72015: यस्य विभाषा

Padacheda: यस्य | S | 6 | 1 |

विभाषा | S | 1 | 1 |

Sutrartha


Vasu English Summary

The participial affixes do not take the इट् augment after those roots, to which another suffix can optionally be added, with or without this augment इ।

Vasu English Translation

The participial affixes do not take the इट् augment after those roots, to which another suffix can optionally be added, with or without this augment इ। That is, a root which is optionally Set, before other affixes, is invariably anit before Nishtha. Thus by (7.2.44), वल् consonant beginning affixes are optionally सेट् after the roots धू &c. The Nishtha after धू &c, will be invariably anit. Thus विधूतः, विधूतवान्; गूढः, गूढवान् ॥ By (7.2.56), the roots having an indicatory उ, optionally are followed by Set क्त्का ॥ The Nishtha after उदित् roots will invariably be anit : as वृद्धः, वृद्धवान् ॥

By the vartika तानि पदि दरिद्राणामुपसंख्यानम् the roots तन्, पत and दरिद्रा take optional इट् in the Desiderative (7.2.49). Though पत् is a root which thus optionally takes इट् in the Desiderative , yet its Nishtha is always सेट्, for Panini himself has employed the word पतित in Sutra (2.1.24), (2.2.38). According to Padamanjari this rule of यस्य विभाषा is anitya and not of universal application. Because had this rule been of universal application then the root कृत which is optionally anit by (7.2.57), would universally anit by the present sutra : and there would be no necessity of reading it with a long ई in the Dhatupatha, as कृती छेदने (6.1.1) to make its nishtha anit under (7.2.14).

Bhashya

यस्य विभाषा ॥ यस्य विभाषाऽविदेः ॥ यस्य विभाषाऽविदेरिति वक्तव्यम् । इह मा भूत् - विदितः विदितवानिति ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् । यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः । शविकरणस्य(1) विभाषा, लुग्विकरणश्चायम् ॥

Kashika

यस्य धातोर्विभाषा क्वचिदिडुक्तः, तस्य निष्ठायां परत इडागमो न भवति। वक्ष्यति — स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) — विधूतः। विधूतवान्। गुहू — गूढः। गूढवान्। उदितो वा (७.२.५६) — वृधु — वृद्धः। वृद्धवान्। तनिपतिदरिद्राणामुपसंख्यानम् (७.२.४९ का०) इति पतेर्विभाषितेट्कस्यापि द्वितीया श्रितातीतपतित० (२.१.२४) इति निपातनादिडागमः॥

Siddhanta Kaumudi

यस्य क्वचिद्विभाषयेड्विहितस्ततो निष्ठाया इण्न स्यात् । उदितो वा (SK3328) इति क्त्वायां वेट्त्वादिह नेट् । समक्नः । अनपादाने किम् । उदक्तमुदकं कूपात् । नत्वस्यासिद्धत्वात् व्रश्च - (SK294) इति षत्वे प्राप्ते ।<!निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धो वाच्यः !> (वार्तिकम्) ॥ वृक्णः । वृक्णवान् ॥

Balamanorama

यस्य विभाषा - यस्य विभाषा । यस्येति । यस्मादित्यर्थः । निष्ठाया इण्न स्यादिति । ‘श्वीदितः’ इत्यतो निष्ठायामिति,नेड्वशी॑त्यतो नेडिति चानुवर्तत इति भावः । नन्वञ्चेर्नित्यं सेट्कत्वात् कथं तस्य क्वचिद्वेट्कत्वमित्यत आह — उदितो वेति । समन्क इति । सङ्गत इत्यर्थः । संपूर्वादञ्चुधातोः क्तः ।आर्धधातुकस्ये॑डिति प्राप्तस्य इटो निषेधः ।अनिदिता॑मिति नलोप- । चस्य कुत्वम् । उदक्तमुदकं कूपादिति । उद्धृतमित्यर्थः । अत्राऽपादानसमभिव्याहारसत्त्वान्नत्वं नेति भावः । ‘ओ व्रश्चू छेदने’ सस्य श्चुत्वेन निर्देशः, अस्मात्क्तः,ग्रहिज्ये॑ति संप्रसारणम्, ऊदित्त्वेन वेट्कत्वादिहयस्य विभाषे॑ति नेट्, चस्य कुत्वेन कः,ओदिश्चे॑ति निष्ठानत्वं, तस्याऽसिद्धत्वेन झल्परत्वात्स्को॑रिति सलोपः णत्वम् । वृक्ण इति रूपमिति स्थितिः । तत्र नत्वस्याऽसिद्धत्वेन झल्परत्वात्व्रश्चे॑ति षत्वं स्यादित्यत आह — निष्ठादेशः षत्वेति । तथा च ‘व्रश्चभ्रस्जे’ ति षत्वे कर्तव्ये नत्वस्याऽसिद्धत्वाऽभावेन झल्परकत्वाऽभावान्न षत्वमित्यर्थः । स्वरप्रत्ययेड्विधिषूदाहरणानि भाष्ये स्पष्टानि ।

Tattvabodhini

यस्य विभाषा - यस्य विभाषा । यस्येत्याद्र्धधातुकापेक्षया षष्ठी । यदीयस्याद्र्धधातुकस्येत्यर्थः । समक्न इति । अञ्चु व्यक्ती॑त्यस्य,न त्वञ्चेः । तेनात्र न्तवाऽबावः । वृक्ण इति । ओव्रश्चू छेदने ।ग्रहिज्ये॑ ति संप्रसारणम् । नत्वस्याऽसिद्धत्वात्स्को॑रिति सलोपः,चोः कुः॑ इति कुत्वं च । ऊदित्वेन वेट्कत्वात्यस्य विभाषे॑ति निषठाया इडभावः । नुड्विधिलादेशविनामेषु वर्णैकदेशस्यापि वर्णत्वेन ग्रहणादृकारैकदेशो रेफो निमित्तमितिअट्कुप्वा॑ङिति नस्य णत्वम् । णत्वस्यविनाम॑ इति प्राचां संज्ञा ।ऋवर्णान्नस्य णत्व॑मिति यथाश्रुतपक्षेऽपि णत्वनिषेधार्थं क्षुभ्नादिषु नृमनशब्दपाठादृकारं निमित्तीकृत्याऽपिअट्कुप्वा॑ ङिति णत्वं भवत्येवेति दिक् ।

Padamanjari

यस्य विभाषा इत्यनुवादवाक्यम् । अत्र च इड्विहितः इति वाक्यशेषः । यतदोर्नित्यसम्बन्धातस्य निष्ठायामिण्न भवतीति प्रतिषेधवाक्यं सम्पद्यते । निपात्नादिडागम इति । अपर आह - अनित्योऽयं प्रतिषेधः, कृती छेदने इत्यस्य इदित्करणसामर्थ्यात् । यदि ह्ययं विधिर्नित्यः स्यात् सेऽसिचि इत्यनेन विभाषितेट्त्वादनेनैव प्रतिषेधस्य सिद्धत्वादीदित्करणमनर्थकं स्यादिति ॥

Nyaas

विधूतः इति। धूञ्? कम्पने (धातुपाठः-1836) गूढः इति। गूहू संवरणे (धातुपाठः-986)। ढत्वादिषु कृतेषु ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इत्यादिना दीर्घः। अतेह कस्मात्? प्रतिषेधो न भवति - पतित - पतित इति, भवति हि पतिर्विभाषितेट्? सनीवन्तर्घ (7.2.49) इत्यत्र तनिपतिदरद्राणामुपसंख्यानम् इति विकप्लेनोपसंख्यानात्? इत्यत आह - द्वितीयाश्रित इत्यादि॥

Prakriyasarvasvam

यस्य क्वचिद् विभाषेडुक्तिस्तस्य निष्ठायामिण् न स्यात् । ऊदितो वेडुक्तः । गुपू, गुप्तः गुह्, गुह् त । ‘हो ढः’ । गुढ् त । ‘झषस्तथो—’ (८-२-४०) इति तस्य धः । ष्टुत्वम् । गुढ् ढ । ढो ढे लोपः ‘ढ्रलोपे—’ (६-३-१११) इति दीर्घः । गूढः । ‘ओ व्रश्चू’ । व्रस् च् त ‘ग्रहिज्या—’ (६-१-१६) इति प्रसारणम् । वृस् च् त । ओदित्त्वान्नत्वम् । वृस् च् न । नत्वस्यासिद्ध्या झलि ‘स्कोः—’ (८-२-२९) इति सलोपः । वृच् न । नत्वस्यासिद्धतयैव व्रश्चादिषे प्राप्ते । ‘निष्ठादेशः षत्वे कार्ये सिद्धो वाच्यः’ । (वा० ८-२-३) इति नकारस्यैव सिद्धत्वेन झलभावान्न षत्वम् । चोः कुः । वृक्णः । ‘रधादिभ्यश्च’ (७-२-४५) इति वेट् । रद्धः । नश् त । छशां षः । ष्टुत्वं, नष्टः । द्रुहादेर्वा घः । द्रुग्धः द्रूढ इत्यादि । ‘तीषसह—’ (७-२-४८) इति वेट् । इष्टः । सह् त । ढत्वधत्वष्टुत्वढ- लोपाः । ‘सहिवहो—’ (६. ३. ११२) इत्योत्वम् । सोढः । ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः । शमु । ‘अनुनासिकस्य क्विझलोः—’ (६-४-१५) इति दीर्घः । शान्तः । वृधु, वृद्धः । ‘धावु गतिशुद्धयोः’ । ऊठ् । धा ऊ त । ‘एत्येधति—’ (६-१-८९) इति वृद्धिः । धौतः । धौतवान् । ‘यस्य विभाषा’ (७-२-१५) इत्यस्यानित्यत्वादिटि धावितः धावितवानित्यपि माधवः । एवं ‘तनु विस्तार’ इत्यस्य तनितोऽपीति हरः । ‘मनु अवबोधन’ इत्यस्य मनितोऽपीति स्वामी । मनसा जानाति मनयतीति ण्यन्तान्मनितमित्यन्ये । पतिदरिद्रात्योः सनि विकल्पितेट्कत्वेऽप्युक्तानित्यत्ववशान्निष्ठायामिडवेति माधवः । पतितः । दरिद्रितः ।<!ल्युडकवर्जित आर्धधातुके कर्तव्ये दरिद्रातेराल्लोपो वाच्यः!> (वा० ६-४-११४) इत्याल्लोपः । ‘सेऽसिचि कृतचृतछृदतॄदनृतः’ (७-२-५७) इति सादावसिचि प्रत्यये कृतादीनामिड्विकल्पः । कृत्तः । चृत्तः । ‘छृदी दीप्तौ । तॄदिर्हिंसार्थः । ‘रदाभ्यां—’ (८-२-४२) इति नत्वम् ।<!ऋवर्णाच्चेति वाच्यम्!> (वा० ८-४-१) इति णत्वम् । छृण्णः । तृण्णः । नृत्तम् ।।

Sutra Prayogas

  • उद्वृत्ता (भट्टिकाव्यम्): यस्य विभाषा इति वृतेरुदित्वात् इट्प्रतिषेधः।