72016: आदितश्च ============== **Padacheda:** आदितः | S | 6 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The participial affixes do not take the इट् augment after a root which has an indicatory आ। Vasu English Translation ------------------------ The participial affixes do not take the इट् augment after a root which has an indicatory आ। As ञिमिदा — मिम्नः, मिन्नवान्; ञिक्ष्विदा — क्ष्विण्णः — क्ष्विण्णवान्; ञिष्विदा — स्विम्नः, स्विन्नवान् ॥ The च implies that other roots not enumerated are to be also included, as आश्वस्तः, वान्तः ॥ This and the *sutra* following it could have been made into one, as आदितश्च विभाषा भावादिकर्मणोः ॥ The separate making of two *sutras* indicates that the rule of यस्य विभाषा (7.2.15), applies with the restrictions and limitations of the rule ordaining 'option', i.e., the prohibition of इट् augment, with regard to the participial-affixes is limited by the same conditions, which apply to the optional employment of इट् before other affixes in the विभाषा rules (यदुपाधेर्विभाषा, तदुपाधेः प्रतिषेधः) ॥ Thus (7.2.68) ordains इट् optionally to the affix वसु after the roots गम्, हन्, विद् and विश् ॥ The root विद् there is the *Tudadi* root meaning 'to acquire'. The rule यस्य विभाषा will apply to this विद् with this meaning : and not to विद् meaning 'to know', the Past Participles of which are विदितः, विदितवान् ॥ Bhashya ------- आदितश्च विभाषा भावादिकर्मणोः ॥ किमर्थो योगविभागो न(2) आदितो विभाषा भावादिकर्मणोरित्येवोच्येत ॥ केनेदानीं कर्तरि प्रतिषेधो भविष्यति ? ॥ यस्य विभाषेत्यनेन ॥ एवं तर्हि सिद्धे सति यद्योगविभागं करोति तज्ज्ञापयत्याचार्यः - यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध इति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ यस्य विभाषाऽविदेरित्युक्तं तन्न वक्तव्यं भवति ॥ Kashika ------- आदितश्च धातोर्निष्ठायामिडागमो न भवति। ञिमिदा — मिन्नः। मिन्नवान्। ञिक्ष्विदा — क्ष्विण्णः। क्ष्विण्णवान्। ञिष्विदा — स्विन्नः। स्विन्नवान्। चकारोऽनुक्तसमुच्चयार्थः। आश्वस्तः। वान्तः। योगविभागकरणं किमर्थम्, आदितश्च विभाषा भावादिकर्मणोरित्येवं पठितव्यम्, अन्यत्र हि भावादिकर्मभ्यां **यस्य विभाषा** (७.२.१५) इति प्रतिषेधो भविष्यति? ज्ञापनार्थम्, एतद् ज्ञापयति — यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध इति। तेन **विभाषा गमहनविदविशाम्** (७.२.६८) इत्यत्र विदेर्लाभार्थस्य विभाषेति ज्ञानार्थस्य प्रतिषेधो न भवति। विदितः। विदितवान्॥ Siddhanta Kaumudi ----------------- आकारेतो निष्ठाया इण्न स्यात् ॥ Balamanorama ------------ **आदितश्च** - आदितश्च । निष्ठाया इण्न स्यादिति । 'श्वीदितः' इत्यतो निष्ठायामिति,नेड्वशी॑त्यतो नेडिति चानुवर्तते इति भावः । ति च । 'चरफलोश्चे' ति सूत्रानुवृतिंत मत्वाह — चरलोरिति । अत उत्स्यादिति । 'उत्परस्याऽतः' इत्यतस्तदनुवृत्तेरिति भावः । कितीति ।दीर्घ इणः किती॑त्यतो मण्डूकप्लुप्त्या तदनुवर्तते इति भावः । वस्तुतस्तु कितीत्यनुवृत्तिर्निर्मूला, निष्पला च, तयोः सेट्कत्वेन निष्ठां विना तकारादिप्रत्ययाऽभावात् । कथं तर्हीति । प्रफुल्लमित्यस्य सोपसर्गत्वेन निष्ठातस्य लत्वाऽसंभवादिति भावः । समाधत्ते — फुल्लेति । ननु फुल्लेः पचाद्यचैव फुल्ल इत्यस्य सिद्धेः फुल्ल इत्यस्य निपातनं व्यर्थमित्यताअह — सूत्रं त्विति । उत्फुल्लसंफुल्ल्योरिति ।निष्ठातस्य लत्वनिपातन॑मिति शेषः । सोपसर्गार्थं वचनम् । Padamanjari ----------- आश्वस्तः, वान्त इति । भाष्यवार्तिकयोरनुक्तमपि प्रयोगबाहुल्यादुक्तम् । योगविभागकरणं किमिति । योगविभाग एव तावद्दोषः । अपि च एकयोगत्वे चकारो न कर्तव्यो भवतीति प्रश्नः । एवं चोतरग्रन्थे चकारो न पठितव्यः । पठ।ल्मानस्तु अनुक्तसमुच्चयार्थे व्याख्येयः । कथं पुनरेक्रयोगत्वे भावादिकर्मंभ्यामन्यत्र प्रतिषेधः सिद्धः तत्राह - अन्यत्रेति । यदुणधेरिति ।उपाधिरभिधेयादिर्भेदकः । यद्यौपाधीनां भेदकत्वं न स्यात्, योगविभागोऽनर्थकः स्यात् । भेदकत्वे तु तेषां भावादिकर्णणोर्विकल्पविधानात्कर्तृकर्मणोः प्रतिषेधो न स्यादिति तदर्थो योगविभागः कर्तव्यः । किमेतस्य ज्ञापने प्रयोजनम् इत्यत आह - तेनेति । लाभार्थस्य विभाषेति । अत्र हेतुर्वक्ष्यते । यदि तर्ह्युपाधिर्भेदकः, ततः उदितो वा इति क्त्वाप्रत्यये भाववाचिनि विकल्प इति निष्ठायामपि भाव एव प्रतिषेधः स्यात्, नार्थान्तरे । शब्देनाश्रीयमाणो ह्युपाधिर्भेदकः । न च उदितो वा इत्यत्र भाववाचित्वं शब्देनाश्रितम् । तथा च तेन निर्वृतम्, निर्वृतेऽक्षद्यौउतादिभ्यः इत्यादेरुपपतिः ॥ Nyaas ----- भावादिकर्मणोरनन्तरं विभाषां वक्ष्यति, ततोऽन्यत्र कर्तरि कर्मणि चायं प्रतिषेधो विज्ञायते। `आआस्तः` इत। `आआस प्राणने` (धातुपाठः-1069)। `वान्तः` इति। `टु वम अद्गिरणे` (धातुपाठः-849)। **अनुनासिकस्य क्विझलोः क्ङिति** (6.4.15) इति दीर्घः। `योगविभागकरणं किमर्थम्` इति। पृष्टस्य `आदितश्च विभाषा भावादिकर्मणोः` इति। यद्येकयोगः क्रियते, ततो भावादिकर्मभ्यामन्यत्र प्रतिषेधो न स्यादिति प्रतिवचनमात्रङ्क्याह - `आदितश्च` इत्यादि। `आदितश्च विभाषा भावादिकर्मणोः` इत्येकयोगे भावादकर्मणोर्विभाषायां विहितायां ततोऽन्यत्र कत्र्रादौ **यस्य विभाषा** (7.2.15) इति प्रतिषेधो भविष्यति, तस्मादपार्थक योगविभागकरणम्। `ज्ञापनार्थम्` इत्यादिनाऽपार्थकत्वं परिहरति। `यदुपाधेर्विभाषा तदुपाधेः` इति। उभयत्रापि बहुव्रीहिः। उपाधिः=विशेषणम्। स चैतदर्थं उपाधिर्विज्र्ञेयः। यदि यदुपाधार्विभाषा तदस्योपाधेरपि प्रतिषेधः स्यात्, तदा योगविभागां न कुर्यात्। एकयोगेनापि भावादिकर्मणोर्विहिते विकल्पे ततोऽन्यत्र **यस्य विभाषा** (7.2.15) इति प्रतिषेधो लभ्यत एव, कृतश्च योगविभागः, तस्मादेतेन योगविभागकरणेन सूचितम् - यदुपाधेर्विभाषा तदुपाधेर्निषेध इति। `तेन` इत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति। अत्र विदेर्लाभार्थस्य विभाषेति विशिना तौदादिकेन साहचर्चाल्लाभार्थस्य तौदादीकस्य ग्रहणम्। **यस्य विभाषा** (7.2.15) इति च तस्यैव प्रतिषेधो भवति, नान्यस्य। यदि यदुपाधेर्विभाषा तदुपाधेर्निषेध इति ज्ञाप्यते, `जृव्रश्चोः क्त्विः` (7.2.55) , **उदितो वा** (7.2.56) इति क्त्वाप्रत्यये भावविषये विभाषिते **यस्य विभाषा** (7.2.15) इति भावविषय एव निष्ठायामिट्प्रतिषेधः स्यात्, न कर्त्तृकर्मणोः? नैष दोषः; आश्रीयमाणो हि धर्मो भेदको भवति। न च क्त्वाप्रत्यये निष्ठायां वा भिन्नमभिधेयं निमित्तत्वेनाश्रितम्। तस्माद्भवत्येवात्र प्रतिषेधः। अत्र लिङ्गम् - **तेन निर्वृत्तम्** (5.1.79) इति निद्र्दशः॥ Prakriyasarvasvam ----------------- आदितो धातोर्निष्ठायामिण् न स्यात् । Sutra Prayogas -------------- * **विश्वस्तविलासिनीजनः** (शिशुपालवधम्): `आदितश्च` इति इडागमनिषेधः। * **उद्विग्नांस्** (भट्टिकाव्यम्): `ओदितश्च` इति इट्प्रतिषेधः।