72072: स्तुसुधूञ्भ्यः परस्मैपदेषु

Padacheda: स्तुसुधूञ्भ्यः | S | 5 | 3 |

परस्मैपदेषु | S | 7 | 3 |

Sutrartha


Vasu English Summary

The सिच् of the Aorist in परस्मैपद takes the augment इट् after the roots 1. स्तु 2. सु and 3. धूञ्।

Vasu English Translation

The सिच् of the Aorist in परस्मैपद takes the augment इट् after the roots 1. स्तु 2. सु and 3. धूञ्। As आस्तावीत्, असावीत्, अधावीत् ॥ But अस्तोष्ट, असोष्ट, आधोष्ट or अधविष्ट in Atmanepada. Exception to (7.2.10) and (7.2.44).

Kashika

स्तु सु धूञ् इत्येतेभ्यः सिचि परस्मैपदे परत इडागमो भवति। अस्तावीत्। असावीत्। अधावीत्। परस्मैपदेष्विति किम्? अस्तोष्ट। असोष्ट। अधोष्ट, अधविष्ट॥

Siddhanta Kaumudi

एभ्यः सिच इट् स्यात्परस्मैपदैषु । असावीत् । पूर्वोत्तराभ्यां ञिभ्द्यां साहचर्यात्सुनोतेरेव ग्रहणममिति पक्षे असौषीत् ।{$ {!942 श्रु!} श्रवणे$} ॥

Laghu Siddhanta Kaumudi

एभ्यस्सिच इट् स्यात्परस्मैपदेषु। असावीत्, असोष्ट॥ {$ {! 2 चिञ् !} चयने $} (धातुपाठे (05.0005)) ॥ चिनोति, चिनुते॥

Balamanorama

स्तुसुधूञ्भ्यः परस्मैपदेषु - लुङि असौषीदिति प्राप्ते — स्तुसुधूञ्भ्यः ।इडत्त्यर्ती॑त्यत इडित्यनुवर्तते ।अञ्जेः सिची॑त्यतः सिचीत्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — एभ्यः सिचेति । असावीदिति । सिचि वृद्दौइट ईटी॑ति सिज्लोपः । पूर्वोत्तराभ्यामिति । स्तुञ्धूञ्भ्यामिभ्यर्थः । सुनोतिरिति । ‘षुञ् अभिषवे’ इति श्नुविकरणस्येत्यर्थः । असौषीदिति । इडभावेसिचि वृद्धि॑रिति भावः । असोष्यत् । श्रु श्रवणे इति । उदन्तोऽयमनिट् ।

Tattvabodhini

स्तुसुधूञ्भ्यः परस्मैपदेषु - स्तुसुधूञ्भ्यः । परस्मैपदेषु किम् । अतोष्ट । अधोष्ट ।

Nyaas

ष्टुञ्? स्तुतौ (धातुपाठः-1043), षुञ्? अभिषवे (धातुपाठः-1247) - अनयोरनुदात्तत्वात्? प्रतिषेधे प्राप्ते, धूञस्तु स्वरत्यादिसुत्रेण (7.2.44) विकल्पे प्राप्ते सतीदमारभ्यते॥

Prakriyasarvasvam

एभ्यः परस्मैपदेषु सिच इट् स्यात् । ‘सिचि वृद्धिः—’ । इट ईटि । अस्तावीत्, अस्ताविष्टाम् । एवं षु प्रसवैश्वर्ययोः । असावीत् । अधावीत् । तङि तु इडभावात् अस्तोट । अस्तोषाताम् । अस्तोढ्वम् । अस्तोषि । अस्तोष्वहि । लिटि तु स्ताव । हलादिशेषे प्राप्ते,

Sutra Prayogas

  • प्रस्तावीर् (भट्टिकाव्यम्): स्तु-सु-धूभ्यः इतीद ।