताविति.न चात्र कृत्रिमाऽकृत्रिमन्यायविरोधः शङ्क्यः, वचनग्रहणसामर्थ्यादेव तद्बाधात् । अन्यथाद्वित्वे॑इत्येव ब्रायात् ।अष्टन आ विभक्ता॑वित्यतो विभक्तावित्यधिकाराद्द्वित्वे य विभक्तिस्तस्यां परत इति ब्याख्यानसंभवात् ।
Padamanjari¶
द्विवचन इत्यर्थग्रहणमिति । वक्तीति वचनम्, कृत्यल्युटो बहुलम्, इति कर्तरि ल्युट्, द्वयोरर्थयोर्वचने एद्विवचने । प्रथमाद्विवचनान्तं चैतत्, तदाह - द्विवचने युषमदस्मदी इति । के पुनस्ते इत्याह - द्व्यर्थाभिधानविषये इति । एतच्च वचनग्रहणाल्लभ्यते । कथम् द्वित्व इति वक्तव्यम्, विभक्तावित्येव, द्वित्ये या विभक्तिस्तस्यामित्यर्थः । अर्थग्रहणे सति यदिष्ट्ंअ सम्पद्यते, तद् दर्शयति - यदेति । पारिभाषिकस्य द्विवचनस्य ग्रहणे तस्यास्मिन्विषयेऽभावद्यौवावादेशौ न स्यातामित्यव्याप्तिः स्यादिति भावः । आदेशान्तरेण न बाध्येते इति । बाधस्तु परत्वादित्यत्रैव वक्ष्यते । अतिक्रान्तं युवामिति सौ जसि चादेशान्तरेण बाधः । द्विवचनस्य तु पारिभाषिकस्य ग्रहणेऽपि सिद्धिरिति प्रथमाया अतिक्रमः । उतरत्रापि तु पारिभाषिकस्य ग्रहणेऽपि सिद्धिरिति प्रथमाया अतिक्रमः । उतरत्रापि द्विवचनस्यातिक्रमेऽयमेव हेतुः । तत्र चानादेशे विभक्तौ हलादौ द्वितीयायां च आत्वम्, अजादौ यत्वम्, शेषे लोपः, णेóप्रथमयोरम्, इत्यादयो विभक्त्यादेशाश्च यताययं द्रष्टव्याः । परत्वादिति । त्वाहादीनामवकाशः यदा बह्वर्थे युष्मदस्मदी - अतिक्रान्तो युष्मानतित्वम्, अत्यहम्, युवावयोरकाशः - युवाम्, आवाम् व्द्यर्थत्वे सति, सावुभयप्रसङ्गे विप्रतिषेधः । यदा त्वित्यादि । पारिभाषिकस्य ग्रहणे तत्रापि प्रसङ्ग इत्यतिव्याप्तिः स्यादिति भावः । अतिक्रान्तौ त्वाम् , अतित्वामिति । प्रथमायाश्च द्विवचने भाषायाम् इत्यात्वम् । यदात्र पारिभाषिकस्य ग्रहणमिति मत्वेदमुदाहृतम् । अथापि तत्राप्यर्थग्रहणम्, तथापि बह्वर्थेऽतिप्रसङ्ग इत्याह - अतिक्रान्तौ युष्मानिति । पूर्ववदात्वम् । एवं ज्ञेयमिति । अतियुष्माम्, अतियुष्माभ्याम्, अतियुष्मयोः । एवमस्मदः ॥
Nyaas¶
द्विवचने इति। यदीदं पारिभाषिकस्य दविवचनस्य ग्रहणं स्यात्, स्यात्, तदा तस्मिन्? परत एव तावादेशो भवेताम्। तथा च यदा समासे द्व्यर्थे युष्मदस्मदी भवतः, समासार्थस्य त्वन्यसंख्यत्वादेकवचनं बहुवचनं वा समासाद्भवति, तदा न स्यातामिति; यदा युष्मदस्मदी एकत्वे वा बहुत्वे वा वर्तेते समासार्थस्य द्वित्त्वे सति समासाद्द्ववचनं वति, तदा युवादौ स्यातामेव, एतच्चानिष्टम्` इति। द्वयोरर्थयर्वचनमुक्तिः=द्विवचनम्। द्विवचने ये युष्मदस्मदी इति। द्विवचने इति। विषयसपतमीयम्। तदेव विषयसप्मीत्वमस्या व्यक्तीकर्तुमाह - द्व्यर्थाभिधानविषये इति। द्वयोरर्थयोरभिधानं द्व्यर्थाभिधानम्, तद्विषय ये युष्मदस्मदी ते तथोक्ते। `तयोः इत्यादि। तयोर्युष्मदस्मदोर्मपर्यन्तावयवः स्थानी, तस्य युवावौ भवतः। यदा इत्यादिनार्थग्रहणे सति यदिष्टं सिध्यति तद्दर्शयति। यदि तर्हि समासादेकवचनबहुवचनयोरुपजातयोर्द्व्यर्थाभिधानदिषयत्वाद्युष्मदस्मदोर्युवावौ भवतः, एवं सति त्वाहौ सौ (7.2.94) , यूयववौ जसि (7.2.93) , तुभ्यमह्रौ ङपि (7.2.95) , तदममौ ङसि (7.2.96) - इत्येषामपि विषये स्याताम्? इत्यत आह - यदि त्वाहौ सौ इत्यादि। अतियुवामत्यावाम् इति। आत्यादयः क्रान्ताद्यर्थे (वा।91) इति प्रादिसमासः। तत्र योऽसौ युष्मदस्मदर्थञ्चातिक्रान्तः स एकसंख्यावच्छिन्नोऽर्थ इति तत्र यद्यप्येकवचनं भवति, तथापि द्व्यर्थाभिधानविषयत्वाद्युष्मदस्मदोर्युवावौ भवत एव। अत्र हि द्वितीयायाञ्च (7.2.87) इत्यात्त्वम्। अतियुवान्, अत्यावान् इति। शसो न (7.1.29) इति नत्वम्। अत्यावया इति। योऽचि (7.2.89) इति यत्वम्। अतियुवाभिरत्यावाभिः इति। युष्मदस्मदोरनादेशे (7.2.86) इत्यात्त्वम्। अतियुवभ्यमत्यावभ्यम् इति। भ्यसो भ्यम् (7.1.30) । अतियुवदत्यावत् इति। एकवचनस्य च (7.1.32) इति ङसेरदादेशः। बहुवचनस्य तु पञ्चम्या अत् (7.1.31) इत्यनेन। अतियुदाकम्, अत्यावाकम् इति। साम आकम् (7.1.33) । अतियुवदत्यावत् इति। एकवचनस्य च (7.1.32) इति ङसेरदादेशः। बहुवचनस्य तु पञ्चम्या उत् (7.1.31) इत्यनेन। अतियुवाकम्, अत्यावाकम् इति। साम आकम् (7.1.33) अतियुवयि, अत्यादयि इति। पूर्ववद्यत्वम्। अतियुवासु अत्यावासु इति। पूर्ववदात्त्वम्। त्वाहादीनां विषये इत्यादिना यदुक्तं - यदि त्वहौ (7.2.94) इत्यादिनाऽऽदेशान्तरेण न बाध्येते इति, तद्धिस्पष्टीकरोति - यदा तु इत्यादिना। अर्थग्रहणे सति यदिष्टमुपपद्यते तद्दर्शयति - अतित्वामतमाम् इति। अत्र यो युष्मदस्मदर्थावतिक्रान्तौ तौ द्विसंख्यौ समासार्थाविति समासाद्यद्यमि द्विवचनं भवति, तथापि युष्मदस्मदोर्द्व्यर्थता नास्तीति युवावौ न भवतः। त्वमावेव भक्तः। प्रथमायाश्च द्विवचने भाषायाम् (7.2.88) इत्यात्त्वम्। अथ वा - द्वितीयाद्विवचनमेतत्, ततः द्वितीयायाञ्च (7.2.87) इति। एवसुन्नेयम् इति। वचनान्तरेष्वप्यादेशाभावं दर्शयति। युष्मानतिक्रान्तौ पश्य अतियुष्माम्, अत्यस्माम्। अतिक्रान्ताभ्यां त्वां कृतमतित्वाभ्याम्, अतिमाभ्याम्। अतिक्रान्ताभ्यां युष्मान्? कृतमतियुष्माभ्यां कृतम्। त्वामतिक्रान्ताभ्यां देहि अतित्वाभ्यां देहि, अतिमाभ्यां देहि। अतिक्रान्ताभ्यां युष्मान्? देहि अतियुष्माभ्यामत्यस्माभ्यां देहि। अतिक्रान्ताभ्यां त्वामागतोऽतिस्याभ्यामागतः, अतिमाभ्यामागतः। अतिक्रान्तभ्यां युष्मानागतोऽतियुष्माभ्यामागतः, अत्यस्माभ्यामागतः। अतिक्रान्तयोस्त्वां स्वमतित्वयोः स्वम्, अतिमयोः स्वम्। युष्मानतिक्रान्तयोः स्वमतयुष्मयोः स्वम्, अत्यस्मयोः स्वम्। अतिक्रान्तयोस्त्वां निधेहि अतित्वयोर्निधेहि, अतिमयोर्निधेहि। अतिक्रान्तयोर्युष्मान्निधेहि, अतियुष्मयोर्निधेहि, अत्यस्मयोर्निदेहि॥
Prakriyasarvasvam¶
द्व्यर्थवाचिनी ये युष्मदस्मदी तयोर्मपर्यन्तस्य युवावौ स्तः ।
Sudha¶
युवावौ द्विवचन इति । उक्तिर्वचनं, द्वयोर्वचनम्-द्विवचनम्, तत्र समर्थयोरित्यर्थः । द्वित्वविशिष्टार्थवाचिनोरिति यावत् ।