72013: कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि¶
Padacheda: कृसृभृवृस्तुद्रुस्रुश्रुवः | S | 6 | 1 |
लिटि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The personal endings of the लिट् (Perfect Tense) do not get the augment इट् after 1 कृ 2. सृ 3. भृ 4. वृ 5. स्तु 6. द्रु 7. स्रु 8.श्रु।
Vasu English Translation¶
The personal endings of the लिट् (Perfect Tense) do not get the augment इट् after 1 कृ 2. सृ 3. भृ 4. वृ 5. स्तु 6. द्रु 7. स्रु 8.श्रु। Thus कृ - चकृव, चकृम; सृ, ससृव, ससृम; भृ, बभृव, बभृम; वृञ्, ववृव, ववृम; वृङ्, ववृवहे, ववृमहे; स्तु, तुष्टुव, तुष्टुम; द्रु, दुद्रुव, दुद्रम; स्रु; सुस्रुव, सुस्रुम; श्रु; शुश्रुव, शुश्रुम ॥ सिद्धे सत्यारम्भो नियमार्थः, क्रादय एव लिट्यनिटस्ततोन्ये सेट इति ॥
These roots with the exception of वृ are Anit by rule (7.2.10); their special mention here is for the sake of niyama, namely, these roots alone are Anit in the Perfect, other roots are all Set in the Perfect. Thus बिभिदिव, बिभिदिम, लुलुविव, लुलुविम ॥ All anudatta roots of the Dhatupatha are to be understood, by this rule, to get इट् ॥ The affix थ of the Perfect gets इट् after वृञ्, as the irregular form ववर्थ in (7.2.64), indicates that in the Veda, थ does not get इट् after वृञ्, but in the secular literature it does. By (7.2.63), the थ would have got इट् after स्तु, द्रु, स्रु and श्रु; that इट् is also prohibited by the present sutra. As तुष्टोथ, दुद्रोथ, स्रुस्रोथ, शुश्रोथ ॥
Vart:- इट् is added when कृ takes the सुट् augment : as संचस्करिव, संचस्करिम ॥ The rule (7.2.63), applies here also, as संचस्करिथ ॥
Bhashya¶
कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि ॥ कृञ्ञोऽसुटः ॥ कृञ्ञोऽसुट इति वक्तव्यम् । इह माभूत् - संचस्करिव । संचस्करिम ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् - गुणे कृते रपरत्वे चाऽनुगन्तत्वादिट्प्रतिषेधो न भविष्यति ॥ एवमप्युपदेशाधिकारात्प्राप्नोति तस्मादसुट इति वक्तव्यम् ॥ ( कृसृभृवृ )
Kashika¶
कृ सृ भृ वृ स्तु द्रु स्रु श्रु इत्येतेषां लिटि प्रत्यय इडागमो न भवति। कृ — चकृव, चकृम। सृ — ससृव, ससृम। भृ — बभृव, बभृम। वृञ् — ववृव, ववृम। वृङ् — ववृवहे, ववृमहे। स्तु — तुष्टुव, तुष्टुम। द्रु — दुद्रुव, दुद्रुम। स्रु — सुस्रुव, सुस्रुम। श्रु — शुश्रुव, शुश्रुम। सिद्धे सत्यारम्भो नियमार्थः। क्रादय एव लिट्यनिटस्ततोऽन्ये सेट इति। बिभिदिव, बिभिदिम। लुलुविव, लुलविम। अनुदात्तोपदेशानामत्र प्रकृत्याश्रयः प्रतिषेधः, वृञ्वृङोस्तु प्रत्ययाश्रयः, तदुभयस्याप्ययं नियमः। वृञो हि थलि ववर्थ (७.२.६४) इति निपातनाद् व्यवस्था, स्तुद्रुस्रुश्रुवां तु ऋतो भारद्वाजस्य**(७.२.६३) इत्यस्मादपि नियमाद् य इट् प्राप्नोति सोऽपि नेष्यते। तुष्टोथ। दुद्रोथ। सुस्रोथ। शुश्रोथ॥ कृञोऽसुट्कस्येति वक्तव्यम्॥ ससुट्कस्येडागमो यथा स्यात्। संचस्करिव। संचस्करिम। **ऋतो भारद्वाजस्य (७.२.६३) इत्येतदप्यसुट्कस्यैवेष्यते। संचस्करिथ॥
Siddhanta Kaumudi¶
एभ्यो लिट इण्न स्यात् । क्रादीनां चतुर्णां ग्रहणं नियमार्थम् । प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्निषेधः स लिटि चेत्तर्हि क्रादिभ्य एव नान्येभ्य इति । ततश्चतुर्णां थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थम् ॥
Laghu Siddhanta Kaumudi¶
क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटोऽपि स्यात् ॥
Balamanorama¶
कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि - कृसृ । कृ सृ भृ वृ स्तु द्रु रुआउ श्रु इत्यष्टानां समाहारद्वन्द्वात्पञ्चमी । लिटीति षष्ठर्थे सप्तमी । ‘नेड्वशि कृती’ त्यतो नेति इडिति चानुवर्तते । तदाह — एभ्य इति । ननुएकाच उपेदशेऽनुदात्ता॑दिति, ‘श्र्युकः किति’ इति च सिद्धे किमर्थमिदं सूत्रमित्यत आह -क्रादीनामिति । कृ सृ भृ वृ इत्येतेषामित्यर्थः । नियमस्वरूपमाह - प्रकृत्याश्रय इत्यादि । कृ सृ भृ इत्येषां त्रयाणामनुदात्तोपदेशान्तर्भूतानामेकाच उपदेश इति यः प्रकृत्याश्रयो निषेधः, यश्च वृधातोःश्र्युकः किती॑ति पत्र्ययाश्रयो निषेधः, तदुभयमपि यदि लिटि स्यात्तर्हि कृसृभृवृ इत्येभ्य एव परस्य लिटो भवति, नतु तदन्येभ्यः परस्येत्यर्थः । तेन बिभिदिव बिभिदिमेत्यादौ ‘एकाच उपदेशे’ इति निषेधः, बभूविव बभूविमेत्यादौश्र्युकः किती॑ति निषेधश्च न भवति । अथ स्तुद्रुरुआउश्रुवां ग्रहणस्य प्रयोजनमाह — — तत इति ।अन्येषा॑मिति शेषः । चतुर्णामिति ।ग्रहम॑मिति शेषः । ततः = तेभ्यः कृसृभृवृ इत्येभ्यः — अन्येषां स्तुद्रुरुआउश्रुवां ग्रहणं थलि तुष्टोथ दुद्रोथ सुरुआओथ शुश्रोथ इत्यत्रऋतो भारद्वाजस्ये॑ति वक्ष्यमामेनऋदन्तस्यैव थलि नेट् अन्यस्य तु स्यादेवे॑ति नियमेन प्र#आप्तस्य इटो निषेधार्थम्, तथा तुष्टुव तुष्टुमेत्यादौ ‘कृसृभृवृ’ इत्युक्तेनक्रादिभ्य एव परस्य लिट इण्निषेधः, अन्येभ्यस्तु परस्य इट् स्यादेवे॑ति नियमेन प्राप्तस्य इटो निषेदार्थं चेत्यर्थः । तदेवमजेस्थलि वीभावे ‘एकाचः’ इति निषेधाऽभावादिडागमो निर्बाध इति स्थितम् ।
Tattvabodhini¶
कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि - कृसृभृ ।डुकृञ् करणे॑ ।कृञ् हिंसायाम् । इह निरनुबन्धग्रहणादेकानुबन्धद्वयनुबन्धयोरुभयोग्र्रहणम् । एवमग्रेऽपिभृञ् भरणे॑डुभृञ् धारणपोषणयो॑रित्युभयोग्र्रहमम् ।सृ गतौ॑ ।वृङ् संभक्तौट ।वृञ् वरणे॑ । इह निरनुबन्धकग्रहणाद्भिन्नानुबन्धयोरप्युभयोग्र्रहणम् । कृ सृ भृ एषामनुदात्तत्वात्एकाच उपदेश॑ इति प्रकृत्याश्रये निषेधे प्राप्ते, वृङ्वृञोस्तूदात्तत्वात्श्र्युकः किती॑ति प्रत्ययाश्रये निषेधे प्राप्ते नियमोऽयमित्याह — क्रादीनां चतुर्णामिति । इह स्तुद्व्रादीनां चतुर्णां ग्रहणस्य भारद्वाजनियमप्रापितेण्निषेधोऽपि प्रयोजनमिति बोधयितुमष्टानां ग्रहणमिति नोक्तम् । इण्निषेध इति ।नेड्वशी॑ति प्रक्रमान्नञा प्रापितस्यैवाऽभावस्य नियमो न तु विभाषाबलभ्यस्यापि ।अनन्तरस्ये॑ति न्यायादपि संनिहितस्यैव नियम उचितः । तेन — सिषेधिथ । सिषेद्ध । सिषिधिव । सिषिध्व इत्याद्युभयं भवति । नान्येभ्य इति.तेन पेचिव, बभूविवेत्यादि सिद्धम् । नचैवं क्रादिनियमेनैवनेड्वशि कृती॑ति निषेधस्याप्यप्रवृत्तौ सेदिवान् जक्षिवानित्यादि सिध्यत्येवेतिवस्वेकाजाद्धसा॑मितीड्विधानं किमर्थमिति शङ्क्यं, तस्य नियमार्थत्वेन व्याख्यास्यमानत्वात् । अन्यथा बभूवानित्यत्रापीडागमः स्यादिति । नन्विहक्रादिभ्यश्चेदिण्न स्यात्तर्हि लिटएवे॑ति विपरीतनियमः किं न स्यात् । तथा च कर्ता अकार्षीदित्यादाविडागमः स्यादिति चेत् । मैवम् ।कृते ग्रन्थे॑,तमधीष्टो भृतः॑, परिवृतो रथः॑ इत्यादिनिर्देशविरोधापत्तेः । वमादिष्विति । आदिशब्ेदन सेध्वेवहिमहीनां ग्रहणम् । तुष्टुध्वे । तुष्टुवहे । तुष्टुमहे इत्यादि । स्यादेतत् — अस्तु प्रकृत्याश्रयनिषेधस्य नियमः, प्रत्ययाश्रयस्य तु न संभवति, वृग्रहमस्य ववर्थेत्यत्राऽप्राप्तनिषेधप्रापकत्वात् । न ह्यत्र प्रत्ययाश्रयो निषेधः प्राप्नोति, थलोऽकित्त्वात् । नापि प्रकृत्याश्रयः , वृञ उदात्तत्वात् । न चैवम्पि वृङो नियमार्थत्वमस्त्विति वाच्यं, तस्य विशिष्याऽग्रहणात् । यद्यपि विशिष्य ग्रहणे वृञोऽपि नास्ति, तथाप्यप्राप्तनिषेधप्राप्तिफलकत्वाद्वृ इति वृञ एव ग्रहणं भवेत् । विदिनियमयोर्विधिरेव ज्यायानिति न्यायात् । एवं च बभूविवेत्यादौश्र्युकः किती॑ण्निषेधो दुर्वार इति चेत् । अत्राहुः — बभूथाततन्थजगृजगृम्भववर्थेति निगमे॑ इति सूत्रेण छन्दसि ववर्थेति निपातनाद्भाषायां वृञस्थल इटः स्वीकर्तव्यतया वृग्रहणस्य थल्विषयत्वाऽयोगात्, वमादीनां च कित्त्वन नियमस्य सुस्थत्वादिति ।
Padamanjari¶
क्रादय एव लिट।ल्निट इति । लिट।लेव क्रादयोऽनिटः इत्येष तु विपरीतोऽत्र नियमो न भवति क्रादीनामनुदातोपदेशसामर्थ्यात् । कृतलब्धक्रीतकुशलाः, तमधीष्टो भृतो भूतः, परिवृतो रथः स्तुतस्तोमयोः इत्यादिनिर्देशाच्च । केन पुनरेषामिट्प्रतिषेधः सिद्धः, यतो नियमार्थोऽयमारम्भः इत्यत आह - अनुदातोपदेशानामित्यादि । वृङ्वृञ्भ्यामन्येऽनुदातोपदेशास्तेषां प्रकृत्याश्रयः एकाच उपदेशे इतीट्प्रतिषेधः सिद्धः । वृङ्वृञोस्तु प्रत्ययाश्रयः र्श्युकः किति त्येषिः । तस्मादुभयस्यापि - प्रकृत्याश्रस्य, प्रत्ययाश्रयस्य च । कथं पुनरयं प्रत्ययाश्रयचस्य नियमः, यावता वृग्रहणं वृञस्थलि विध्यर्थं सम्भवति, न हि तत्र प्रकृत्याश्रयः प्रतिषेधः, वृञ उदातत्वात्, नापि प्त्ययाश्रयः थलः कित्वाभावात्, असति प्रत्ययाश्रयस्य नितयमे लुलुविथेत्यादाविण्न स्यात् इत्यत आह - वृञो हीति । व्यवस्था - नियमः । इह तुष्टोथेत्यादौ ऋतो भारद्वाजस्य इत्येतस्मान्नियमादिट् प्राप्नोति, ययिथेत्यादिवत् । यथा हि ययिथ, पपिथेत्यादौ आधेधातुकस्य इतीट् प्रप्तः एकाचः इति निषिद्धः, पुनः क्रादिनियमात् प्राप्तः अचस्तास्वत्थलि इति प्रतिषिद्धः, ततः ऋतो भारद्वाजस्य थलि प्रतिषेधो नान्येभ्यः इति नियमात्पक्षे इड् भवति, तथात्रापि स्यात् । कथं खलु क्रादिनियमस्य बाधकमचस्तास्वत् इति प्रतिषेधं बाधमानो भारद्वाजनियमः क्रादिप्रतिषेधं न बाधते कृसुभृवृ इत्येतेषु पुर्वायं दोषस्तेषामृकारान्तत्वेन भारद्वाजपक्षेऽपीटः प्रतिषेधात् । एवं तर्हि स्तुद्रुस्रुश्रुवां ग्रहणं विध्यर्थं भविष्यति, तासति हि विधेये नियमो भवति, इह चास्ति विधेयम्, किम् थलि भारद्वाजनियमादिटः प्राप्तस्य प्रतिषेधः, इतरेषां तु क्रादीनां ग्रहणं नियमार्थ भविष्यतीति । बिभिदिव, लुलुविवेत्यादावपि न दोषः । कथं पुनस्तुष्टुअमः अत्र हि क्रादिनियमादिट् प्राप्नोति नैष दोषः स्तुद्रुस्रुश्रुवां ग्रहणमुभयोरपि प्रतिषेधार्थम् । यश्च क्रादिनियमादिट् प्राप्तः यश्च भारद्वाजनियमात्, तयोरुभयोरपीत्यर्थः । यद्येवम्, येन नाप्राप्तिन्यायेन क्रादिनियममेव स्तुद्रुस्रुश्रुवां प्रतिषेधो बाधेत, न तु विकल्पेन प्राप्तं भारद्वाजनियमम्, ततश्चासौ स्यादेव इत्याशङ्क्याह - पूर्वकत्वातप्रतिषेधस्य पूर्व विधिप्रकरणं पठितव्यम्, आर्धधातुकस्य इत्यारभ्य ईडडजनोर्ध्वे च इत्येवमन्तम्, पश्चातप्रतिषेधप्रकरणम्, तद्यथाऽन्यत्रापि - कर्तरि कर्मव्यतिहारे , न गतिहिंसार्थेभ्यः इति । तत्रायमर्थो द्विरिड्ग्रहणं न कर्तव्यं भवति, प्रकृतमनुवर्तते । नन्वेवम्, रुदादिभ्यः सार्वधातुके इति सार्वधातुकग्रहणम्, लिङ्ः सलोपोऽनन्तयस्य इत्यत्र विच्छिद्येत एवं तर्हि न वृद्भ्यश्चतुर्भ्यः इत्यत्रैव पठितव्यम्, एवं हि विध्युतरकारश्च प्रतिषेधः कृतो भवति, द्विश्चेड्ग्रहणं न कर्तव्यं भवति, सार्वधातुकग्रहणं च सलोपे न विच्छिद्यते, अपि च द्विःप्रतिषेधो न कर्तव्यो भवति, सोऽयमेवं सिद्धे यत्पुरस्तातप्रतिषेधकाण्डं करोति, तस्यैततप्रयोजनम् - थानाश्रितविधानविशेषमिण्मात्रमनारभ्याधीतेन प्रतिषेधेन यथा बाध्येतेति । यदि तु भारद्वाजनियमात्परमिदं काण्डं क्रियेत, ततो मध्येऽपवादन्यायेव मारद्वाजनियमः अचस्तास्वत् इति प्रतिषेधेमेव, बाधेत, न तु क्रादिनिषेधमिति पुरस्तातप्रतिषेधकरणे न कश्चिद्दोषः । अपर आह - यत्र तत्र वा प्रतिषेधकरणमस्तु, सर्वथा तु भारद्वाजनियमः अचस्तास्वत् इति योगद्वयेन थलि यः प्रतिषेधः प्राप्तस्तस्यैव नियामकः, अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति, ततश्च स्तुद्रुस्रुश्रुवामपि भारद्वाजनियमेव थाचस्तास्वत् इति प्रतिषेध एव निवर्तते, न तु क्रादिप्रतिषेधः इति । तन्मते पुरस्तात्प्रतिषेधकरणस्य प्रयोजनमुतरत्र दर्शयिष्यामः । कृञोऽसुट इति वक्तव्यमिति । कृतेऽपि करोतिर्भवत्येवेति प्रतिषेधप्रसङ्गः ॥
Nyaas¶
सकृव, चकृम इति। परस्मैपदानाम् (3.4.82) इत्यादिना वस्मसोर्वमादेशौ। क्रादय एव इति। नियमस्य स्वरूपं दर्शयति। लिटएव क्रादयोऽनिटः इत्येष तु विपरीतनियमो नाशङ्कनीयः; कृतलब्धक्रीतकुशलाः (4.3.38) इति तमधीष्टो भृतो भूतो भावी (5.1.80) इत्यादिनिर्देशात्। केन पुनस्तेषामिट्प्रतिषेधः सिद्धः, यतः सिद्धे सत्यारम्भो नियमार्थ उच्यते? इत्यत आह - अनुदात्तोपदेशानाम् इत्यादि। अनुदात्तोपदेशा वृङ्वृञ्भ्यामन्ये करोत्यादयः, तेषामेव अचः (7.2.10) इत्यादिना प्रकृत्याश्रयः प्रतिषेधः सिद्धः। वृङ्वृञोस्तु श्रयुकः किति (7.2.11) इति प्रत्ययाश्रयः, न तु प्रकृत्याश्रयः; तयोरुदात्तत्वात्। तत् इत्यादि। यत एव तेषां यथायोगं प्रकृत्याश्रयः प्रत्ययाश्रयश्च प्रतिषेधः सिद्धः, तस्मादुभयस्यापि प्रतिषेधस्य प्रयुक्तस्यायं नियम इत्यर्थः। धात्वन्तरेभ्यो व्यवच्छिद्य करोत्यादीनां प्रतिषेधस्थेह नियमो वेदितव्यः। कथं पुनरेतद्वृञं प्रति थलि नियमार्थमुपपद्यते? सति हि प्रतिषेधे नियमो भवति। वृञस्थलीट्प्रतिषधः। तस्य हि नात्र प्रकृत्याश्रयः प्रतिषेधः सिद्धः; उदात्तत्वात्। नापि प्रत्ययाश्रयः; थलः कित्त्वाभावात्। तस्मात्? वृञं प्रति थलीट्प्रतिषेधार्थतैव युक्ता, न नियमार्थता? इत्यत आह - `वृञो हि इत्यादि। व्यवस्था=नियमः। बभूथाततन्थजगृम्भववर्थेति निगमे (7.2.64) इति निपातनाट्वृञो निगम एव थलीट्प्रतिषेधेन भवितव्यम्, न भाषायाम्। यत एवं व्यवस्था तस्मान्नायं वृञस्थलीट्प्रतिषेधः; अन्यथा ववर्थेति निपातनस्य वैयथ्र्यं स्यात्। तस्मात्? प्रतिषेधाभावात्? वृञोऽप्येतत्? सूत्रं नियमार्थमेव विज्ञायत इत्येकान्त एषः। स्तुद्रुरुआउश्रुवां तु इत्यादि। अपिशब्दः आर्धधातुकलक्षणोऽपि य इट्? प्राप्नोति सोऽपि नेष्यत इति दर्शनार्थः। कथं पुनरिष्यमाणोऽपि लभ्यते, पुरस्तात्, प्रतिषेधकाण्डस्य बलीयस्त्वात्। इह च न वृद्भ्याश्चतुभ्र्यः (7.2.59) इत्यस्यानन्तरमिदं प्रतिषेधकाण्डं कर्त्तुं युक्तम्। एवं द्विष्प्रतिषेधाश्रयणं न कर्तव्यं स्यात्। यदयं पुरस्तात्? प्रतिषेधं करोति, तस्यैतत्? प्रयोजनम् - इष्मात्रस्यानाश्रितविशेषविधानस्य प्रतिषेधो विज्ञायते, पुरस्तात्? प्रतिषेधे क्रियमाणे सति विशेषमनाश्रित्येण्मात्रस्यायमपवादो भवति। तेन यावानिट्? प्राप्तस्तस्य सर्वस्य प्रतिषेधो भवति सिद्धः। अन्यस्त्वाह - नेटि (7.2.4) इत्यनुवर्तमाने पुनरिङ्ग्रहणसामर्थ्यात्, पुनः प्रतिषेधसामर्थ्याच्च इण्मान्नस्य प्रतिषेधो विज्ञायते। कुञोऽसुट्कस्येति वक्तव्यम् इति। करोतेरविद्यमानसुटः षतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। किमर्थम्? ससुट्कस्येडागमो यथा स्यात्। तत्रेदं व्याख्यानम् - द्वन्द्वे घि (2.2.32) इत्यनेन स्तुप्रभृतीनामन्यतमस्य घिसंज्ञकस्य पूर्वनिपातमकृत्वैतत्? सूचितम् - यतेह पूर्वनिपातलक्षणं व्यभिचरति स्वविषये न प्रवर्तते, तथेदमपीति। तेन यदा करोतिः ससुट्कः, तत्र न प्रवर्तत इति। सञ्चस्करिव, सञ्चस्करिम इति। सम्पर्युपेभ्यः करोतौ भूषणे (6.1.137) इति सुडित्यनुवर्तमाने अडभ्यासव्यवायेऽपि (6.1.136) इति सुट् क्रियते। ऋतो भारद्वाजस्य (7.2.63) इत्येतदप्यसुयट्कस्यैवेष्यते इति। कृञः इति सम्बध्यते। कथं पुनरसुट्कस्यैव भवतीति लभ्यते? यथा लभ्यते तच्च श्रूयताम् - तत्र हि उदितो वा (7.2.56) इत्यतो वेत्यनुवर्तते मण्डूकल्पुतिन्यायेन, सा च व्यवस्थितविभाषा, तेनासुट्कस्यैव भवतीति॥
Prakriyasarvasvam¶
क्रादिभ्य एव लिटीण् न स्यात्, अन्यस्मात्त्वनिटोऽपि स्यादेव । इतीट् । जिग्यिव जिग्यिम । भावकर्मणोस्तङि सर्वत्र कित्त्वाद्गुणाभावे यण् । जिग्ये जिग्याते जिग्यिरे । जिग्यिषे जिग्याथे जिग्यिढ्वे, जिग्यिध्वे । जिग्ये जिग्यिवहे जिग्यिमहे ।। आशीर्लिङि ‘अकृत्सार्वधातुकयोः’ इति दीर्घः । जीयात् जीयास्ताम् । भावादौ सीयुटि वा चिण्वदिट् । जायिषीष्ट, जेषीष्ट । जायिषीयास्ताम्: जेषीयास्ताम् । जायिषीढ्वम्, जायिषीध्वम्, जेषीढ्वम्, जेषीध्वम् । लुटि जेता जेतारौ । भावादौ वा चिण्वदिट् । जायिता जायितारौ, जेता जेतारौ इत्यादि । तङ् भेदः ।। लृटि जेष्यति । भावादौ जायिष्यते, जेष्यते ।। लृङि अजेष्यत् अजायिष्यत, अजेष्यत । अभिभवार्थे कर्मकर्तर्यपि । सर्वं कर्मवत् । लुङि ‘अचः कर्मकर्तरि’ इति वा चिण् । तदभावे चिण्वदिड्विकल्पः । अजायि, अजायिष्ट, अजेष्ट शत्रुः स्वयमेव । ‘विपराभ्यां जेः’ इति तङ्यपि विजयत इत्यादि । लुङादौ व्यजेष्टेत्यादिकर्मोक्ताचिण्वत्पक्षवत् । एवं पराजयते शत्रुः शत्रुं वा । आद्ये जयवैपरीत्यमर्थः ।। इति । तप सन्तापे । तपति । कर्मणि तप्यत इत्यादि । लिङादौ तपेत् । तपतु, अतपत् । लुङि सिच् ईट् । अनिट्त्वात् तप् सीत् ।
Sutra Prayogas¶
चकृमे (भट्टिकाव्यम्): कृ-सृ- इति उत्तमपुरुषे लिटि कृते इट्प्रतिषेधः नियमितः।