72016: आदितश्च

Padacheda: आदितः | S | 6 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The participial affixes do not take the इट् augment after a root which has an indicatory आ।

Vasu English Translation

The participial affixes do not take the इट् augment after a root which has an indicatory आ। As ञिमिदा — मिम्नः, मिन्नवान्; ञिक्ष्विदा — क्ष्विण्णः — क्ष्विण्णवान्; ञिष्विदा — स्विम्नः, स्विन्नवान् ॥ The च implies that other roots not enumerated are to be also included, as आश्वस्तः, वान्तः ॥

This and the sutra following it could have been made into one, as आदितश्च विभाषा भावादिकर्मणोः ॥ The separate making of two sutras indicates that the rule of यस्य विभाषा (7.2.15), applies with the restrictions and limitations of the rule ordaining ‘option’, i.e., the prohibition of इट् augment, with regard to the participial-affixes is limited by the same conditions, which apply to the optional employment of इट् before other affixes in the विभाषा rules (यदुपाधेर्विभाषा, तदुपाधेः प्रतिषेधः) ॥ Thus (7.2.68) ordains इट् optionally to the affix वसु after the roots गम्, हन्, विद् and विश् ॥ The root विद् there is the Tudadi root meaning ‘to acquire’. The rule यस्य विभाषा will apply to this विद् with this meaning : and not to विद् meaning ‘to know’, the Past Participles of which are विदितः, विदितवान् ॥

Bhashya

आदितश्च विभाषा भावादिकर्मणोः ॥ किमर्थो योगविभागो न(2) आदितो विभाषा भावादिकर्मणोरित्येवोच्येत ॥ केनेदानीं कर्तरि प्रतिषेधो भविष्यति ? ॥ यस्य विभाषेत्यनेन ॥ एवं तर्हि सिद्धे सति यद्योगविभागं करोति तज्ज्ञापयत्याचार्यः - यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध इति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ यस्य विभाषाऽविदेरित्युक्तं तन्न वक्तव्यं भवति ॥

Kashika

आदितश्च धातोर्निष्ठायामिडागमो न भवति। ञिमिदा — मिन्नः। मिन्नवान्। ञिक्ष्विदा — क्ष्विण्णः। क्ष्विण्णवान्। ञिष्विदा — स्विन्नः। स्विन्नवान्। चकारोऽनुक्तसमुच्चयार्थः। आश्वस्तः। वान्तः। योगविभागकरणं किमर्थम्, आदितश्च विभाषा भावादिकर्मणोरित्येवं पठितव्यम्, अन्यत्र हि भावादिकर्मभ्यां यस्य विभाषा (७.२.१५) इति प्रतिषेधो भविष्यति? ज्ञापनार्थम्, एतद् ज्ञापयति — यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध इति। तेन विभाषा गमहनविदविशाम् (७.२.६८) इत्यत्र विदेर्लाभार्थस्य विभाषेति ज्ञानार्थस्य प्रतिषेधो न भवति। विदितः। विदितवान्॥

Siddhanta Kaumudi

आकारेतो निष्ठाया इण्न स्यात् ॥

Balamanorama

आदितश्च - आदितश्च । निष्ठाया इण्न स्यादिति । ‘श्वीदितः’ इत्यतो निष्ठायामिति,नेड्वशी॑त्यतो नेडिति चानुवर्तते इति भावः । ति च । ‘चरफलोश्चे’ ति सूत्रानुवृतिंत मत्वाह — चरलोरिति । अत उत्स्यादिति । ‘उत्परस्याऽतः’ इत्यतस्तदनुवृत्तेरिति भावः । कितीति ।दीर्घ इणः किती॑त्यतो मण्डूकप्लुप्त्या तदनुवर्तते इति भावः । वस्तुतस्तु कितीत्यनुवृत्तिर्निर्मूला, निष्पला च, तयोः सेट्कत्वेन निष्ठां विना तकारादिप्रत्ययाऽभावात् । कथं तर्हीति । प्रफुल्लमित्यस्य सोपसर्गत्वेन निष्ठातस्य लत्वाऽसंभवादिति भावः । समाधत्ते — फुल्लेति । ननु फुल्लेः पचाद्यचैव फुल्ल इत्यस्य सिद्धेः फुल्ल इत्यस्य निपातनं व्यर्थमित्यताअह — सूत्रं त्विति । उत्फुल्लसंफुल्ल्योरिति ।निष्ठातस्य लत्वनिपातन॑मिति शेषः । सोपसर्गार्थं वचनम् ।

Padamanjari

आश्वस्तः, वान्त इति । भाष्यवार्तिकयोरनुक्तमपि प्रयोगबाहुल्यादुक्तम् । योगविभागकरणं किमिति । योगविभाग एव तावद्दोषः । अपि च एकयोगत्वे चकारो न कर्तव्यो भवतीति प्रश्नः । एवं चोतरग्रन्थे चकारो न पठितव्यः । पठ।ल्मानस्तु अनुक्तसमुच्चयार्थे व्याख्येयः । कथं पुनरेक्रयोगत्वे भावादिकर्मंभ्यामन्यत्र प्रतिषेधः सिद्धः तत्राह - अन्यत्रेति । यदुणधेरिति ।उपाधिरभिधेयादिर्भेदकः । यद्यौपाधीनां भेदकत्वं न स्यात्, योगविभागोऽनर्थकः स्यात् । भेदकत्वे तु तेषां भावादिकर्णणोर्विकल्पविधानात्कर्तृकर्मणोः प्रतिषेधो न स्यादिति तदर्थो योगविभागः कर्तव्यः । किमेतस्य ज्ञापने प्रयोजनम् इत्यत आह - तेनेति । लाभार्थस्य विभाषेति । अत्र हेतुर्वक्ष्यते । यदि तर्ह्युपाधिर्भेदकः, ततः उदितो वा इति क्त्वाप्रत्यये भाववाचिनि विकल्प इति निष्ठायामपि भाव एव प्रतिषेधः स्यात्, नार्थान्तरे । शब्देनाश्रीयमाणो ह्युपाधिर्भेदकः । न च उदितो वा इत्यत्र भाववाचित्वं शब्देनाश्रितम् । तथा च तेन निर्वृतम्, निर्वृतेऽक्षद्यौउतादिभ्यः इत्यादेरुपपतिः ॥

Nyaas

भावादिकर्मणोरनन्तरं विभाषां वक्ष्यति, ततोऽन्यत्र कर्तरि कर्मणि चायं प्रतिषेधो विज्ञायते। आआस्तः इत। आआस प्राणने (धातुपाठः-1069)। वान्तः इति। टु वम अद्गिरणे (धातुपाठः-849)। अनुनासिकस्य क्विझलोः क्ङिति (6.4.15) इति दीर्घः। योगविभागकरणं किमर्थम् इति। पृष्टस्य आदितश्च विभाषा भावादिकर्मणोः इति। यद्येकयोगः क्रियते, ततो भावादिकर्मभ्यामन्यत्र प्रतिषेधो न स्यादिति प्रतिवचनमात्रङ्क्याह - आदितश्च इत्यादि। आदितश्च विभाषा भावादिकर्मणोः इत्येकयोगे भावादकर्मणोर्विभाषायां विहितायां ततोऽन्यत्र कत्र्रादौ यस्य विभाषा (7.2.15) इति प्रतिषेधो भविष्यति, तस्मादपार्थक योगविभागकरणम्। ज्ञापनार्थम् इत्यादिनाऽपार्थकत्वं परिहरति। यदुपाधेर्विभाषा तदुपाधेः इति। उभयत्रापि बहुव्रीहिः। उपाधिः=विशेषणम्। स चैतदर्थं उपाधिर्विज्र्ञेयः। यदि यदुपाधार्विभाषा तदस्योपाधेरपि प्रतिषेधः स्यात्, तदा योगविभागां न कुर्यात्। एकयोगेनापि भावादिकर्मणोर्विहिते विकल्पे ततोऽन्यत्र यस्य विभाषा (7.2.15) इति प्रतिषेधो लभ्यत एव, कृतश्च योगविभागः, तस्मादेतेन योगविभागकरणेन सूचितम् - यदुपाधेर्विभाषा तदुपाधेर्निषेध इति। तेन इत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति। अत्र विदेर्लाभार्थस्य विभाषेति विशिना तौदादिकेन साहचर्चाल्लाभार्थस्य तौदादीकस्य ग्रहणम्। यस्य विभाषा (7.2.15) इति च तस्यैव प्रतिषेधो भवति, नान्यस्य। यदि यदुपाधेर्विभाषा तदुपाधेर्निषेध इति ज्ञाप्यते, जृव्रश्चोः क्त्विः (7.2.55) , उदितो वा (7.2.56) इति क्त्वाप्रत्यये भावविषये विभाषिते यस्य विभाषा (7.2.15) इति भावविषय एव निष्ठायामिट्प्रतिषेधः स्यात्, न कर्त्तृकर्मणोः? नैष दोषः; आश्रीयमाणो हि धर्मो भेदको भवति। न च क्त्वाप्रत्यये निष्ठायां वा भिन्नमभिधेयं निमित्तत्वेनाश्रितम्। तस्माद्भवत्येवात्र प्रतिषेधः। अत्र लिङ्गम् - तेन निर्वृत्तम् (5.1.79) इति निद्र्दशः॥

Prakriyasarvasvam

आदितो धातोर्निष्ठायामिण् न स्यात् ।

Sutra Prayogas

  • विश्वस्तविलासिनीजनः (शिशुपालवधम्): आदितश्च इति इडागमनिषेधः।

  • उद्विग्नांस् (भट्टिकाव्यम्): ओदितश्च इति इट्प्रतिषेधः।