72044: स्वरतिसूतिसूयतिधूञूदितो वा ================================= **Padacheda:** स्वरतिसूतिसूयतिधूञूदितः | S | 5 | 1 | वा | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- A वलादि आर्धधातुक affix optionally takes इट् after स्वृ , after the two roots सू (सूति and सूयति) after धूञ् and after a root which has an indicatory long ऊ। Vasu English Translation ------------------------ A वलादि आर्धधातुक affix optionally takes इट् after स्वृ , after the two roots सू (सूति and सूयति) after धूञ् and after a root which has an indicatory long ऊ। As स्वरिता or स्वर्त्ता ॥ प्रसोता, प्रसदिता ॥ सूयति, सोता, सविता ॥ धूञ्, धोता, धविता ॥ ऊदिद्भ्यः खल्वपि । गाहू, विगाढा, विगाहिता; गुपू, गोप्ता, गोपिता । वेति वर्त्तमाने पुनर्वाग्रहणं लिङसिचोर्निवृत्त्यर्थम् । सूतिसूयत्योर्विकरणनिर्देशः षू प्रेरण इत्यस्य निवृत्त्यर्थः । धूञिति सानुबन्धकस्य निर्द्देशो धू विधूनम् इत्यस्य निवृत्त्यर्थः । सविता धवितेत्येव नित्यमेतयोर्भवति । स्वरतेतस्माद्विकल्पादृद्धनोः स्य इत्येतद्भवति विप्रतिषेधम् । स्वरिष्यति । किति तु प्रत्यये श्रुषकः कितीति नित्यः प्रतिषेधो भवति पूर्वप्रतिषेधेन ॥ स्वृत्वा, सूत्वा, धूत्वा ॥ Though the *anuvritti* of वा was current, the second employment of वा is to stop the *anuvritti* of the Benedictive and the S-Aorist. The roots सू of *Adadi* (21) and *Divadi* (24) are to be taken, as the special forms सूति and सूयति indicate, and not the सू of the *Tudadi* (115) class. They धू is exhibited with the *anubandha* ञ्, in order to exclude धू विधूनने of *Tudadi* (105). In the case of these latter the इट् augment is invariable, as सविता and धविता ॥ The root स्वृ takes invariably इट् in the Future, by virtue of the subsequent superseding rule (7.2.70), as स्वरिष्यति ॥ And before कित् affixes, the prior rule (7.2.11), invariably debars इट्, as स्वृत्वा, सूत्वा, धूत्वा ॥ Bhashya ------- स्वरतिसूतिसूयतिधूञ्ञूदितो वा अथ वेति वर्तमाने पुनर्वावचनं किमर्थम् ? ॥ पुवर्वावचनं लिङि्सचोर्निवृत्त्यर्थम् ॥ पुनर्वावचनं क्रियते ॥ (किमर्थम्(5) ?) ॥ लिङि्सचोर्निवृत्त्यर्थम् ? ॥ (लिङि्सचोर्निवृत्तिर्यथा स्यात्(5)) ॥ अथ किमर्थं सूतिसूयत्योः पृथग्ग्रहणं क्रियते ? ॥ सुवतेर्मा भूत् ॥ अथ किमर्थं धूञ्ञः सानुबन्धकस्य ग्रहणं क्रियते ? ॥ धुवतेर्मा भूदिति ॥ किं पुनरियं प्राप्ते विभाषा, आहो स्विदप्राप्ते ? ॥ कथं च प्राप्ते कथं चाऽप्राप्ते(1) ? ॥ यदि स्वरतिरुदात्तस्ततः प्राप्ते, अथाऽनुदात्तस्ततोऽप्राप्ते । ॥ स्वरतिरुदात्तः ॥ स्वरतिरुदात्तः पठ्यते ॥ किमर्थं तर्हि वावचनम् ? ॥ वावचनं निवृत्त्यर्थम् ॥ वावचनं क्रियते ॥ (किं प्रयोजनम् ?) ॥ निवृत्त्यर्थम् ॥ अनुदात्ते हि किति वाप्रसङ्गः प्रतिषिध्य पुनर्विधानात् ॥ अनुदात्ते हि सति किति विभाषा प्रसज्येत । स्वृत्वा ॥ किं कारणम् ? ॥ प्रतिषिध्य पुनर्विधानात् । प्रतिषिध्य किलाऽयं पुनर्विधीयते । स यथैवैकाज्लक्षणं प्रतिषेधं बाधते एवं श्र्युकः कितीत्येतमपि बाधेत ॥ यदि तर्ह्युदात्तः स्वरतिः, पठिष्यति(1) विप्रतिषेधं - स्वरतेर्वेट्त्वादृतः स्ये विप्रतिषेधेनेति स(2) विप्रतिषेधो नोपपद्यते ॥ किं कारणम् ॥ ? स विधिरयं प्रतिषेधो, विधिप्रतिषेधयोश्चाऽयुक्तो विप्रतिषेधः ॥ सोऽपि विधिर्न मृदूनामिव कार्पासानां कृतः, प्रतिषेधविषय आरभ्यते, स यथैवैकाज्लक्षणं प्रतिषेधं बाधते एवमिममपि बाधिष्यते ॥ अथ वा येन नाप्राप्ते तस्य बाधनं भवति । न चाऽप्राप्तेवलादिक्षणे इयं विभाषा आरभ्यते, स्यलक्षणे पुनः प्राप्ते चाऽप्राप्ते च ॥ अथ वा-मध्येपवादाः पूर्वान्विधीन्बाधन्ते इत्येवमियं विभाषा वलादिलक्षणमिटं बाधिष्यते, स्यलक्षणं न बाधिष्यते ॥ अथ वा पुनरस्त्वनुदात्तः ॥ ननु चोक्तम्- अनुदात्ते हि किति वा प्रसङ्गः प्रतिषिध्य पुनर्विधानादिति ॥ नैषः दोषः । येन नाप्राप्ते तस्य बाधनं भवति, न चाऽप्राप्ते एकाज्लक्षणे प्रतिषेधे इयं विभाषा आरभ्यते । श्र्युकः कितीत्येतस्मिन्पुनः प्राप्ते चाऽप्राप्ते च ॥ अथ वा श्र्युकः कितीत्येष(1) योग उदात्तार्थश्च, येभ्यश्चाऽनुदात्तेभ्य इट्प्राप्यते तद्वाधनार्थश्च ॥ अथ वा(2) श्र्युकः कितीतीहाऽनुवर्तिष्यते ॥ अथ वाऽऽचार्यप्रवृत्तिर्ज्ञापयति - नेयं विभाषा उग्लक्षणस्य(2) प्रतिषेधस्य विषये भवतीति - यदयं सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनामिति स्वृग्रहणं करोति ॥ (स्वरतिसूतिसूयति) ॥ Kashika ------- स्वरति सूति सूयति धूञ् इत्येतेभ्य ऊदिद्भ्यश्चोत्तरस्य वलादेरार्धधातुकस्य वेडागमो भवति। स्वर्ता, स्वरिता। सूति। प्रसोता, प्रसविता। सूयति — सोता, सविता। धूञ् — धोता, धविता। ऊदिद्भ्यः खल्वपि — गाहू — विगाढा, विगाहिता। गुपू — गोप्ता, गोपिता। वेति वर्तमाने पुनर्वाग्रहणं लिङ्सिचोर्निवृत्त्यर्थम्। सूतिसूयत्योर्विकरणनिर्देशः **षू प्रेरणे** इत्यस्य निवृत्त्यर्थः। धूञिति सानुबन्धकस्य निर्देशो **धू विधूनने** इत्यस्य निवृत्त्यर्थः। सविता, धुवितेत्येव नित्यमेतयोर्भवति। स्वरतेरेतस्माद् विकल्पाद् **ऋद्धनोः स्ये** (७.२.७०) इत्येद् भवति विप्रतिषेधेन। स्वरिष्यति। किति तु प्रत्यये **श्र्युकः किति** (७.२.११) इति नित्यः प्रतिषेधो भवति पूर्वविप्रतिषेधेन। स्वृत्वा। सूत्वा। धूत्वा॥ Siddhanta Kaumudi ----------------- स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड्वा स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड् वा स्यात्। जुगोपिथ, जुगोप्थ। गोपायिता, गोपिता, गोप्ता। गोपायिष्यति, गोपिष्यति, गोप्स्यति। गोपायतु। अगोपायत्। गोपायेत्। गोपाय्यात्, गुप्यात्। अगोपायीत्॥ Balamanorama ------------ **स्वरतिसूतिसूयतिधूञूदितो वा** - तत्र वलादावार्धधातुके नित्यमिटि प्राप्ते — स्वरति ।आर्धधातुकस्येड्वलादे॑रित्यनुवर्तते । स्वरति सूति सूयति धूञ् ऊदित् — एषां समाहारद्वन्द्वात्पञ्चम्येकवचनं । फलितमाह — स्वरत्यादेरिति । स्वरतीति स्वृधातोः शपा निर्देशः । सूतीति सूयतीति च लुग्विकरणस्य श्यन्विकरणस्य च सूधातोर्निर्देशः । एवंच षू प्रेरण इति तौदादिकस्य न ग्रहणम् । 'धूञ् कम्पने' स्वादिः क्र्यादिश्च । ञकारानुबन्धनिर्देशात् धू विधूनन इत्यस्य न ग्रहणम् ।इट्सनि वे॑त्यतो वेत्यनुव्रतमाने वाग्रहणंलिङ्सिचोरात्मनेपदेष्वि॑ति सूत्रयोर्विकल्पनिवृत्त्यर्थमिति भाष्यम् । एवं च थलि इडाभावपक्षे द्वित्वादौ सिसेध् — थ इति स्थिते । Tattvabodhini ------------- **स्वरतिसूतिसूयतिधूञूदितो वा** - स्वरतिसूति ।स्वृ शब्दोपतापयोःर॑ भ्वादिः । ननुस्वरतिसूधूञूदितो वे॑ति सूत्र्यतां,किमनेन सूतिसूयत्योः पृथग्ग्रहणेन । मैवम् । तथाहि सति निरनुबन्धकपरिभाषयाषू प्रेरणे॑ इति तौदादिकस्यैव ग्रहणं स्यान्नत्वादादिकदैवादिकयोरेतयोः । न चैवं षूङिति पठतामिति वाच्यं,लुग्विकरणाऽलुग्विकरणयो॑रिति परिभाषया अलुग्विकरणस्य सूयतेरेव ग्रहणप्रसङ्गात् । अस्याश्च परिभाषायाः सूतिसूयत्योः पृथग्ग्रहणेव ज्ञापकमित्याहुः ।धूञ् कम्पने॑स्वादिः क्र्यादिश्च । सानुबन्धनिर्देशो [अन्यथा लिङ्गिज्विशिष्टं वापदमत्रापि सिङ्सचोरेव विकल्पं कुर्यात् । पुनर्वाग्रहणे तु आर्धधातुकमात्रे विकल्पः सिद्ध इति भावः] । Padamanjari ----------- अत्र स्वरतेरनुदातत्वादप्राप्ते, तैतरेषां तु प्राप्ते विभाषा । वेति वतमान इति । इट् सनि वा इत्यतः । लिङसिचोर्निवृत्यर्थमिति । अन्यथा वाग्रहतणसम्बद्धयोस्तयोरप्यनुवृत्तिः स्यात् । पूप्रेरण इत्यस्य निवृत्यर्थ इति । अन्यथा निरनुबन्धकत्वातस्यैव ग्रहककणं स्यात् । एवं तर्हि सूङिति वक्तव्यम् एवमपि लुग्विकरणालुग्विकरकणयोरलुग्विकरणस्यैव ग्रहकणम् इति सूयतेरेव ग्रहणं स्यात्, न सूतेः । तस्याः परिभाषाया अस्तित्वेऽयमेव विकरणनिर्द्देशो ज्ञापकः । धूविधूनन इत्यस्य निवृत्यर्थ इति । अन्यथा पूर्ववतस्यैव ग्रहणं स्यात् । धुवितेति । कुटादित्वान्डित्वम् । स्वरतेरिति । अस्य विकल्पस्यावकाशः - स्वर्ता, स्वरिता, ऋद्धनोः स्ये इत्यस्यावकाशः - करिष्यति, स्वरतेः स्ये उभयप्रसङ्गे विप्रतिषेधः । किति तु प्रत्यय र्श्युक इति । ननु चायं विकल्पो यथा एकाज्लक्षणं प्रतिषेधं बाधते तृजादौ, तथा किल्लक्षणमपि प्रतिषेधं बाधेत न बाधेत, कथम् येन नाप्राप्ते तस्य बाधनं भवति । तस्मादपबादता तावदेकाज्लक्षणमेव प्रतिषेधं प्रत्ययस्य भवति, कित्युभयप्रसङ्गे पुरस्तात्प्रतिषेधकाण्डकरणात्प्रतिषेध एव भवति । लिङ्गाच्च, यदयम् स्वृयूर्णुभरज्ञपिसनाम् इति विकल्पं शास्ति, अन्यथा अनेनैव सत्यपि विकल्पस्य सिद्धत्वात्पुनस्तं न विदध्यात् । वृतौ तु विप्रतिषेधशब्देनापि पुरस्तात्प्रतिषेधकाण्डकरणमेव विवक्षितम्, समानफलत्वात् ॥ Nyaas ----- `स्वृ शब्दोपतापयोः` (धातुपाठः-932), `षूङ् प्राणिगर्भविमोचने` (धातुपाठः-1031) इत्यादादिकः, `षूङ् प्राणिप्रसवे` (धातुपाठः-1132) इति दैवादिकः। `घूञ्? कम्पने` (धातुपाठः-1255,1487,1385) इति स्वादिः, क्र्यादिः, चुरादिश्च। तत्र `एकाचः` (7.2.10) इत्यधिकारादाद्ययोग्र्रहणम्, नेतरस्य। ऊदितः - `गाहू विलोडने (धातुपाठः-649), `गुपू रक्षणे` (धातुपाठः-395) इत्यादयः। एतेषां स्वरतेश्चानुदात्तत्वात्? प्रतिषेधे प्राप्ते, इतरेषामुदात्तत्वान्नित्यमिटि प्राप्ते विकल्पार्थं वचनम्। `विगाढा` इति। पूर्ववङ्ढत्वादि विधेयम्। अथ वावचनं किमर्थम्? यावता `इट्? सनि वा` (7.2.41) इत्यतो वाग्रहणमनुवर्तते? इत्याह - `वेत्यनुवर्तमाने` इत्यादि। तद्धि वाग्रहणं लिङ्सिज्भ्यां सम्बद्धमिति तदनुवृत्तौ तयोरप्यनुवृत्तिः स्यात्। तस्मात्? पूर्ववाग्रहणसम्बद्धयोर्लिङ्सिचोर्निवृत्त्यर्थमन्यदिदं वाग्रहणमिति। ननु च लिङ्सिचोरनुवृत्तिः स्यात्। तस्मात्? पूर्ववग्रहणसम्बद्धयोरलिङ्सिचोर्निवृत्त्यर्थमन्दिदं वाग्रहणमिति। ननु च लिङ्सिचोरनुवृत्तौ स्वरतिग्रहण मनर्थकमापद्यते, पूर्वेणैव विकल्पस्य सिद्धत्वात्? नैतदस्ति; वचनप्रामाण्यात्? स्वरतिग्रहणं नित्यार्थं विज्ञायते। अथ वा - स्वरितग्रहणात्? `वा` इत्येतन्निवर्तते। अथ सूतिसूयत्योर्विकरण निर्देशः किमर्थः, न `सू` इत्येबोध्येत? इत्यत आह - `सूतिसूयत्योः` इत्यादि। `सू` इत्युच्यमाने `निरनुबन्धकग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति `सू प्रेरणे` (धातुपाठः-1408) [`षू प्रेरणे` - धातुपाठः-] इत्यस्यैव ग्रहणं स्यात्। अतस्तन्निवृत्त्यर्थो विकरण निर्देशः करणीयः। यद्येतत्? प्रयोजनम्, सूङिति निर्देशः कर्तव्यः? नैवं शक्यम्; एवं हि सति निर्देशे क्रियमाणे `लुग्वकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्` (व्या।प।50) इति सूयतेरेव ग्रहणं स्यात्, न सूतेः। अतस्तन्निवृत्तये विकरणनिर्देशः। अस्याः परिभाषाया अस्तित्वेऽयमेव निर्देशो ज्ञापकः। अस्यां ह्रसत्यां `सूङ्` इति निर्देशं कुर्यात्। अथ `धूञ्` इति सानुबन्धकस्य ग्रहणं न क्रियेत, ततो निरनुबन्धकपरिभाषया (व्या।पा।53) `षू विधूनने` (धातुपाठः-1398) इत्यस्यैव ग्रहणं स्यात्, एतच्चानिष्टम्। अतो विधूननार्थस्य निवृत्त्यर्थः सानुबन्धकनिर्देशः। `स्वरतेः` इत्यादि। अस्य विकल्पस्यावकाशः - स्वरिता, स्वर्तेति; ऋद्धनीः स्ये` (7.2.70) इत्यस्यावकाशः - करिष्यति, हरिष्यतीति; स्वरतेरस्योभयप्रसङ्गे **ऋद्धनोः स्ये** (7.2.70) इत्येतद्भवति विप्रतिषेधेन - स्वरिष्यतीति। `किति तु प्रत्यये` इत्यादि। `श्रयुकः किति` (7.2.11) इत्यस्यावकाशः - सूतः, सूतदानि, अस्य विकल्पस्यावकाशः - स्वर्ता, स्वरितेति; सोता सविता; धोता, धवितेति; इहोमयप्रसङ्गे `श्रयुकः किति` (7.2.11) इति नित्यं [नित्यः - काशिका] प्रतिषेधो भवति पूर्वविप्रतिषेधेन - स्वृत्वा, सूत्वा, धूत्वा`। एतच्च पुरस्तात्? प्रतिषेधकाण्डविधानादेव सिद्धम्। उक्तं हि प्राक्? पुरस्तात्? प्रतिषेधविधानस्य प्रयोजनम् - इण्मात्रस्यानाधितदिधानविशेषस्य प्रतिषेधो यथा स्यादिति। तदेतत्? पुरस्तात्? प्रतिषेधविधानं पूर्वदिप्रतिषेधेन समानफलकत्वादिह पूर्वविप्रतिषेधशब्देनोक्तम्॥ Prakriyasarvasvam ----------------- स्वरत्यादिभ्य ऊदिद्भ्यश्च परस्य वलादेरिड् वा स्यात् । 'स्वृ शब्दे' । स्वरिता । स्वर्ता । सूतिसूयत्योः, सविता, सोता । प्रेरणार्थस्य सुवतेस्तु सवितेतीडेव । धूञो धविता धोता । ऊदिद्भ्यः गुपू । गोपिता गोप्ता । मृजू । Sutra Prayogas -------------- * **सवित्री** (कुमारसम्भवम्): `स्वरतिसूतिसूयतिधूञूदितो वा` इतीडागमः। * **दुधूषतः** (किरातार्जुनीयम्): `स्वरतिसूतिसूयतिधूञूदितो वा` इति विकल्पादिडभावः। * **निगोपितुम्** (किरातार्जुनीयम्): `स्वरतिसूतिसूयतिधूनूदितो वा` इति ऊदित्त्वादिङ्विकल्पः। * **प्रसोतुं** (भट्टिकाव्यम्): `स्वर ति` इत्यादिना विभाषितेट्। * **स्वरिता** (भट्टिकाव्यम्): `स्वरति सूति-सूयति` इत्यादिना विभाषेट् । * **सोता** (भट्टिकाव्यम्): `स्वरति` दिसूत्रेण विभाषेट् । * **गाहिता** (भट्टिकाव्यम्): `स्वरति` इत्यादिना । * **उस्रंसिषता** (भट्टिकाव्यम्): `स्वरति` इत्यादिना इट्।