72078: ईडजनोर्ध्वे च¶
Padacheda: ईडजनोः | S | 6 | 2 |
ध्वे | S | | | 6
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The सार्वधातुक affixes से and ध्वे (the endings of the Present and Imperative आत्मनेपदि) get the augment इट् after the roots ईड् - अदादिगणः (2nd Conjugation) and जन् ‘to produce’.
Vasu English Translation¶
The सार्वधातुक affixes से and ध्वे (the endings of the Present and Imperative आत्मनेपदि) get the augment इट् after the roots ईड् - अदादिगणः (2nd Conjugation) and जन् ‘to produce’. Thus ईडिध्वे, ईडिध्वम्, ईडिषे, ईडिष्व, जनिध्वे, जनिध्वम्, जनिषे, जनिष्व ॥ The root जनी (IV. 41) is taken here. The Vikarana श्यन् has been elided in this case, as a Vedic irregularity, and so also there is not elision of the penultimate. In the secular literature the form is जायसे ॥ Here the य would prohibit इट् always. The जन् of the third class (III.24) is also to be included, thus we have व्यतिजज्ञिषे, व्यतिजज्ञिष्व, व्यतिजज्ञिध्वम् in karma vyatihara. Otherwise this root is Parasmaipadi. ध्व takes इट् after ईश् also, as ईशिध्वम् ॥
For this purpose, some read the sutra as ईडजनोः स्ध्वे च; and स् stands here for से having its Locative dropped, and therefore the force of च in the sutra, according to this reading, is to draw in the anuvritti of ईश from the previous sutra. Those who do not follow this reading, draw the whole of the last sutra by force of च ॥ From these it may be asked, what is then the necessity of two sutras ? Could not one sutra, like this, is, ईशीडजनां सेध्वयोः, have sufficed, as being shorter and more general ? To this there is no better valid answer than this विचित्रा हि सूत्रस्य कृतिः पाणिनेः ॥
The form ध्वे being taken in the sutra, the rule will not apply to the ध्वम् of लङ् (Imperfect) : which will not take इट् ॥ But इट् will apply to the ध्वम् of the Imperative on the maxim एकदेशविकृतस्यानन्यत्वात् ॥
Bhashya¶
इर्ड्जनोर्ध्वे च (1) इर्शः से ॥ किमर्थो योगविभागो न - इर्शीड्जनां स्ध्वे इत्येवोच्येत ॥ इर्शो ध्वे मा भूदिति ॥ इष्यत एव(2) इर्शिध्वे इति ॥ इर्ड्जनोस्तर्हि से मा भूदिति(3) । इष्यते एव - इर्डिषे जनिषे इति(3) ॥ इर्शस्तर्हि(4) मा भूदिति(3) ॥ इष्यते एव इर्शिष्वेति ॥ से तर्हि यः स्वशब्दस्तत्र यथा स्यात्, क्रियासमभिहारे यः स्वशब्दस्तत्र मा भूदिति ॥ अत्रापीष्यते - स भवीनीशिष्वेत्येवायमीष्ट इति । आतश्चेष्यते - एवं ह्याह - सिद्धं तु लोण्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्विर्वचनादिति ॥ ( इर्ड्जनोर्ध्वो ) ॥
Kashika¶
ईड जन इत्येताभ्यामुत्तरस्य ध्व इत्येतस्य स इत्येतस्य च सार्वधातुकस्येडागमो भवति। ईडिध्वे। ईडिध्वम्। ईडिषे। ईडिष्व। जनिध्वे। जनिध्वम्। जनिषे। जनिष्व। जनी प्रादुर्भावे इत्यस्य छान्दसत्वात् श्यनो लुक् , उपधालोपाभावश्च। जन जनने इत्यस्यापि श्लुविकरणस्य ग्रहणमत्रेष्यते। तस्य कर्मव्यतिहारे व्यतिजज्ञिषे, व्यतिजज्ञिष्व, व्यतिजज्ञिध्वे, व्यतिजज्ञिध्वम् इति च भवति। ध्वेशब्द ईशेरपि इडागम इष्यते — ईशिध्वे, ईशिध्वमिति। तदर्थं केचिद् ईडिजनोः स्ध्वे च इति सूत्रं पठन्ति। तत्र सकारादेः सेशब्दस्य सूत्र एवोपादानात् चशब्दो भिन्नक्रम ईशेरनुकर्षणार्थो विज्ञायते। ईशीडिजनां सेध्वयोः इत्येकमेव सूत्रं न पठितम्? विचित्रा हि सूत्रस्य कृतिः पाणिनेरिति। ध्व इति कृतटेरेत्वस्य ग्रहणात् लङि ध्वमि न भवितव्यमिटा। लोटि पुनरेकदेशविकृतस्यानन्यत्वाद् भवितव्यमिटा॥
Siddhanta Kaumudi¶
ईशीड्जनां से ध्वे शब्दयोः सार्वधातुकयोरिट् स्यात् । योगविभागोवैचित्र्यार्थः । ईडिषे । ईडिध्वे ॥ [(परिभाषा - ) एकदेशविकृतस्यानन्यत्वात्] । ईडिष्व । ईडिध्वम् । विकृतिग्रहणेन प्रकृतेरग्रहणात् । ऐड्ढ्वम् ।{$ {!1020 ईश!} ऐश्वर्ये$} । ईष्टे । ईशिषे । ईशिध्वे ।{$ {!1021 आस!} उपवेशने$} । आस्ते । दयायासश्च (SK2325) । आसांचक्रे । आस्स्व । आध्वम् । आसिष्ट ।{$ {!1022 आङः!} शासु इच्छायाम्$} । आशास्ते । आशासाते । आङ्पूर्वत्वं । प्रायिकम् । तेन नमोवाकं प्रशास्महे इति सिद्धम् ।{$ {!1023 वस!} आच्छादने$} । वस्ते । वस्से । वध्वे । ववसे । वसिता ।{$ {!1024 कसि!} गतिशासनयोः$} । कंस्ते । कंसाते । कंसते । अयमनिदित्येके । कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे । कशाते । कक्षे । कड्ढ्वे ।{$ {!1025 णिसि!} चुम्बने$} । निंस्ते । दन्त्यान्तोऽयम् । आभरणकारस्तु तालव्यान्त इति बभ्राम ।{$ {!1026 णिजि!} शुद्धौ$} । निङ्क्ते । निङ्क्षे । निञ्जिता ।{$ {!1027 शिजि!} अव्यक्ते शब्दे$} । शिङ्क्ते ।{$ {!1028 पिजि!} वर्णे$} । संपर्चन इत्येके । उभयत्रेत्यन्ये । अवयवे इत्यपरे । अव्यक्ते शब्दे इतीतरे । पिङ्क्ते । पृजीत्येके । पृङ्क्त ।{$ {!1029 वृजी!} वर्जने$} । दन्त्योष्ठ्यादिः । ईदित् । वृक्ते । वृजाते । वृक्षे । इदित् इत्यन्ये । वृङ्क्ते ।{$ {!1030 पृची!} संपर्चने$} । पृक्ते । {$ {!1031 षूङ्!} प्राणिगर्भविमोचने$} । सूते । सुषुवे । सुषुविषे । सोता । सविता । भूसुवोः-(SK2224) इति गुणनिषेधः सुवै । सविषीष्ट । सोषीष्ट । असविष्ट । असोष्ट ।{$ {!1032 शीङ्!} स्वप्ने$} ॥
Balamanorama¶
ईडजनोर्ध्वे च - ईडजनोर्ध्वे च ।इडत्यर्ती॑त्यत इडिति, ‘रुदादिभ्यः’ इत्यतः सार्वदातुक इति चानुवर्तते । से ध्वे इति लुप्तषष्ठीके इत्यभिप्रेत्य सूत्रद्वयं व्याख्याने तु ईशो ध्वेशब्दे परे न स्यात्, ईडजनोः सशब्दे परे न स्यादिति भावः । ननु तर्हिईशीडजनां सेध्वयो॑रित्येकमेव सूत्रं कुतोन कृतमित्यत आह — योगविभागो वैचित्र्यार्थं इति । ‘से’ इत्यस्य उत्तरत्रानुवृत्तिः, ‘ध्वे’ इत्यस्य पूर्वत्रापकर्ष इति वैचित्र्यद्योतनार्थ इत्यर्थः । स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वादिति भावः । ईडिषे इति । इडे ईड्वहे ईड्महे । लिटि तु ईडाचक्रे इत्यादि । ईडिता । ईडिष्यते । ईडाम् । नतु ईडिष्वेत्यत्र कथमिट्, सेशब्दाऽभावात् । तत्राह — एकदेशेति । एकदेशविकृतत्वात्खशब्दस्य इटि ईडिध्व इति रूपमित्यर्थः । ननु तर्हि ईड्ढ्वमित्यत्र कथं नेट्, ध्वस्वरूपापेक्षयाध्व॑मित्यस्य एकदेशविकृतत्वादित्यत आह — विकृतीति । प्रकृतिग्रहणे तदेकदेशविकृतस्य ग्रहणम्, न तु विकृतिग्रहणे तदेकदेशविकृताया अपि प्रकृतेग्र्रहणम् ।पुरुषमानये॑त्युक्ते हि अन्धोऽनन्धो वा पुरु, आनीयते । ‘अन्धमानये’ त्यत्र तु अन्ध एवानीयते न त्वनन्धः । तथा च ध्वम एत्वे कृते ध्वेशब्दः, तेन च विकृतेन ध्वमित्यस्य तत्प्रकृतिभूतस्य न ग्रहणमिति नेडिति भावः । इडै ईडावहै ईडामहै । ऐड ऐडाताम् ऐडत । ऐडाः ऐडाथाम् ऐड्ढ्वम् । ऐडि ऐड्वहि ऐड्महि । ईडीत । ईडिषीष्ट । ऐडिष्ट । ऐडिष्यत । ईशधातुरीडिवत् । ईष्टे इत्यादि । शस्य व्रश्चादिना षत्वे ष्टुत्वमिति विशेषः । आस उपवेशने । आस्ते इति । आध्यमिति ।धि चे॑त सलोपः । आसै आसावहै आसामहै । आस्त, आसाताम्, आसत । आस्थाः, आसाथाम्, आध्वम् । आसि आस्वहि, आस्महि । आसीत् आसीयाताम् । आसिषीष्ट आसिषीयास्ताम् । आसिष्टेति । आसिषातामित्यादि । आसिष्यत । आङः शासु । आङः परः शासधातुरिच्छायामित्यर्थः । नमोवाकमिति । वचेर्घञि वाकः । नमश्शब्दस्य वचनं कुर्महे इत्यर्थः । धातूनामनेकार्थत्वात् । आसिवद्रूपाणि । वस आच्छादने इति । परिधाने इत्यर्थः । वध्वे इति ।धि चे॑ति सलोपः । ववसे इति । वादित्वादेत्त्वाभ्यासलोपौ नेति भावः । वसितेति । अनिट्सु शब्विकरणस्यैव वसेग्र्रहणमिति भावः । वसिष्यते । वस्ताम् । अवस्त । वसीत । वसिषीष्ट । अवसिष्ट । अवसिष्यत । कसि सि गतीति । वसधातुवत् । इदित्त्वान्नुमिति विशेषः । तालव्यान्त इति । तालव्योष्मान्त इत्यर्थः । कष्टे इति ।व्रश्चे॑ति शस्य षः, ष्टुत्वम् । कक्षे इति । शस्य षः, षस्यषढो॑रिति कः, षत्वम् । कड्वे इति । शस्य षः, तस्य जश्त्वेन डः, धस्य ष्टुत्वेन ढः । णिसि चुम्बने इति । णोपदेशोऽयम् । नुमिनश्चे॑त्यनुस्वारः । निंस्ते इत्यादि । निंस्से इति । नुमोऽनुस्वारः । थासः सेभावः । दन्त्यान्तोऽयमिति । दन्त्योष्मान्तोऽयमित्यर्थः । बभ्रामेति ।नुम्विसर्जनीयशव्र्यवायेऽपी॑ति सूत्रे वृत्त्यादौ दन्त्योष्मान्तत्वोक्तेरिति भावः । णिजि शुद्धाविति । णोपदेशोऽयम् । अनिट्सु इरितएव ग्रहणादयं सेट् । निङ्क्ते इति । नुमि निन्ज् ते इति स्थिते जस्य कुत्वेन गः, तस्य चर्त्वेन कः, नस्य अनुस्वारे परसवर्णो ङकारः । निञ्जाते । निङ्क्षे निञ्जाथे निङ्ग्ध्वे । निञ्जे निञ्ज्वहे निञ्ज्महे । लिटि संयोगात्परत्वात्कित्त्वाऽभावान्नलोपो न । निनिञ्जे निनिञ्जाते इत्यादि । निञ्जिता । निञ्जिष्यते । निङ्क्ताम् । अनिङ्क्तः । निञ्जीत । निञ्जिषीष्ट । अनिञ्जिष्ट । अनिञ्जिष्यत । शिजिपिजी अप्येवम् । पृजि इत्येके इति । ऋदुपधोऽयम् । वृजीधातुरृदुपध ईदित्, अतो नुम् नेति भावः । पृची संपर्चने इति । ऋदुपधोऽयम् । पपृचे इत्यादि । ईरादयः पृच्यन्ता अनुदात्तेतो गताः । षूङ्धातुः षोपदेशः,सेट् । ङित्त्वात्तङ् । सूते इति । सुवाते सुवते ।सूषे सुवाथे सूध्वे । सुवे सूवहे सूमहे । सुषुविषे इति ।स्वरती॑तीड्विकल्पं बाधित्वाश्र्युकः किती॑ति निषेधे प्राप्ते, क्रादिनियमान्नित्यमिट् ।स्वरतिसूती॑ति इड्विकल्पं मत्वा आह — सोता सवितेति । तिङस्तासा व्यवधानात्भूसुवो॑रिति न गुणनिषेध इति भावः । सोष्यते सविष्यते । सूताम् । सुवाताम् । सुवताम् । सूष्व सूध्वम् । आटः पित्त्वाद्गुणे प्राप्ते आह — भूसुवोरिति । सुवै इति । सुवावहै सुवामहै । असूत । सुवीत । सविषीष्ट सोषीष्ट इत्यादि स्पष्टम् । शीङ् स्वप्ने । सेट् । ङित्त्वात्तङ् ।
Tattvabodhini¶
ईडजनोर्ध्वे च - ईशीड्जनामिति । वैचित्र्यार्थं इति ।ध्वे॑ इत्यस्य पूर्वत्रापकर्षः,से॑ इत्यस्योत्तरत्रानुवृत्तिरित्येवं वचित्रबोधार्थ इत्यर्थः । इह काशिकादौ जनेरुदाहरणमुक्तम् । तथा हिजनी प्रादुर्भावे॑ इत्यस्माच्छयनश्चान्दसो लुक्, उपधालोपाऽभावश्च । जनिषे । जनिध्वे । जनिष्व । जनिध्वम् ।जन जनने॑ इति श्लुविकरणस्याप्युपधालोपे व्यतिजज्ञिषे । व्यतिजज्ञिध्वे ।कर्तरि कर्मव्यतिहारे॑ इति तङ् । नमोवाकमिति ।नमस्ते रुद्र मन्यवे॑ इत्यादि नमोवचनम् । वचेर्घञ् ।चजो॑रिति कुत्वम् । ववसे इति । वादित्वादेत्वाभ्यासलोपौ न । णिखि चुम्बने । बभ्रामेति ।नुम्विसर्जनीये॑ति सूत्रे वृत्तिपदमञ्जर्यादिभिरुक्तं — नुमादिभिः प्रत्येकं व्यवाये षत्वमिष्यते, तेन निस्से निस्त्वेत्यत्र न भवती॑ति । तच्चाऽस्य सान्तत्वे युज्यते, शान्तत्वे तुव्रश्चे॑तिवत्वेषढो॑रिति कत्वे, कवर्गात्परत्वेन षत्वं दुर्वारमिति प्रत्युदाहरणमिदं न सङ्गच्छत इति भावः । णिजि शुद्धौ । अनिड्केषु णिजिरिति जौहोत्यादिकस्य ग्रहणादयं सेडिति ध्वनयति — निञ्जितेति । शिजि अव्यक्ते शब्दे । क्तप्रत्यये — — शिञ्जितम् । आवश्यकणिन्यन्तान्ङीपिशिञ्जिनी॑ ।भूषणानां तु शिञ्जितम् ।मौर्वी ज्य#आ शिञ्जिनी गुणः॑ इति चामरः । सुषुविषे इति ।स्वरतिसूति॑ इति विकल्पं बाधित्वाश्र्युकः किति॑ इति निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । शीङ् स्वप्ने ।
Padamanjari¶
ईड स्तुतौ अदादिः । छान्दसत्वाच्छयनो लुगिति । भाषायां तु जायसे - इत्यत्र नित्यत्वात् श्यनि कृते तेन व्यवधानादिडभावः । जन जनने इत्यस्यापीति । नन्वसौ परस्मैपदी तत्राह - तस्य कमव्यतिहार इति । यदि तर्हि तस्याप्यात्मनेपदं सम्भवति, तस्यैव ग्रहणं प्राप्नोति, निरनुवन्धकत्वात् ईडिना साहचर्यादात्मनेपदिनोऽपि ग्रहणं भविष्यति । तदर्थे केचिदिति । ये त्वेवं न पठन्ति, ते चकारेण कृत्स्नमेव पूर्वसूत्रमनुवर्तयन्ति । सकारादेरिति । स् एइति सप्तम्या लुका निर्द्देशातदादिविधिः । यदि तर्हि ईशेरपि ध्वे शब्दे इडागतो भवति, योगाविभागो न कर्तव्यः, इडीशजनां सेध्वयोः इति वक्तव्यम्, एवं हि पृथग्विभक्तिर्नोच्चारयितव्या भवति, चकारश्च न कर्तव्यः अत आह - ईशीड्जनां सेध्वयोरिति । लङ् ध्विमित्यस्य न भवतीति । लोट।ल्पि तर्हि ध्वमित्यस्य न प्राप्नोति तत्राह - लोटि पुनरिति ॥
Nyaas¶
ध्वे इति। पूर्ववदेवाविभक्तिकोऽयं निर्द्देशः। ईडिध्वे इति। ईड स्तुतौ (धातुपाठः-1019), पूर्ववदात्मनेपदम्, पूर्ववच्छपो लुक्। ईडिध्वम् इति। लोट्, सवाभ्यां वामौ (3.4.91) इत्यमादेशः। जनिष्वम् इति। पूर्वदातमनेपदम्। छान्दसत्वाच्छ्यनी लृक्? बहुलं छन्दसि (7.4.78) इत्यनेन। उपधालोपाभावश्च इति। गमहन (6.4.98) इत्यादिनोपधालोपः प्राप्नोति, तदभावश्छाब्दसत्वादेव, सर्वे विधयश्छन्दसि विकल्प्यन्ते (पु।प।वृ।56) इति। जन जनन इत्यस्य इत्यादि। ननु सानुबन्धकत्वादस्यैव[चानुबन्धकत्वात् - मुद्रितः पाठः।] ग्रहणेन भवितव्यम्, न पूर्वस्य, उच्चारणार्थोऽकारः, नानुबन्धः? नैष दोषः; इह हि लध्वक्षरत्वाज्जनशब्दस्य पूर्वनिपाते प्राप्ते परनिपातो लक्षणव्यभिचाराय। तेन निरनुबन्धकपरिभाषाया (व्या।प।53) इहानुपस्थानादुभयोरपि ग्रहणं भवति। व्यतिजज्ञिध्वम् इति। कर्तरि कर्मव्यतीहारे (1.3.14) इति आत्मनेपदम्। तत्र इत्यादि। तत्रैवं सूत्रपाठे यस्मिन्? विधिस्तदावावल्ग्रहणे (व्या।प।127) इति सकारग्रहणे सकारादेः सेशब्दस्य ग्रहणम्। स च सकारादिशब्दः सार्वधातुकसंज्ञाकः सेशब्द एव सम्भवति; अन्यस्याऽसम्भवात्। ननु च स्वशब्दोऽपि सम्भवति? नैतदेवम्; एकदेशविकृतस्यानन्यत्वात्? (व्या।प।16) सोऽपि सेशब्द एव, अतस्तद्ग्रहणेनापि भवितव्यम्। ये तु `ईडजनोध्र्ये च इति। सूत्रं पठन्ति, ते ईशः स (7.2.77) इत्यस्यैव योगस्यानुकर्वणार्थ चकारं कुर्वन्ति। तेनेशेरपि ध्वेशब्द इडागमो भवति। यदि तर्हीशेरपि ध्व इडागम इष्यते, तदा ईशीडजनां सेध्वयोः इत्येकमेव सूत्रं कस्मान्न पठन्ति, एवं पृथग्विभक्तिर्नोच्चारयितव्या, चकारश्च न कर्तव्यो भवति? इत्याह - विचित्रा सूत्रस्य इत्यादि। ध्व इति कृतटेरेत्त्वस्य इत्यादि। कृतटेरेत्त्वस्यैतदेव प्रयोजनम् - यत्र टेरेत्त्वं कृतं तत्रैव यथा स्यात्। न च लङि टेरेत्त्तवमसिति, अतस्तत्रेटा न भवितव्यम्। यद्येवम्, लोटपि न भवितव्यम्, अमादेशे कृते टेरेत्त्वस्याभावात्? इत्याह - लोटि पुनः इत्यादि॥
Prakriyasarvasvam¶
अनयोः सार्वधातुके सेध्वे शब्दयोरिट् स्यात्, ईशेर्ध्वे शब्दस्य च१। ईशिध्वे । ईशे । ईश्वहे । ईश्महे । ईडेरपि ईडिषे । ईडिध्वे इति ज्ञेयम् । जनेशच्छान्दस्येव । भावे ईश्यते । ईशीत । ईशीयाताम् । ईशीध्वम् । ईष्टाम् । ईशाताम् । ईशिष्व । ईशिध्वम् । ईशै । ईशावहै । ऐष्ट । ऐशाताम् । ऐष्ठाः । ध्वे इत्येदन्तनिर्देशादि- हेण्न । शस्य षः । ष्टुत्वम् । षस्य जश्त्वम् । ऐड्ढ्वम् २ । लोटि तु ध्वेशब्दस्यै- वैकदेशविकृतत्वादिट्कुतः३ । लुङि सिच इट् । ऐशिष्ट । ऐशिषाताम् । भावे ऐशि । लिटि,