72071: अञ्जेः सिचि¶
Padacheda: अञ्जेः | S | 5 | 1 |
सिचि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The स् of the s-Aorist always takes the इट् augment after अञ्ज् - रुधादिगणः (7th Conjugation).
Vasu English Translation¶
The स् of the s-Aorist always takes the इट् augment after अञ्ज् - रुधादिगणः (7th Conjugation). As आञ्जीत्, आञ्जिष्टाम्, आञ्जिषुः ॥ But अङ्क्ता or अञ्जिता in tenses other than Aorist. The root having an indicatory long ऊ optionally takes इट् (7.2.44)
Kashika¶
अञ्जेः सिचीडागमो भवति। आञ्जीत्, आञ्जिष्टाम्, आञ्जिषुः। सिचीति किम्? अङ्क्ता, अञ्जिता। ऊदित्त्वाद् विभाषा (७.२.४४) भवति॥
Siddhanta Kaumudi¶
अञ्जेः सिचो नित्यमिट् स्यात् । आञ्जीत् ।{$ {!1459 तञ्चू!} सङ्कोचने$} । तनक्ति । तङ्क्ता । तञ्चिता ।{$ {!1460 ओविजी!} भयचलनयोः$} । विनक्ति । विङ्क्तः । विज इट् (SK2536) इति ङित्त्वम् । विविजिथ । विजिता । अविनक् । अविजीत् ।{$ {!1461 वृजी!} वर्जने$} । वृणक्ति । वर्जिता ।{$ {!1462 पृची!} संपर्के$} । पृणक्ति । पपर्च ॥
Laghu Siddhanta Kaumudi¶
अञ्जेः सिचो नित्यमिट् स्यात्। आञ्जीत्॥ {$ {! 15 तञ्चू !} संकोचने $} (07.0022) ॥ तनक्ति। तञ्चिता, तङ्क्ता। ॥ {$ {! 16 ओविजी !} भयचलनयोः $} (07.0023) ॥ विनक्ति॥ विङ्क्तः। विज इडिति ङित्त्वम्। विविजिथ। विजिता। अविनक्। अविजीत्॥ {$ {! 17 शिषॢ !} विशेषणे $} (07.0014) ॥ शिनष्टि। शिंष्टः। शिंषन्ति। शिनक्षि। शिशेष। शिशेषिथ। शेष्टा। शेक्ष्यति। हेर्धिः। शिण्ड्ढि। शिनषाणि। अशिनट्। शिंष्यात्। शिष्यात्। अशिषत्॥ एवं {$ {! 18 पिषॢ !} संचूर्णने $} (07.0015) ॥ {$ {! 19 भञ्जो !} आमर्दने $} (07.0016) ॥ श्नान्नलोपः। भनक्ति। बभञ्जिथ, बभङ्क्थ। भङ्क्ता। भङ्ग्धि। अभाङ्क्षीत्॥ {$ {! 20 भुज !} पालनाभ्यवहारयोः $} (07.0017) ॥ भुनक्ति। भोक्ता। भोक्ष्यति। अभुनक्॥
Balamanorama¶
अञ्जेः सिचि - अञ्जेः सिचि । ‘इडत्त्यर्ती’ त्यत इडित्यनुवर्तते । ऊदित्तवादेव सिद्धे नित्यार्थमिदम् । तदाह — अञ्जेरित्यादिना । तञ्चू सङ्कोचने । नोपधः कृतपरसवर्णनिर्देशः । अञ्जूवद्रूपाणि यथायोग्यमूह्रानि । ओ विजीति । ओकार इत् । अनिट्सु इरितो ग्रहणादयं सेट् । रुधादयः ॥ इति बालमनोरमायाम् रुधादयः॥अथ समासान्तप्रकरणम् । — — — — — — — -
Tattvabodhini¶
अञ्जेः सिचि - अञ्जेः सिचि । नित्यमिट् स्यादिति । विभाषाग्रहमं नानुवर्तत इति भावः । सिचि किम् । अङ्क्ता । पृची । ईदित्त्वान्निष्ठायां नेट् । पृक्तःअपृक्त एका॑लित्यत्र नञ्पूर्वः ।इति तत्त्वबोधिन्याम् रुधादयः ।
Nyaas¶
अन्जू व्यक्तिम्रक्षणकान्तिगतिषु [व्यक्तिमर्षणकान्तिगतिषु - धातुपाठः-] (धातुपाठः-1458)। ऊदित्त्वादत्र स्वरत्यादिसूत्रेण (7.2.44) विकल्पे प्राप्ते नित्यार्थ वचनम्। `आञ्जीत् इति। इतश्च इतीकारलोपः, अस्तिसिचोऽपृक्ते (7.3.96) इतीट्? इट ईटि (8.2.28) इति सिचो लोपः, आडजादीनाम् (6.4.72) इत्याट्? आटश्च (6.1.87) इति वृद्धिः। आञ्जिष्टाम् इति। तस्थस्थमिपाम् इति झेर्जुस्॥
Prakriyasarvasvam¶
अञ्जेः सिचि नित्यमिट् स्यात् । आञ्जीत् । आञ्जिष्टाम् । आञ्जिषुः । कर्मणि आञ्जि । आञ्जिषाताम् । आनञ्ज । संयोगान्तत्वादकित्त्वम् । आनञ्जतुः । ऊदित्त्वाद्वेट् । आनञ्जिथ, आनङ्क्थ । आनञ्जिव, आनञ्ज्व । अज्यात् । अञ्जिता, अङ्क्ता । अञ्जिष्यति, अङ्क्ष्यति । कर्मणि आनञ्जे । आनञ्जिषे, आनङ्क्षे । आनञ्जिध्वे, आनङ्ग्ध्वे । अञ्जिषीष्ट, अङ्क्षीष्ट । एवम्, भञ्जो आमर्दने । भनक्तीत्यादि । अभाङ्क्षीत् । अभाङ्क्ताम् । अभाङ्क्षम् । अभाङ्क्ष्व । कर्मणि चिणि—