72012: सनि ग्रहगुहोश्च

Padacheda: सनि | S | 7 | 1 |

ग्रहगुहोः | S | 6 | 2 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The Desiderative affix सन् does not get the augment इट् , not only after roots ending in 1. उ 2. ऊ 3. ऋ and 4. ॠ but also after ग्रह and गुह।

Vasu English Translation

The Desiderative affix सन् does not get the augment इट् , not only after roots ending in 1. उ 2. ऊ 3. ऋ and 4. ॠ but also after ग्रह and गुह। As जिघृक्षति, जुघुक्षति, रुरूषति, लुलूषति ॥ The anuvritti of श्रि is not drawn into this sutra, as option is allowed regarding it by (6.2.4). ग्रह would always get इट्, गुह् (1.944) being ऊदित् (in the Dhatupatha), would have optionally taken इट् (7.2.44)

The forms जिघृक्षति and जुघुक्षति are thus evolved :- ग्रह् + सम् (the affix is कित् by (1.2.8)) = गृह् + सन् (6.1.16) = गृढ् + सन् (8.2.31) = गृक् + सन् (8.2.41) = जिघृक्षति (8.2.37). So also with गुहू संवरणे, the सन् is कित् here by (1.2.10).

Kashika

ग्रह गुह इत्येतयोरुगन्तानां च सनि प्रत्यये परत इडागमो न भवति। जिघृक्षति। जुघुक्षति। उगन्तानां च — रुरूषति। लुलूषति। सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् (७.२.४९) इति विकल्पविधानात् श्रयतिरत्र नानुकृष्यते। ग्रहेर्नित्यं प्राप्तः, गुहेरूदित्त्वाद् विकल्पः॥

Siddhanta Kaumudi

ग्रहेर्गुहेरुगन्ताच्च सन इण्न स्यात् । ग्रहिज्या - (SK2412) इति संप्रसारणम् । सनः षत्वस्यासिद्धत्वाद्भष्भावः । जिघृक्षति । सुषुप्सति ॥

Laghu Siddhanta Kaumudi

ग्रहेर्गुहेरुगन्ताच्च सन इण् न स्यात् । बुभूषति ॥ इति सन्नन्तप्रक्रिया ॥

Balamanorama

सनि ग्रहगुहोश्च - सनि ग्रहगुहोश्च । चकारात्श्र्युकः किती॑त्यत उक इत्यनुकृष्यते, न तु श्रयतिः, तस्यसनीवन्तर्धे॑ति विकल्पस्य वक्ष्यमाणत्वात् ।नेड्वशि कृती॑त्यतो नेडिति स इति स्थिते सनः कित्त्वात्ग्रहीज्ये॑ति रेफस्य संप्रसारणमृकार इत्यर्थः । ननु गृह् स इति स्थिते हस्य ढत्वे भष्भावापेक्षया परत्वात्कत्वे सस्य षत्वे च कृते झषन्तत्वाऽभावे कथं भष्भाव इत्यत आह — सनः षत्वस्येति । कत्वस्याऽसिद्धत्वादित्येव सुचवचम् । जिघृक्षतीति । गृह् स इति स्थिते हकारादिणः परस्य षत्वं परत्वात् प्राप्तं, तस्याऽसिद्धत्वात् हस्य ढत्वे भष्भावः, ततः कत्वे कात्परस्य षत्वमिति क्रम इतिभावः । गुहेः जुघुक्षतीत्युदाहार्यम् । उगन्तात् - - बुभूषति । अत्रश्र्युकः किती॑त्यनेन तु न सिध्यति, तत्र कित एव निषेधात् । परत्वादिडागमेइको झ॑लित्यस्याऽप्राप्तेः । स्पष्टं चेदं शब्देन्दुशेखरे । सुषुप्सतीति । सनः कित्त्वात्वचिस्वपी॑ति संप्रसारणं, लघूपधगुणाऽभावश्च ।

Tattvabodhini

सनि ग्रहगुहोश्च - सनि ग्रहगुहोश्च । ग्रहेर्नित्यं, गुहेर्विकल्पेन प्राप्ते निषेधोऽयम् । सनः षत्वस्यासिद्धत्वाद्भष्भाव इति । रकुत्वस्याऽसिद्धत्वाद्भष्भाव इत्येव सुवचम् । केचित्तु ढत्वे सति भष्भाव इत्यध्यहारेण योजयन्ति । तथा च जगृह् स इति स्थिते इणः परत्वेन सस्य षत्वं प्राप्तं,तस्याऽसिद्धत्वाड्ढत्वे भष्भावः । ततश्च कत्वे कवर्गात्परस्य षत्वमिति विधिक्रमः । अन्ये तु षत्वे ढत्वे च कृते पश्चाद्भष्भावे कर्तव्ये सकारपरत्वाऽभावाद्भष्भावो न स्यादित्याशङ्कायां सनः षत्वस्याऽसिद्धत्वादिति ग्रन्थः प्रवृत्त इति कार्याऽसिद्धपक्षावलम्बनेन व्याचक्षते । जिघृक्षतीति । गुहेर्जुघुक्षति । सूत्रे चकारात्श्र्युकः किती॑ त्यत उक इत्यनुकृष्यते । उगन्तात्- बुभूषति । लुलूषति । श्रयतिस्तु नाऽनुकृष्यते, तस्यसनीवन्तर्धे॑ति विकल्पविधानात् ।

Padamanjari

चकार उगनुकर्षणार्थः । न च इको झल् इति सनः कित्वात् उगन्तानां पूर्वेणैव सिद्धिः किं कारणम् झलादौ सनः कित्वम्, न चान्तरेणेटट्प्रतिषेधं सन् झलादिर्भवति, तेन येषु प्रकृत्याश्रयः प्रतिषेधो नास्ति, तेष्वनेनैवेटि प्रतिषिद्धे झलचादित्वे सनः कितवमित्येष क्रमः । जिधृक्षतीति । रुदविद इत्यादिना सनः कित्त्वम्, ग्रहिज्यादिसूत्रेण तम्प्रसारणम्, हो ढः, षढो कस्सि, एकोचो बशो भष् । जुघुक्षतीति । गुहू संवरणे, स्वरितेत्, हलन्ताच्चेति सनः कित्वम् । अथ चकारेणोगिदिव श्रयतिरपि कस्मान्नानुकृष्यते अत आह - श्रिस्वृयूर्ण्वित्यादि ॥

Nyaas

ग्रहेः सनि चित्यमिटि प्राप्ते गुहेरप्यूदित्त्वात्? स्वरति (7.2.44) इत्यादिसूत्रेण विकल्पे प्राप्तेऽस्यारम्भः। चकारः उकः (7.2.11) इत्यनुकर्षणार्थः। ननु च इको झल् (1.2.9) इत्युगन्तानां किदेव सन्? तत्र पूर्वेणैव प्रतिषेधः सिद्धः किमुक इत्यनुकर्षणार्थेन चकारेण? नैतदस्ति; न हीट्प्रतिषेधमन्तरेण सनो झलादित्वमुपपद्यते, कुतः कित्त्वम्! अनेन त्विटि प्रतिषिद्धे झलादित्वं सनो जायते, पश्चाद्गुणप्रतिषेधार्थं कित्त्वमिति क्रमः। जिघृश्रति इति। रुदविद (1.2.8) इत्यादिना सनः कित्त्वे सति ग्रह्रादि (6.1.16) सूत्रेण सम्प्रसारणम्, हो ढः (8.2.31) इति ढत्वम्, षढोः कः सि (8.2.41) इति कत्वम्, इण्कोः (8.2.57) इति षत्वम्, एकाचो वशो भष् (8.2.37) इत्यादिना भष्भावेन गकारस्य घकारः, द्विर्वचनम्, अभ्यासकार्यम्। जुधुक्षति इति। रुदविद (1.2.8) इत्यादिना सनः कित्त्वे सति ग्रह्रादि (6.1.16) सूत्रेण सम्प्रसरणम्, हो ढः (8.2.31) इति ढत्वम्, षढोः कः सि (8.2.41) इति कत्वम्, द्विर्वचनम्, अभ्यासकार्यम्। जुघुक्षते [जुधुक्षति - काशिका, पदमञ्जरी च] इति। गुहू संवरणे (धातुपाठः-896), पूर्ववत्सनः (1.3.62) इत्यात्मनेपदम्। रुरूषति इति। अज्झनगमां सनि (6.4.16) इति दीर्घः। अथ चकारेण यथेगन्तमनुकृष्यते, तथा चैकयोगनिर्दिष्टः श्रयतिरप्यनुकृष्येत? इत्यत आह - श्रिस्वृयूर्णुरभज्ञपि इत्यादि। श्रयतेः सनीदन्तर्घ (7.2.49) इतीटो विकल्पं विधास्यतीत्यतस्तस्येहानुवत्तिरपार्थिकेति नानुकृष्यते।

Prakriyasarvasvam

ग्रहगुहोरिगन्ताच्चैकाचः परस्य सन इण् स्यात् । आर्धधातुकत्वाद् गुणे प्राप्ते,

Sudha

सनि ग्रहगुहोश्चेति । चकारात् श्र्युकः किति (7.2.11) इत्यतः उक इत्यनुकृष्यते, न तु श्रयति, तस्य सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् (7.2.49) इति विकल्पस्य वक्ष्यमाणत्वात् । नेड्वशिकृति (7.2.8) इत्यतो नेडिति चानुवर्तते । तदाह - ग्रहेरित्यादिना । “बुभूषति” । भूधातोः धातोः कर्मणः समानकर्तुकादिच्छायां वा (3.2.7) इति सनि आर्धधातुकं शेषः (3.4.114) इत्यार्धधातुकसंज्ञायाम् आर्धधातुकस्येड् वलादेः (7.2.35) इति इडागमे प्राप्ते सनि ग्रहगुहोश्च (7.2.12) इत्यनेन निषिद्धे सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणे प्राप्ते इको झल् (1.2.9) इति कित्वेन क्ङिति च (1.1.5) इत्यनेन निषिद्धे सन्यङोः (6.1.9) इति द्वित्वे पूर्वोऽभ्यासः (6.1.4) इत्यभ्यासत्वे हलादिः शेषः (7.4.60) इत्यादिहलः शेषे ह्रस्वः (7.4.59) इति ह्रस्वे अभ्यासे चर्च (8.4.54) इति अभ्यासभकारस्य बत्वे आदेशप्रत्यययोः (8.3.59) इति सनः सस्य षत्वे “बुभूष” इति जाते सनाद्यन्ता धातवः (3.1.32) इति धातुत्वाल्लटस्तिपि शपि अनुबन्धलोपो अतो गुणे (6.1.97) इति पररूपे “बुभूषति” इति रूपम् । इति सन्नन्तप्रक्रिया ।

Sutra Prayogas

  • पुपूषता (शिशुपालवधम्): सनि ग्रहगुहोश्च इति इटः प्रतिषेधः।

  • निजिघृक्षयिष्यन् (भट्टिकाव्यम्): सनि ग्रहगुहोश्च इति इट्प्रतिषेधः।

  • विजिघृक्षु (भट्टिकाव्यम्): सनि ग्रह-गुहोश्च इतीट्प्रतिषेधः।

  • विजिघृक्षून्समागतान् (भट्टिकाव्यम्): सनि ग्रह - गुहोश्च इति।

  • विवरिषुर्द्रुतम् (भट्टिकाव्यम्): सनि ग्रह-गुहोश्च इति चकारेणेदप्रतिषेधे प्राप्ते ।

  • चिकरिषोर् (भट्टिकाव्यम्): सनि ग्रह - गुहोश्च इति प्रतिषेधे प्राप्ते।