72022: कृच्छ्रगहनयोः कषः ======================== **Padacheda:** कृच्छ्रगहनयोः | S | 7 | 2 | कषः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The participial affix does not take the augment इट् after the root कष् when the participle means 'difficult' and 'impenetrable'. Vasu English Translation ------------------------ The participial affix does not take the augment इट् after the root कष् when the participle means 'difficult' and 'impenetrable'. As कष्टोऽग्निः, कष्टं व्याकरणं, ततोऽपि कष्टतराणि सामानि ॥ "Difficult is Fire-sacrifice i. e. it is difficult to completely master the ritual connected with the worship of fire; and difficult enough is Grammar, but the *Samans* are worst of all". कष्टानि वनानि 'impervious forests'. कष्टाः पर्वताः ॥ When not having these senses, we have कषितं सुवर्णम् ॥ Kashika ------- कृच्छ्र गहन इत्येतयोरर्थयोः कषेर्धातोर्निष्ठायामिडागमो न भवति। कष्टोऽग्निः। कष्टं व्याकरणम्। ततोऽपि कष्टतराणि सामानि। कृच्छ्रं दुःखम्, तत्कारणमप्यग्न्यादिकं कृच्छ्रमित्युच्यते। गहने — कष्टानि वनानि। कष्टाः पर्वताः। कृच्छ्रगहनयोरिति किम्? कषितं सुवर्णम्॥ Siddhanta Kaumudi ----------------- कषो निष्ठाय इण्न स्यादेतयोरर्थयोः । कष्टं दुःखं तत्कारणं च । स्तात्कष्टं कृच्छ्रमाभीलम् । कष्टो मोहः । कष्टं शास्त्रम् । दुरवगाहमित्यर्थः । कषितमन्यत् ॥ Balamanorama ------------ **कृच्छ्रगहनयोः कषः** - कृच्छ्रगहनयोः । कृच्छ्रशब्दो दुःखे, तत्कारणे च वर्तते । कष्टं दुःखं, तत्कारणं चेति ।स्यात्कष्टं कृच्छ्रमाभील॑मित्यमरकोशवाक्यम् । दुःखकारणे उदाहरति — कष्टो मोह इति । गहने उदाहरति — कष्टं शास्त्रमिति । गहनशब्दं विवृणोति — दुरवगाहमिति । Tattvabodhini ------------- **कृच्छ्रगहनयोः कषः** - कृच्छ्रगहनयोः । कृच्छ्रं दुःखं, तत्कारणं च लक्षणया गृह्रते । कषतिहिंसार्थः । कष्टो मोह इति । दुःखहेतुरित्यर्थः । Padamanjari ----------- कषतिर्हिसार्थः । कष्टोऽग्निरिति । चीयमानोऽग्निरत्राग्निशब्देन विवक्षितः, स कष्टो भवति, चयनप्रकारस्य दुर्ज्ञानत्वात् । व्याकरमस्य कष्टत्वमिडागमादिव्यवस्थाया दुर्ज्ञानत्वात् । सान्नं कष्टत्वं वर्षभदस्य एस्वरस्य स्तोमादीनां च दुर्ज्ञानत्वात् । कारणमपीति । लक्षणया, कृच्छ्रमिति व्युत्पत्या वा ॥ Nyaas ----- `कष्टः` इति। कषिशिषीत्यादिहिंसार्थधातुवर्गे कषिः पठते। किं पुनः कृच्छ्रं नाम? इत्याह - `कृच्छ्रं दुःखम्` इति। यद्येवम्, दुःखे प्राणिधर्मे प्रतिषेध उच्यमानोऽग्न्यादौ न सिध्यते? इत्याह - `तत्कारणमप्यग्न्यादिकं कृच्छ्रमुच्यते` इति। कारणे कार्योपचारात्, यथा - नङ्वलोदकं पादरोग इति। चिन्त्यं पुनरेतत्? किं मुख्ये सति गौणस्य ग्रहणं युक्तम्? उत नेति? यदि तु कृच्छ्रशब्दाण्णिजन्तात्? पचाद्यचमुत्वाद्य कृच्छ्रयतीति कृच्छ्र इत्येवं व्युत्पाद्यते, तदा कृच्छ्रशब्दोऽपि मुख्येऽगन्यादावपीति न किञ्चिच्चिन्त्यम्; न चास्यां व्युत्पत्तौ तत्कारणमप्यगन्यादिकं कृच्छ्रमित्युच्यत इत्येतद्विरुध्यते। यद्धि कृच्छ्रयति तन्नियोगत एव दुःखस्य कारणं भवति॥ Prakriyasarvasvam ----------------- असह्यदुष्प्रापयोर्वाच्ययोः कषेरिण् न । कष्टो विरहः । कष्टं वनम् । कषितमन्यत् ॥ Sutra Prayogas -------------- * **कष्टं** (भट्टिकाव्यम्): `कृच्छ्र-गहनयोः कपः` इति इट्प्रतिषेधः।