72077: ईशः से¶
Padacheda: ईशः | S | 5 | 1 |
से | S | | | 6
Sutrartha¶
Vasu English Summary¶
The सार्वधातुक affix से (the ending of the 2nd person Present and Imperative आत्मनेपदि) get the augment इट् after the root ईश - अदादिगणः (2nd Conjugation).
Vasu English Translation¶
The सार्वधातुक affix से (the ending of the 2nd person Present and Imperative आत्मनेपदि) get the augment इट् after the root ईश - अदादिगणः (2nd Conjugation). As ईशिषे and इशिश्व ॥ से becomes स्व by (3.4.91) and (3.4.80). The से is exhibited in the sutra without any case-ending.
Bhashya¶
इर्शः से इर्ड्जनोर्ध्वे च (1) ॥ किमर्थो योगविभागो न - इर्शीड्जनां स्ध्वे इत्येवोच्येत ॥ इर्शो ध्वे मा भूदिति ॥ इष्यत एव(2) इर्शिध्वे इति ॥ इर्ड्जनोस्तर्हि से मा भूदिति(3) । इष्यते एव - इर्डिषे जनिषे इति(3) ॥ इर्शस्तर्हि(4) मा भूदिति(3) ॥ इष्यते एव इर्शिष्वेति ॥ से तर्हि यः स्वशब्दस्तत्र यथा स्यात्, क्रियासमभिहारे यः स्वशब्दस्तत्र मा भूदिति ॥ अत्रापीष्यते - स भवीनीशिष्वेत्येवायमीष्ट इति । आतश्चेष्यते - एवं ह्याह - सिद्धं तु लोण्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्विर्वचनादिति ॥ ( इर्ड्जनोर्ध्वो ) ॥
Kashika¶
ईश उत्तरस्य स इत्येतस्य सार्वधातुकस्येडागमो भवति। ईशिषे। ईशिष्व॥
Balamanorama¶
ईशः से - ईशः से ।
Tattvabodhini¶
ईशः से - ईशः से । यथाश्रुतसूत्रन्यासे ईसो ध्वे शब्दे परे ईशिध्वे ईशिध्वमिति न सिध्येदत आह -
Padamanjari¶
ईश ऐश्वर्ये आदादिकः । से इत्यविभक्तिको निर्द्देशः । इशिष्वेति । सवाभ्यां वामौ । एकदेशविकृतस्यानन्यत्वात् सेशब्द एवायम् ॥
Nyaas¶
से इति। सुपां सुलुक् (7.1.39) इति षष्ठआ लकं कृत्वाऽविभक्तिकोऽयं निर्द्देशः। ईशिषे इति। ईश ऐआर्ये (धातुपाठः-1020), लट्? अनुदात्तेत्वादात्मनेपदम्, थासः सेट (3.4.80) , अदादित्वाच्छपो लुक्। `ईशिष्व इति। लोट्, से, सवभ्यां वामौ (3.4.91) इति वादेशे कृते एकदेशविकृतमनन्य वद्भवति (व्या।प।16) इतीहापि भवति॥
Prakriyasarvasvam¶
ईशेः सार्वधातुके सेशब्दस्येट् स्यात् । ईशिषे । ईशाथे ।