72076: रुदादिभ्यः सार्वधातुके ============================= **Padacheda:** रुदादिभ्यः | S | 5 | 3 | सार्वधातुके | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A सार्वधातुक affix beginning with a consonant other than य gets the augment इट् after the root रुद् - रुधादिगणः (7th Conjugation) and the four that follow it. Vasu English Translation ------------------------ A सार्वधातुक affix beginning with a consonant other than य gets the augment इट् after the root रुद् - रुधादिगणः (7th Conjugation) and the four that follow it. Thus रोदिति, स्वपिति, श्वसिति, प्राणिति, जक्षिति ॥ But जागर्ति which is beyond the five, and स्वप्ता before *ardhadhatuka* affixes, and रुदन्ति before a vowel beginning affix. Kashika ------- रुदादिभ्यः पञ्चभ्य उत्तरस्य वलादेः सार्वधातुकस्येडागमो भवति। रुद् — रोदिति। स्वप् — स्वपिति। श्वस् — श्वसिति। अन् — प्राणिति। जक्ष् — जक्षिति। पञ्चभ्य इत्येव — जागर्ति। सार्वधातुक इति किम्? स्वप्ता। वलादेरित्येव — रुदन्ति॥ Siddhanta Kaumudi ----------------- रुद् स्वप्रन श्वस् अन् जक्ष एभ्यो वलादेः सार्वधातुकस्येट् स्यात् । रोदिति । रुदितः । हौ परत्वादिटि धित्वं न । रुदिहि ॥ Balamanorama ------------ **रुदादिभ्यः सार्वधतुके** - रुदादिभ्यः । इड्वलादेरित्यनुवृतिंत मत्वाह — वलादेरिति । रुदित इति । ङित्त्वान्न गुणः । रुदन्ति । रोदिषि रुदिथः रुदिथ । रोदिमि रुदिवः रुदिमः । रुरोद रुरुदतुः । [रुरुदुः] रुरोदिथ । [रुरुदथुः । रुरुद । रुरोद] ।रुरुदिव रुरुदिम । रोदिता । रोदिष्यति । रोदितु — रुदितात् रुदिताम् रुदन्तु । रुदि हि इति स्थिते 'हुझल्भ्यः' इति धित्वमाशङ्क्य आह — हौ परत्वादिति । रुदिहीति । हेरपित्त्वेन ङित्त्वान्न लघूपधगुण इति भावः । रुदितात् रुदितम् रुदित । रोदानि रोदाव रोदाम । Tattvabodhini ------------- **रुदादिभ्यः सार्वधतुके** - वलादेः सार्वधातुकस्येति । वलादेः किम् । रुदन्ति । सार्वधातुके किम् । स्वप्ता । धित्वं नेति । सकृद्गताविति न्यायात्, हेर्धिरिति स्थान्यादेशयोरिकार उच्चारणार्थ इत्यादिप्रागुक्तसमाधानाद्वेति भावः । Padamanjari ----------- रुदिस्वप्श्वसनिजक्षिरदादिषु रुदादयः । उभयनिर्देशे पञ्चमीनिर्द्देशो बलीयान् इति रुदादिभ्यः इति पञ्चम्या सार्वधातुके इति सप्तम्याः षष्ठी प्रकल्प्यते । सप्तमीनिर्देशस्तूतरत्रोपयोगं यास्यति । प्राणितीति । अनितेः इति णत्वम् । स्वप्तेति । अन्येभ्यस्तु परस्यार्धधातुकस्यैटा भवितव्यम् ॥ Nyaas ----- `रुदिर्? अश्रुविमोचने` (धातुपाठः-1067), `ञि ष्वप्? शये` (धातुपाठः-1068), `आस प्राणने` (धातुपाठः-1069), `अन च` (धातुपाठः-1070), `जक्ष अदने`[`भक्षहसनयोः - धातुपाठः-] (धातुपाठः-1071)। रुदादयोऽदादिषु पठन्ते। `उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्` (शाक।प।97) इति `रुदादिभ्यः` इत्येषा पञ्चमी `सार्वधातुके` इत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयति। सप्तमीनिर्देशस्तदूत्तरार्थः। तेन सार्वधातुकस्य वलादेरिङ्? विज्ञायत इत्यत आह - `रुदादिभ्यः पञ्चभ्यः` इत्यादि। `प्राणिति` इति। `अनितेः` (8.4.19) इति णत्वम्। `स्वप्ता` इति। सार्वधातुकग्रहणादार्धधातुकस्येण्न भवति। सामान्यलक्षण इण्न भवत्येव; `एकाचः` (7.2.10) इति प्रतिषेधात्। अन्येभ्यस्तु रुदादिभ्य उदात्तत्वादार्थधातुकस्यापीटा भवितव्यमेवेति स्वपेरेव प्रत्युदाहरणम्॥ Prakriyasarvasvam ----------------- रुदिस्वपिष्वस्यतिजक्षिभ्यः पञ्चभ्यः परस्य वलादेः सार्वधातुकस्येट् स्यात् रादिति । रुदितः । रुदन्ति । रोदिषि । रुदिथः । रोदिमि । रुदिवः । भावे रुद्यते लिङ् रुद्यात् । लोट् रोदितु, रुदितात् । रुदिताम् रुदिहि । रोदानि । रोदाव लङि— Sutra Prayogas -------------- * **रोदितीव** (शिशुपालवधम्): `रुदादिभ्यः सार्वधातुके` इतीडागमः। * **अरुतां** (भट्टिकाव्यम्): `रुदादिभ्यः सार्वधातुके` इतीट्। * **समाश्वसिमि** (भट्टिकाव्यम्): `रुदादिभ्यः सार्वधातुके` इतीट्।