72079: लिङः सलोपोऽनन्त्यस्य¶
Padacheda: लिङः | S | 6 | 1 |
सलोपः | S | 1 | 1 |
अनन्त्यस्य | S | 6 | 1 |
Sutrartha¶
सार्वधातुक-लिङ्लकारस्य प्रत्यये यः सकारः अन्ते विद्यमानः नास्ति, तस्य लोपः भवति ।
लिङ्लकारस्य भेदद्वयम् स्तः - विधिनिमन्त्रणा.. (3.3.161) इत्यनेन निर्दिष्टः विधिलिङ्लकारः सार्वधातुकः अस्ति, यतः अस्य तिङ्-प्रत्ययाः तिङ्शित्सार्वधातुकम् (3.4.113) इत्यनेन सार्वधातुकसंज्ञकाः सन्ति । आशिषि लिङ्लोटौ (3.3.173) इत्यनेन निर्दिष्टः लिङ्लकारः आर्धधातुकः अस्ति, यतः अस्य तिङ्-प्रत्ययाः लिङाशिषि (3.4.116) इत्यनेन आर्धधातुकसंज्ञकाः सन्ति । वर्तमानसूत्रस्य प्रसक्तिः केवलं सार्वधातुकलिङ्लकारस्य विषये एव अस्ति । सार्वधातुक-लिङ्लकारस्य प्रत्यये विद्यमानः सकारः यदि अन्ते नास्ति, तर्हि वर्तमानसूत्रेण तस्य लोपः भवति । वस्तुतः सार्वधातुकलिङ्लकारस्य प्रत्ययेषु कुत्रापि अनन्त्यः सकारः न दृश्यते । परन्तु भिन्नैः सूत्रैः एतेषां प्रत्ययानाम् सीयुट्, यासुट्, सुट् एते आगमाः विधीयन्ते, येषु सकारः अस्ति । आगमाः तद्गुणीभूताः तद्ग्रहणेन गृह्यन्ते इत्यनेन प्रत्यये आगमानामपि ग्रहणं भवति, अतः अनेन सूत्रेण निर्दिष्टः सकारलोपः एतेषामागमानाम् सकारस्य भवति । उदाहरणानि एतानि - 1. लभ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनम् - लभ् + लिङ् [विधिनिमन्त्रणा.. (3.3.161) इति लिङ्लकारः] → लभ् + त [ तिप्तस्.. (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः] → लभ् + शप् + त [कर्तरि शप् (3.1.68) इति शप्] → लभ् + अ + सीयुट् + त [लिङस्सीयुट् (3.4.102) इति सीयुट् आगमः] → लभ् + अ + सीय् + सुट् + त [सुट् तिथोः (3.4.107) इति सुट्-आगमः] → लभ् + अ + ईय् + त [लिङःसलोपोऽनन्त्यस्य (7.2.79) इति द्वयोः सकारयोः लोपः] → लभ् + अ + ई + त [लोपो व्योर्वलि (6.1.66) इति यकारलोपः] → लभेत [आद्गुणः (6.1.87) इति गुणः] 2. पठ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-बहुवचनस्य रूपम् - पठ् + लिङ् [विधिनिमन्त्रणा.. (3.3.161) इति लिङ्] → पठ् + शप् + लिङ् [कर्तरि शप् (3.1.68) इति शप्] → पठ् + अ + झि [तिप्तस्.. (3.4.78) इति परस्मैपदस्य प्रथमपुरुष-बहुवचनस्य विवक्षायाम् ‘झि’ प्रत्ययः ] → पठ् + अ + यासुट् + झि [यासुट्परस्मैपदेषूदात्तो ङिच्च (3.4.103) इति यासुट्-आगमः] → पठ् + अ + या + झ [लिङःसलोपोऽनन्त्यस्य (7.2.79) इति यासुट्-इत्यस्य सकारस्य लोपः] → पठ् + अ + इय् + झ [अतो येयः (7.2.80) इति या-इत्यस्य इय्-आदेशः] → पठ् + अ + इय् + जुस् [झेर्जुस् (3.4.108) इति झि-प्रत्ययस्य जुस्-आदेशः → पठ् + अ + इय् + उस् [चुटु (1.3.7) इति जकारस्य इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः । अत्र यद्यपि प्रत्यये सकारः अस्ति, तथापि अयं सकारः प्रत्ययस्य ‘अन्ते’ अस्ति, अतः वर्तमानसूत्रेण तस्य लोपः भवितुम् न अर्हति ] → पठेयुस् [आद्गुणः (6.1.87)] → पठेयुः [विसर्गनिर्माणम्]
Sutrartha (English)¶
For सार्वधातुक-लिङ्लकार, the सकार which is present in the प्रत्यय but which is not present at the end of the प्रत्यय is removed.
Vasu English Summary¶
In the सार्वधातुक लिङ् (Potential) the स् which is not final (i.e. the स् of the augments यास् and सीय् ) is elided.
Vasu English Translation¶
In the सार्वधातुक लिङ् (Potential) the स् which is not final (i.e. the स् of the augments यास् and सीय् ) is elided. What is the स् which is not final ? The स् of the augments यासुट्, सुट् and सीयुट् ॥ Thus कुर्यात्, कुर्याताम्, कुर्युः, कुर्वीत, कुर्वीयाताम्, कुर्वीरन् ॥ Why ‘not the final’? Observe कुर्युः, कुर्याः ॥ Why in the Sarvadhatuka? Observe क्रियास्ताम्, क्रियासुः, कृषीष्ट, कृषीयास्ताम्, कृषीरन् in the Benedictive.
Kashika¶
सार्वधातुक इति वर्तते। सार्वधातुके यो लिङ् तस्यानन्त्यस्य सकारस्य लोपो भवति। कः पुनरनन्त्यो लिङः सकारः? यो यासुट्सुट्सीयुटाम्। कुर्यात्,कुर्याताम्, कुर्युः। कुर्वीत, कुर्वीयाताम्, कुर्वीरन्। अनन्त्यस्येति किम्? कुर्युः। कुर्याः। सार्वधातुक इत्येव — क्रियास्ताम्, क्रियासुः। कृषीष्ट, कृषीयास्ताम्, कृषीरन्॥
Siddhanta Kaumudi¶
सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः स्यात् । इति सकारद्वयस्यापि निवृत्तिः । सुटः श्रवणं त्वाशीर्लिङि । स्फुटतरं तु तत्राप्यात्मनेपदे ॥
Laghu Siddhanta Kaumudi¶
सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः। इति प्राप्ते -
Balamanorama¶
लिङः सलोपोऽनन्त्यस्य - लिङः स । सेति लुप्तषष्ठीकं पदम् ।रुदादिभ्यः सार्वधातुके॑ इत्यतः सार्वधातुक इत्यनुवृत्तं षष्ठ्या विपरिणम्यते । तदाह — सार्वधातुकलिङ इति । सकाद्वयस्यापीति । अविशेषात्सकारद्वयस्यापि युगल्लोपः प्रवर्तते,लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रिति तु पर्यायेण पुनः प्रवृत्तिनिवृत्तिपरमिति भावः । यद्यपि भव यास् स् त् इत्यत्र स्कोरित्येव सिध्यति, तथापि भवेयुरित्याद्यर्थं सूत्रम् । ननु सुटो लोपे किमर्थस्सुड्विधिरित्यत आह — सुटः श्रवणं त्वाशीर्लिङीति । भूयास्तमित्यादौ । लिङाशिषीत्याद्र्धदातुकत्वेन तत्र सकारलोपस्याऽप्रसक्तेरिति भावः ।व्यञ्जनपरस्यैकस्याऽनेकस्य वोच्चारणे विशेषाऽभाव॑ इति भाष्यादाह — स्फुटतरं त्विति । तत्रापि = आशिषि लिङ्यपि, एधिषीष्टेत्यादावात्मनेपदे स्फुटतरं सकारद्वयस्य श्रवणमित्यर्थः । तत्र यासुटोऽभावेन, सलोपाऽभावेन च सुट एव सकारस्य पृथक् स्पष्टं श्रवणसम्भवादिति भावः ।
Tattvabodhini¶
लिङः सलोपोऽनन्त्यस्य - ॒रुदादिभ्यःर॑ इति सूत्रात्सार्वधातुक इत्यनुवर्तते, सेति लुप्तषष्ठीकमनन्त्यस्येत्यनेन विशेष्यते । तदाह — सार्वधातुकलिङोऽनन्त्यस्येति । सकारद्वयस्यापीति । अवयवावयवोऽपि समुदायं प्रत्यवयव इत्याश्रयणात्सुटोऽपि लिङ्भक्तत्वादिति भावः । आशीर्लिङीति । भूयास्तमित्यादौ । ननु सुटि कृतेअनचि चे॑ति द्वित्वस्याऽसिद्धत्वात्ततः प्रागेवस्को॑रिति यासुटः सकारो लुप्यते, झलि परे यः संयोगस्तदादित्वात् । तथा चैकसकारं रूपं तुल्यम् । सुडभावे यासुटः सकारस्य द्वित्वे कृते सुटिस्को॑रिति सलोपात्सुट एव सकारस्य द्वित्वे च द्विसकारकमपि रूपं तुल्यमेवेति सुटो विधानं व्यर्थमित्यपरितोषादाह — स्फुटतरं त्विति । एधिषीष्टेत्यादाविति भावः ।
Padamanjari¶
सार्वधातुके यो लिङिति । नैषा परसप्तमी, सार्वधातुकपरस्य लिङेऽसम्भवात् । तस्मान्निर्धारणे सप्तमी । जातावेकवचनम्, सार्वधातुकेषु मध्ये यो लिङ् सार्वधातुकसंज्ञकस्तस्येत्यर्थः । कुर्यादिति । अत उत्सार्वधातुके इत्युत्वम्, ये च त्युकारिस्य लोपः । अत्र यासुट्सुटोः सकारस्य लोपः । कुर्युरिति । झेर्जुम्, ।यासुट्सकारलोपः, उस्यपदान्तात् इति परूपत्वम् । कुर्वीतेति । सीयुट्सुटोः सलोपः । कुर्वीन्निति । झस्य एरन्, अत्र सीयुट एव लोपः ॥
Nyaas¶
सार्वधातुके यो लिङ् इति। सार्वधातुके (7.2.76) इत्येषात्र निर्धारणे सप्तमी, जातावेकवचनम्, यथा कारके (1.4.23) इति। अथ वा - सुब्व्यत्ययेन बहुवचनस्य परसङ्ग एकवचनम्। परसप्तमीत्येषा न न भवति - सार्वधातुके परतः; पूर्वस्य लिङोऽसम्भवात्। कुर्यात् इति। विध्यादिसूत्रेम (3.3.161) लिङ्, यासुट्, इतश्च (3.4.100) इतीकारलोपः, धातोर्गुणः, रपरत्वे अत उत्? सार्वधातुके (6.4.110) (3.4.108) , उस्यपदान्तात् (6.1.96) इति पररूपत्वम्। कुर्वीत इति। उकारस्य यणादेशः। कुर्वीरन् इति। झस्य रन् (3.4.105) । कुर्युः कुर्याः` इति। अत्रानन्त्यग्रहणाज्जुसः सिपश्च न भवति।क्रियास्ताम्, क्रियासुः इति। आशिषि लिङ्? (3.3.173) , रिङ्शयग्लिङ्क्षु (7.4.28) इति रिङादेशः। सार्वधातुकग्रहणादार्धधातुके न भवति। आर्धधातुकत्वं च लिङाशिषि (3.4.116) इत्यार्धधातुकसंज्ञाविधानात्। कृषीष्ट, ह्मषीष्ट इति। उश्च (1.2.12) इति कित्त्वम्, गुणाभावः॥
Prakriyasarvasvam¶
सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः स्यात् । भव या ति ।
Sutra Prayogas¶
प्रयुक्थाः (भट्टिकाव्यम्): लिङः सलोपो ऽनन्त्यस्य इति सलोपः।