72079: लिङः सलोपोऽनन्त्यस्य =========================== **Padacheda:** लिङः | S | 6 | 1 | सलोपः | S | 1 | 1 | अनन्त्यस्य | S | 6 | 1 | Sutrartha --------- **सार्वधातुक-लिङ्लकारस्य प्रत्यये यः सकारः अन्ते विद्यमानः नास्ति, तस्य लोपः भवति ।** लिङ्लकारस्य भेदद्वयम् स्तः - **विधिनिमन्त्रणा..** (3.3.161) इत्यनेन निर्दिष्टः विधिलिङ्लकारः सार्वधातुकः अस्ति, यतः अस्य तिङ्-प्रत्ययाः **तिङ्शित्सार्वधातुकम्** (3.4.113) इत्यनेन सार्वधातुकसंज्ञकाः सन्ति । **आशिषि लिङ्लोटौ** (3.3.173) इत्यनेन निर्दिष्टः लिङ्लकारः आर्धधातुकः अस्ति, यतः अस्य तिङ्-प्रत्ययाः **लिङाशिषि** (3.4.116) इत्यनेन आर्धधातुकसंज्ञकाः सन्ति । वर्तमानसूत्रस्य प्रसक्तिः केवलं सार्वधातुकलिङ्लकारस्य विषये एव अस्ति । सार्वधातुक-लिङ्लकारस्य प्रत्यये विद्यमानः सकारः यदि अन्ते नास्ति, तर्हि वर्तमानसूत्रेण तस्य लोपः भवति । वस्तुतः सार्वधातुकलिङ्लकारस्य प्रत्ययेषु कुत्रापि अनन्त्यः सकारः न दृश्यते । परन्तु भिन्नैः सूत्रैः एतेषां प्रत्ययानाम् सीयुट्, यासुट्, सुट् एते आगमाः विधीयन्ते, येषु सकारः अस्ति । **आगमाः तद्गुणीभूताः तद्ग्रहणेन गृह्यन्ते** इत्यनेन प्रत्यये आगमानामपि ग्रहणं भवति, अतः अनेन सूत्रेण निर्दिष्टः सकारलोपः एतेषामागमानाम् सकारस्य भवति । उदाहरणानि एतानि - 1. लभ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनम् - लभ् + लिङ् [**विधिनिमन्त्रणा..** (3.3.161) इति लिङ्लकारः] → लभ् + त [ **तिप्तस्..** (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः] → लभ् + शप् + त [**कर्तरि शप्** (3.1.68) इति शप्] → लभ् + अ + सीयुट् + त [**लिङस्सीयुट्** (3.4.102) इति सीयुट् आगमः] → लभ् + अ + सीय् + सुट् + त [**सुट् तिथोः** (3.4.107) इति सुट्-आगमः] → लभ् + अ + ईय् + त [**लिङःसलोपोऽनन्त्यस्य** (7.2.79) इति द्वयोः सकारयोः लोपः] → लभ् + अ + ई + त [**लोपो व्योर्वलि** (6.1.66) इति यकारलोपः] → लभेत [**आद्गुणः** (6.1.87) इति गुणः] 2. पठ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-बहुवचनस्य रूपम् - पठ् + लिङ् [**विधिनिमन्त्रणा..** (3.3.161) इति लिङ्] → पठ् + शप् + लिङ् [**कर्तरि शप्** (3.1.68) इति शप्] → पठ् + अ + झि [**तिप्तस्..** (3.4.78) इति परस्मैपदस्य प्रथमपुरुष-बहुवचनस्य विवक्षायाम् 'झि' प्रत्ययः ] → पठ् + अ + यासुट् + झि [**यासुट्परस्मैपदेषूदात्तो ङिच्च** (3.4.103) इति यासुट्-आगमः] → पठ् + अ + या + झ [**लिङःसलोपोऽनन्त्यस्य** (7.2.79) इति यासुट्-इत्यस्य सकारस्य लोपः] → पठ् + अ + इय् + झ [**अतो येयः** (7.2.80) इति या-इत्यस्य इय्-आदेशः] → पठ् + अ + इय् + जुस् [**झेर्जुस्** (3.4.108) इति झि-प्रत्ययस्य जुस्-आदेशः → पठ् + अ + इय् + उस् [**चुटु** (1.3.7) इति जकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः । अत्र यद्यपि प्रत्यये सकारः अस्ति, तथापि अयं सकारः प्रत्ययस्य 'अन्ते' अस्ति, अतः वर्तमानसूत्रेण तस्य लोपः भवितुम् न अर्हति ] → पठेयुस् [**आद्गुणः** (6.1.87)] → पठेयुः [विसर्गनिर्माणम्] Sutrartha (English) ------------------- For सार्वधातुक-लिङ्लकार, the सकार which is present in the प्रत्यय but which is not present at the end of the प्रत्यय is removed. Vasu English Summary -------------------- In the सार्वधातुक लिङ् (Potential) the स् which is not final (i.e. the स् of the augments यास् and सीय् ) is elided. Vasu English Translation ------------------------ In the सार्वधातुक लिङ् (Potential) the स् which is not final (i.e. the स् of the augments यास् and सीय् ) is elided. What is the स् which is not final ? The स् of the augments यासुट्, सुट् and सीयुट् ॥ Thus कुर्यात्, कुर्याताम्, कुर्युः, कुर्वीत, कुर्वीयाताम्, कुर्वीरन् ॥ Why 'not the final'? Observe कुर्युः, कुर्याः ॥ Why in the *Sarvadhatuka*? Observe क्रियास्ताम्, क्रियासुः, कृषीष्ट, कृषीयास्ताम्, कृषीरन् in the Benedictive. Kashika ------- सार्वधातुक इति वर्तते। सार्वधातुके यो लिङ् तस्यानन्त्यस्य सकारस्य लोपो भवति। कः पुनरनन्त्यो लिङः सकारः? यो यासुट्सुट्सीयुटाम्। कुर्यात्,कुर्याताम्, कुर्युः। कुर्वीत, कुर्वीयाताम्, कुर्वीरन्। अनन्त्यस्येति किम्? कुर्युः। कुर्याः। सार्वधातुक इत्येव — क्रियास्ताम्, क्रियासुः। कृषीष्ट, कृषीयास्ताम्, कृषीरन्॥ Siddhanta Kaumudi ----------------- सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः स्यात् । इति सकारद्वयस्यापि निवृत्तिः । सुटः श्रवणं त्वाशीर्लिङि । स्फुटतरं तु तत्राप्यात्मनेपदे ॥ Laghu Siddhanta Kaumudi ----------------------- सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः। इति प्राप्ते - Balamanorama ------------ **लिङः सलोपोऽनन्त्यस्य** - लिङः स । सेति लुप्तषष्ठीकं पदम् ।रुदादिभ्यः सार्वधातुके॑ इत्यतः सार्वधातुक इत्यनुवृत्तं षष्ठ्या विपरिणम्यते । तदाह — सार्वधातुकलिङ इति । सकाद्वयस्यापीति । अविशेषात्सकारद्वयस्यापि युगल्लोपः प्रवर्तते,लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रिति तु पर्यायेण पुनः प्रवृत्तिनिवृत्तिपरमिति भावः । यद्यपि भव यास् स् त् इत्यत्र स्कोरित्येव सिध्यति, तथापि भवेयुरित्याद्यर्थं सूत्रम् । ननु सुटो लोपे किमर्थस्सुड्विधिरित्यत आह — सुटः श्रवणं त्वाशीर्लिङीति । भूयास्तमित्यादौ । लिङाशिषीत्याद्र्धदातुकत्वेन तत्र सकारलोपस्याऽप्रसक्तेरिति भावः ।व्यञ्जनपरस्यैकस्याऽनेकस्य वोच्चारणे विशेषाऽभाव॑ इति भाष्यादाह — स्फुटतरं त्विति । तत्रापि = आशिषि लिङ्यपि, एधिषीष्टेत्यादावात्मनेपदे स्फुटतरं सकारद्वयस्य श्रवणमित्यर्थः । तत्र यासुटोऽभावेन, सलोपाऽभावेन च सुट एव सकारस्य पृथक् स्पष्टं श्रवणसम्भवादिति भावः । Tattvabodhini ------------- **लिङः सलोपोऽनन्त्यस्य** - ॒रुदादिभ्यःर॑ इति सूत्रात्सार्वधातुक इत्यनुवर्तते, सेति लुप्तषष्ठीकमनन्त्यस्येत्यनेन विशेष्यते । तदाह — सार्वधातुकलिङोऽनन्त्यस्येति । सकारद्वयस्यापीति । अवयवावयवोऽपि समुदायं प्रत्यवयव इत्याश्रयणात्सुटोऽपि लिङ्भक्तत्वादिति भावः । आशीर्लिङीति । भूयास्तमित्यादौ । ननु सुटि कृतेअनचि चे॑ति द्वित्वस्याऽसिद्धत्वात्ततः प्रागेवस्को॑रिति यासुटः सकारो लुप्यते, झलि परे यः संयोगस्तदादित्वात् । तथा चैकसकारं रूपं तुल्यम् । सुडभावे यासुटः सकारस्य द्वित्वे कृते सुटिस्को॑रिति सलोपात्सुट एव सकारस्य द्वित्वे च द्विसकारकमपि रूपं तुल्यमेवेति सुटो विधानं व्यर्थमित्यपरितोषादाह — स्फुटतरं त्विति । एधिषीष्टेत्यादाविति भावः । Padamanjari ----------- सार्वधातुके यो लिङिति । नैषा परसप्तमी, सार्वधातुकपरस्य लिङेऽसम्भवात् । तस्मान्निर्धारणे सप्तमी । जातावेकवचनम्, सार्वधातुकेषु मध्ये यो लिङ् सार्वधातुकसंज्ञकस्तस्येत्यर्थः । कुर्यादिति । अत उत्सार्वधातुके इत्युत्वम्, ये च त्युकारिस्य लोपः । अत्र यासुट्सुटोः सकारस्य लोपः । कुर्युरिति । झेर्जुम्, ।यासुट्सकारलोपः, उस्यपदान्तात् इति परूपत्वम् । कुर्वीतेति । सीयुट्सुटोः सलोपः । कुर्वीन्निति । झस्य एरन्, अत्र सीयुट एव लोपः ॥ Nyaas ----- `सार्वधातुके यो लिङ्` इति। `सार्वधातुके` (7.2.76) इत्येषात्र निर्धारणे सप्तमी, जातावेकवचनम्, यथा `कारके` (1.4.23) इति। अथ वा - सुब्व्यत्ययेन बहुवचनस्य परसङ्ग एकवचनम्। परसप्तमीत्येषा न न भवति - सार्वधातुके परतः; पूर्वस्य लिङोऽसम्भवात्। `कुर्यात्` इति। विध्यादिसूत्रेम (3.3.161) लिङ्, यासुट्, `इतश्च` (3.4.100) इतीकारलोपः, धातोर्गुणः, रपरत्वे `अत उत्? सार्वधातुके` (6.4.110) (3.4.108) , **उस्यपदान्तात्** (6.1.96) इति पररूपत्वम्। `कुर्वीत` इति। उकारस्य यणादेशः। `कुर्वीरन्` इति। **झस्य रन्** (3.4.105) । `कुर्युः` कुर्याः` इति। अत्रानन्त्यग्रहणाज्जुसः सिपश्च न भवति।`क्रियास्ताम्, क्रियासुः` इति। आशिषि लिङ्? (3.3.173) , `रिङ्शयग्लिङ्क्षु` (7.4.28) इति रिङादेशः। सार्वधातुकग्रहणादार्धधातुके न भवति। आर्धधातुकत्वं च **लिङाशिषि** (3.4.116) इत्यार्धधातुकसंज्ञाविधानात्। `कृषीष्ट, ह्मषीष्ट` इति। `उश्च` (1.2.12) इति कित्त्वम्, गुणाभावः॥ Prakriyasarvasvam ----------------- सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः स्यात् । भव या ति । Sutra Prayogas -------------- * **प्रयुक्थाः** (भट्टिकाव्यम्): `लिङः सलोपो ऽनन्त्यस्य` इति सलोपः।