72024: अर्देः संनिविभ्यः ======================== **Padacheda:** अर्देः | S | 6 | 1 | सन्निविभ्यः | S | 5 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The participial affix does not take the augment इट् after the root अर्द when it is preceded by 1. सं 2. नि or 3. वि। Vasu English Translation ------------------------ The participial affix does not take the augment इट् after the root अर्द when it is preceded by 1. सं 2. नि or 3. वि। As समर्णः, 'plagued' न्यर्णः, ष्यर्णः ॥ Why 'of अर्द'? Observe समेधितः ॥ Why 'सम्, नि or वि'? Observe अर्दितः ॥ Kashika ------- सं नि वि इत्येतेभ्य उत्तरस्यार्देर्निष्ठायामिडागमो न भवति। समर्णः। न्यर्णः। व्यर्णः। अर्देरिति किम्? समेधितः संनिविभ्य इति किम्? अर्दितः॥ Siddhanta Kaumudi ----------------- एतत्पूर्वादर्देर्निष्ठाया इण्न स्यात् । समर्णः । न्यर्णः । व्यर्णः । अर्दितोऽन्यः ॥ Nyaas ----- `अर्देः` इति। `अर्द गतौ याचने च` (धातुपाठः-55)॥ Prakriyasarvasvam ----------------- एभ्योऽर्देर्निष्ठायामिण् न । दान्तत्वान्नत्वम् । समर्णः । न्यर्णः । व्यर्णः । अर्दितोऽन्यः ॥ Sutra Prayogas -------------- * **अ-व्यर्णो** (भट्टिकाव्यम्): `अर्देः सं-नि-विभ्यः` इति इट्प्रतिषेधः।