72076: रुदादिभ्यः सार्वधातुके

Padacheda: रुदादिभ्यः | S | 5 | 3 |

सार्वधातुके | S | 7 | 1 |

Sutrartha


Vasu English Summary

A सार्वधातुक affix beginning with a consonant other than य gets the augment इट् after the root रुद् - रुधादिगणः (7th Conjugation) and the four that follow it.

Vasu English Translation

A सार्वधातुक affix beginning with a consonant other than य gets the augment इट् after the root रुद् - रुधादिगणः (7th Conjugation) and the four that follow it. Thus रोदिति, स्वपिति, श्वसिति, प्राणिति, जक्षिति ॥ But जागर्ति which is beyond the five, and स्वप्ता before ardhadhatuka affixes, and रुदन्ति before a vowel beginning affix.

Kashika

रुदादिभ्यः पञ्चभ्य उत्तरस्य वलादेः सार्वधातुकस्येडागमो भवति। रुद् — रोदिति। स्वप् — स्वपिति। श्वस् — श्वसिति। अन् — प्राणिति। जक्ष् — जक्षिति। पञ्चभ्य इत्येव — जागर्ति। सार्वधातुक इति किम्? स्वप्ता। वलादेरित्येव — रुदन्ति॥

Siddhanta Kaumudi

रुद् स्वप्रन श्वस् अन् जक्ष एभ्यो वलादेः सार्वधातुकस्येट् स्यात् । रोदिति । रुदितः । हौ परत्वादिटि धित्वं न । रुदिहि ॥

Balamanorama

रुदादिभ्यः सार्वधतुके - रुदादिभ्यः । इड्वलादेरित्यनुवृतिंत मत्वाह — वलादेरिति । रुदित इति । ङित्त्वान्न गुणः । रुदन्ति । रोदिषि रुदिथः रुदिथ । रोदिमि रुदिवः रुदिमः । रुरोद रुरुदतुः । [रुरुदुः] रुरोदिथ । [रुरुदथुः । रुरुद । रुरोद] ।रुरुदिव रुरुदिम । रोदिता । रोदिष्यति । रोदितु — रुदितात् रुदिताम् रुदन्तु । रुदि हि इति स्थिते ‘हुझल्भ्यः’ इति धित्वमाशङ्क्य आह — हौ परत्वादिति । रुदिहीति । हेरपित्त्वेन ङित्त्वान्न लघूपधगुण इति भावः । रुदितात् रुदितम् रुदित । रोदानि रोदाव रोदाम ।

Tattvabodhini

रुदादिभ्यः सार्वधतुके - वलादेः सार्वधातुकस्येति । वलादेः किम् । रुदन्ति । सार्वधातुके किम् । स्वप्ता । धित्वं नेति । सकृद्गताविति न्यायात्, हेर्धिरिति स्थान्यादेशयोरिकार उच्चारणार्थ इत्यादिप्रागुक्तसमाधानाद्वेति भावः ।

Padamanjari

रुदिस्वप्श्वसनिजक्षिरदादिषु रुदादयः । उभयनिर्देशे पञ्चमीनिर्द्देशो बलीयान् इति रुदादिभ्यः इति पञ्चम्या सार्वधातुके इति सप्तम्याः षष्ठी प्रकल्प्यते । सप्तमीनिर्देशस्तूतरत्रोपयोगं यास्यति । प्राणितीति । अनितेः इति णत्वम् । स्वप्तेति । अन्येभ्यस्तु परस्यार्धधातुकस्यैटा भवितव्यम् ॥

Nyaas

रुदिर्? अश्रुविमोचने (धातुपाठः-1067), ञि ष्वप्? शये (धातुपाठः-1068), आस प्राणने (धातुपाठः-1069), अन च (धातुपाठः-1070), जक्ष अदने`[`भक्षहसनयोः - धातुपाठः-] (धातुपाठः-1071)। रुदादयोऽदादिषु पठन्ते। `उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् (शाक।प।97) इति रुदादिभ्यः इत्येषा पञ्चमी सार्वधातुके इत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयति। सप्तमीनिर्देशस्तदूत्तरार्थः। तेन सार्वधातुकस्य वलादेरिङ्? विज्ञायत इत्यत आह - रुदादिभ्यः पञ्चभ्यः इत्यादि। प्राणिति इति। अनितेः (8.4.19) इति णत्वम्। स्वप्ता इति। सार्वधातुकग्रहणादार्धधातुकस्येण्न भवति। सामान्यलक्षण इण्न भवत्येव; एकाचः (7.2.10) इति प्रतिषेधात्। अन्येभ्यस्तु रुदादिभ्य उदात्तत्वादार्थधातुकस्यापीटा भवितव्यमेवेति स्वपेरेव प्रत्युदाहरणम्॥

Prakriyasarvasvam

रुदिस्वपिष्वस्यतिजक्षिभ्यः पञ्चभ्यः परस्य वलादेः सार्वधातुकस्येट् स्यात् रादिति । रुदितः । रुदन्ति । रोदिषि । रुदिथः । रोदिमि । रुदिवः । भावे रुद्यते लिङ् रुद्यात् । लोट् रोदितु, रुदितात् । रुदिताम् रुदिहि । रोदानि । रोदाव लङि—

Sutra Prayogas

  • रोदितीव (शिशुपालवधम्): रुदादिभ्यः सार्वधातुके इतीडागमः।

  • अरुतां (भट्टिकाव्यम्): रुदादिभ्यः सार्वधातुके इतीट्।

  • समाश्वसिमि (भट्टिकाव्यम्): रुदादिभ्यः सार्वधातुके इतीट्।