72069: सनिंससनिवांसम्¶
Padacheda: सनिंससनिवांसम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The form सनिवांसम् with सनि is irregularly formed.
Vasu English Translation¶
The form सनिवांसम् with सनि is irregularly formed. This is derived from सनोति or सनति root. As अञ्जित्वाग्ने सनिं ससनिवांसम् ॥ The augment इट् is added, there is no change of अ of सन् to ए, nor the elision of the reduplicate before वस् ॥ The other form is संनिवांसम् when not preceded by सनिम् ॥ This form ससनिवांसम् is Vedic, in secular literature we have सैनिवांसम् ॥
Kashika¶
सनोतेः सनतेर्वा धातोः सनिं ससनिवांसमिति निपात्यते। आजिं त्वाग्ने….. सनिं ससनिवांसम् (मा०श्रौ० १.३.४.२)। इडागम एत्वाभ्यासलोपाभावश्च निपात्यते। सनिम्पूर्वादन्यत्र सेनिवांसमित्येव भवति। छन्दसीदं निपातनं विज्ञायते। भाषायां सेनिवांसमिति भवति॥
Siddhanta Kaumudi¶
सनिमित्येतत्पूर्वात्सनतेः सनोतेर्वा क्वसोरिट् एत्वाभ्यासलोपाभावश्च निपात्यते ॥ (अञ्जित्वाग्ने सनिंससनिवांसम्) ।<!पावकादीनां छन्दसि प्रत्ययस्थात्कादित्वं नेति वाच्यम् !> (वार्तिकम्) ॥ हिरण्यवर्णाः शुचयः पावकाः (हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒काः ) ॥
Padamanjari¶
क्वसोश्छान्दसत्वात्, आनुपूर्व्याश्च विवक्षितत्वाच्छन्दस्येवैतन्निपातनम् ॥
Nyaas¶
सनोतेः इति। षणु दाने (धातुपाठः-1464) इत्यस्य सनिंपूर्वस्य द्वितीयान्तस्योच्चारणेन नियता मानुपूर्वीमुपलक्षयति। यत्रैषानुपूर्वी नियता तत्रैव यथा स्यात्। इयं चानुपूर्वीं छन्दस्यैव नियतेति तद्विषयमेवैतन्निपानं विज्ञायते। अत एव वृत्तिकृता छान्दसः प्रयोगो दर्शितः। सेनिवांसम् इति। पूर्ववदेत्त्वाभ्याम्यासलोपौ। वस्वेका जाद्धसाम् (7.2.67) इतीट्॥
Prakriyasarvasvam¶
सनिमित्येतत्पूर्व सनेः क्कस्वन्तममि ससनिवांसमिति स्यात् । अश्वित्वाग्ने सनिससनिवांसम् अन्यत्र सेनिवांसम् । ॥ “ईडजनोर्ध्वे च” (७-१-७८) ॥ इति जनेः² सेध्वे शब्दस्योरिट् । जनिषे । जनिध्वे । छान्दसः श्यनो लुक् । सौभगमित्यत्र “हृद्भग- (७-३-१९) इत्युभयपदवृद्धिनेंष्यते । ‘प्रत्ययस्थात्कात्-’ (७-३-४४) इत्यपि प्राप्तमित्त्वं पावकादीनां छन्दसि नेति वाच्यम् । (वा. ७-३-४५) ‘पावका नः सरस्वती । ऋक्षावा इयमलोम- कासीत् ।