72072: स्तुसुधूञ्भ्यः परस्मैपदेषु ================================= **Padacheda:** स्तुसुधूञ्भ्यः | S | 5 | 3 | परस्मैपदेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The सिच् of the Aorist in परस्मैपद takes the augment इट् after the roots 1. स्तु 2. सु and 3. धूञ्। Vasu English Translation ------------------------ The सिच् of the Aorist in परस्मैपद takes the augment इट् after the roots 1. स्तु 2. सु and 3. धूञ्। As आस्तावीत्, असावीत्, अधावीत् ॥ But अस्तोष्ट, असोष्ट, आधोष्ट or अधविष्ट in *Atmanepada*. Exception to (7.2.10) and (7.2.44). Kashika ------- स्तु सु धूञ् इत्येतेभ्यः सिचि परस्मैपदे परत इडागमो भवति। अस्तावीत्। असावीत्। अधावीत्। परस्मैपदेष्विति किम्? अस्तोष्ट। असोष्ट। अधोष्ट, अधविष्ट॥ Siddhanta Kaumudi ----------------- एभ्यः सिच इट् स्यात्परस्मैपदैषु । असावीत् । पूर्वोत्तराभ्यां ञिभ्द्यां साहचर्यात्सुनोतेरेव ग्रहणममिति पक्षे असौषीत् ।{$ {!942 श्रु!} श्रवणे$} ॥ Laghu Siddhanta Kaumudi ----------------------- एभ्यस्सिच इट् स्यात्परस्मैपदेषु। असावीत्, असोष्ट॥ {$ {! 2 चिञ् !} चयने $} (धातुपाठे (05.0005)) ॥ चिनोति, चिनुते॥ Balamanorama ------------ **स्तुसुधूञ्भ्यः परस्मैपदेषु** - लुङि असौषीदिति प्राप्ते — स्तुसुधूञ्भ्यः ।इडत्त्यर्ती॑त्यत इडित्यनुवर्तते ।अञ्जेः सिची॑त्यतः सिचीत्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — एभ्यः सिचेति । असावीदिति । सिचि वृद्दौइट ईटी॑ति सिज्लोपः । पूर्वोत्तराभ्यामिति । स्तुञ्धूञ्भ्यामिभ्यर्थः । सुनोतिरिति । 'षुञ् अभिषवे' इति श्नुविकरणस्येत्यर्थः । असौषीदिति । इडभावेसिचि वृद्धि॑रिति भावः । असोष्यत् । श्रु श्रवणे इति । उदन्तोऽयमनिट् । Tattvabodhini ------------- **स्तुसुधूञ्भ्यः परस्मैपदेषु** - स्तुसुधूञ्भ्यः । परस्मैपदेषु किम् । अतोष्ट । अधोष्ट । Nyaas ----- `ष्टुञ्? स्तुतौ` (धातुपाठः-1043), `षुञ्? अभिषवे` (धातुपाठः-1247) - अनयोरनुदात्तत्वात्? प्रतिषेधे प्राप्ते, धूञस्तु स्वरत्यादिसुत्रेण (7.2.44) विकल्पे प्राप्ते सतीदमारभ्यते॥ Prakriyasarvasvam ----------------- एभ्यः परस्मैपदेषु सिच इट् स्यात् । 'सिचि वृद्धिः—' । इट ईटि । अस्तावीत्, अस्ताविष्टाम् । एवं षु प्रसवैश्वर्ययोः । असावीत् । अधावीत् । तङि तु इडभावात् अस्तोट । अस्तोषाताम् । अस्तोढ्वम् । अस्तोषि । अस्तोष्वहि । लिटि तु स्ताव । हलादिशेषे प्राप्ते, Sutra Prayogas -------------- * **प्रस्तावीर्** (भट्टिकाव्यम्): `स्तु-सु-धूभ्यः` इतीद ।