72012: सनि ग्रहगुहोश्च ====================== **Padacheda:** सनि | S | 7 | 1 | ग्रहगुहोः | S | 6 | 2 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The Desiderative affix सन् does not get the augment इट् , not only after roots ending in 1. उ 2. ऊ 3. ऋ and 4. ॠ but also after ग्रह and गुह। Vasu English Translation ------------------------ The Desiderative affix सन् does not get the augment इट् , not only after roots ending in 1. उ 2. ऊ 3. ऋ and 4. ॠ but also after ग्रह and गुह। As जिघृक्षति, जुघुक्षति, रुरूषति, लुलूषति ॥ The *anuvritti* of श्रि is not drawn into this *sutra*, as option is allowed regarding it by (6.2.4). ग्रह would always get इट्, गुह् (1.944) being ऊदित् (in the *Dhatupatha*), would have optionally taken इट् (7.2.44) The forms जिघृक्षति and जुघुक्षति are thus evolved :- ग्रह् + सम् (the affix is कित् by (1.2.8)) = गृह् + सन् (6.1.16) = गृढ् + सन् (8.2.31) = गृक् + सन् (8.2.41) = जिघृक्षति (8.2.37). So also with गुहू संवरणे, the सन् is कित् here by (1.2.10). Kashika ------- ग्रह गुह इत्येतयोरुगन्तानां च सनि प्रत्यये परत इडागमो न भवति। जिघृक्षति। जुघुक्षति। उगन्तानां च — रुरूषति। लुलूषति। **सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्** (७.२.४९) इति विकल्पविधानात् श्रयतिरत्र नानुकृष्यते। ग्रहेर्नित्यं प्राप्तः, गुहेरूदित्त्वाद् विकल्पः॥ Siddhanta Kaumudi ----------------- ग्रहेर्गुहेरुगन्ताच्च सन इण्न स्यात् । ग्रहिज्या - (SK2412) इति संप्रसारणम् । सनः षत्वस्यासिद्धत्वाद्भष्भावः । जिघृक्षति । सुषुप्सति ॥ Laghu Siddhanta Kaumudi ----------------------- ग्रहेर्गुहेरुगन्ताच्च सन इण् न स्यात् । बुभूषति ॥ इति सन्नन्तप्रक्रिया ॥ Balamanorama ------------ **सनि ग्रहगुहोश्च** - सनि ग्रहगुहोश्च । चकारात्श्र्युकः किती॑त्यत उक इत्यनुकृष्यते, न तु श्रयतिः, तस्यसनीवन्तर्धे॑ति विकल्पस्य वक्ष्यमाणत्वात् ।नेड्वशि कृती॑त्यतो नेडिति स इति स्थिते सनः कित्त्वात्ग्रहीज्ये॑ति रेफस्य संप्रसारणमृकार इत्यर्थः । ननु गृह् स इति स्थिते हस्य ढत्वे भष्भावापेक्षया परत्वात्कत्वे सस्य षत्वे च कृते झषन्तत्वाऽभावे कथं भष्भाव इत्यत आह — सनः षत्वस्येति । कत्वस्याऽसिद्धत्वादित्येव सुचवचम् । जिघृक्षतीति । गृह् स इति स्थिते हकारादिणः परस्य षत्वं परत्वात् प्राप्तं, तस्याऽसिद्धत्वात् हस्य ढत्वे भष्भावः, ततः कत्वे कात्परस्य षत्वमिति क्रम इतिभावः । गुहेः जुघुक्षतीत्युदाहार्यम् । उगन्तात् - - बुभूषति । अत्रश्र्युकः किती॑त्यनेन तु न सिध्यति, तत्र कित एव निषेधात् । परत्वादिडागमेइको झ॑लित्यस्याऽप्राप्तेः । स्पष्टं चेदं शब्देन्दुशेखरे । सुषुप्सतीति । सनः कित्त्वात्वचिस्वपी॑ति संप्रसारणं, लघूपधगुणाऽभावश्च । Tattvabodhini ------------- **सनि ग्रहगुहोश्च** - सनि ग्रहगुहोश्च । ग्रहेर्नित्यं, गुहेर्विकल्पेन प्राप्ते निषेधोऽयम् । सनः षत्वस्यासिद्धत्वाद्भष्भाव इति । रकुत्वस्याऽसिद्धत्वाद्भष्भाव इत्येव सुवचम् । केचित्तु ढत्वे सति भष्भाव इत्यध्यहारेण योजयन्ति । तथा च जगृह् स इति स्थिते इणः परत्वेन सस्य षत्वं प्राप्तं,तस्याऽसिद्धत्वाड्ढत्वे भष्भावः । ततश्च कत्वे कवर्गात्परस्य षत्वमिति विधिक्रमः । अन्ये तु षत्वे ढत्वे च कृते पश्चाद्भष्भावे कर्तव्ये सकारपरत्वाऽभावाद्भष्भावो न स्यादित्याशङ्कायां सनः षत्वस्याऽसिद्धत्वादिति ग्रन्थः प्रवृत्त इति कार्याऽसिद्धपक्षावलम्बनेन व्याचक्षते । जिघृक्षतीति । गुहेर्जुघुक्षति । सूत्रे चकारात्श्र्युकः किती॑ त्यत उक इत्यनुकृष्यते । उगन्तात्- बुभूषति । लुलूषति । श्रयतिस्तु नाऽनुकृष्यते, तस्यसनीवन्तर्धे॑ति विकल्पविधानात् । Padamanjari ----------- चकार उगनुकर्षणार्थः । न च इको झल् इति सनः कित्वात् उगन्तानां पूर्वेणैव सिद्धिः किं कारणम् झलादौ सनः कित्वम्, न चान्तरेणेटट्प्रतिषेधं सन् झलादिर्भवति, तेन येषु प्रकृत्याश्रयः प्रतिषेधो नास्ति, तेष्वनेनैवेटि प्रतिषिद्धे झलचादित्वे सनः कितवमित्येष क्रमः । जिधृक्षतीति । रुदविद इत्यादिना सनः कित्त्वम्, ग्रहिज्यादिसूत्रेण तम्प्रसारणम्, हो ढः, षढो कस्सि, एकोचो बशो भष् । जुघुक्षतीति । गुहू संवरणे, स्वरितेत्, हलन्ताच्चेति सनः कित्वम् । अथ चकारेणोगिदिव श्रयतिरपि कस्मान्नानुकृष्यते अत आह - श्रिस्वृयूर्ण्वित्यादि ॥ Nyaas ----- ग्रहेः सनि चित्यमिटि प्राप्ते गुहेरप्यूदित्त्वात्? `स्वरति` (7.2.44) इत्यादिसूत्रेण विकल्पे प्राप्तेऽस्यारम्भः। चकारः `उकः` (7.2.11) इत्यनुकर्षणार्थः। ननु च **इको झल्** (1.2.9) इत्युगन्तानां किदेव सन्? तत्र पूर्वेणैव प्रतिषेधः सिद्धः किमुक इत्यनुकर्षणार्थेन चकारेण? नैतदस्ति; न हीट्प्रतिषेधमन्तरेण सनो झलादित्वमुपपद्यते, कुतः कित्त्वम्! अनेन त्विटि प्रतिषिद्धे झलादित्वं सनो जायते, पश्चाद्गुणप्रतिषेधार्थं कित्त्वमिति क्रमः। `जिघृश्रति` इति। `रुदविद` (1.2.8) इत्यादिना सनः कित्त्वे सति ग्रह्रादि (6.1.16) सूत्रेण सम्प्रसारणम्, `हो ढः` (8.2.31) इति ढत्वम्, **षढोः कः सि** (8.2.41) इति कत्वम्, `इण्कोः` (8.2.57) इति षत्वम्, `एकाचो वशो भष्` (8.2.37) इत्यादिना भष्भावेन गकारस्य घकारः, द्विर्वचनम्, अभ्यासकार्यम्। `जुधुक्षति` इति। `रुदविद` (1.2.8) इत्यादिना सनः कित्त्वे सति ग्रह्रादि (6.1.16) सूत्रेण सम्प्रसरणम्, `हो ढः` (8.2.31) इति ढत्वम्, **षढोः कः सि** (8.2.41) इति कत्वम्, द्विर्वचनम्, अभ्यासकार्यम्। `जुघुक्षते` [`जुधुक्षति` - काशिका, पदमञ्जरी च] इति। `गुहू संवरणे` (धातुपाठः-896), `पूर्ववत्सनः` (1.3.62) इत्यात्मनेपदम्। `रुरूषति` इति। **अज्झनगमां सनि** (6.4.16) इति दीर्घः। अथ चकारेण यथेगन्तमनुकृष्यते, तथा चैकयोगनिर्दिष्टः श्रयतिरप्यनुकृष्येत? इत्यत आह - `श्रिस्वृयूर्णुरभज्ञपि` इत्यादि। श्रयतेः `सनीदन्तर्घ` (7.2.49) इतीटो विकल्पं विधास्यतीत्यतस्तस्येहानुवत्तिरपार्थिकेति नानुकृष्यते। Prakriyasarvasvam ----------------- ग्रहगुहोरिगन्ताच्चैकाचः परस्य सन इण् स्यात् । आर्धधातुकत्वाद् गुणे प्राप्ते, Sudha ----- **सनि ग्रहगुहोश्चेति ।** चकारात् **श्र्युकः किति** (7.2.11) इत्यतः उक इत्यनुकृष्यते, न तु श्रयति, तस्य **सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्** (7.2.49) इति विकल्पस्य वक्ष्यमाणत्वात् । **नेड्वशिकृति** (7.2.8) इत्यतो नेडिति चानुवर्तते । तदाह - **ग्रहेरित्यादिना** । "बुभूषति" । भूधातोः **धातोः कर्मणः समानकर्तुकादिच्छायां वा** (3.2.7) इति सनि **आर्धधातुकं शेषः** (3.4.114) इत्यार्धधातुकसंज्ञायाम् **आर्धधातुकस्येड् वलादेः** (7.2.35) इति इडागमे प्राप्ते **सनि ग्रहगुहोश्च** (7.2.12) इत्यनेन निषिद्धे **सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणे प्राप्ते **इको झल्** (1.2.9) इति कित्वेन **क्ङिति च** (1.1.5) इत्यनेन निषिद्धे **सन्यङोः** (6.1.9) इति द्वित्वे **पूर्वोऽभ्यासः** (6.1.4) इत्यभ्यासत्वे **हलादिः शेषः** (7.4.60) इत्यादिहलः शेषे **ह्रस्वः** (7.4.59) इति ह्रस्वे **अभ्यासे चर्च** (8.4.54) इति अभ्यासभकारस्य बत्वे **आदेशप्रत्यययोः** (8.3.59) इति सनः सस्य षत्वे "बुभूष" इति जाते **सनाद्यन्ता धातवः** (3.1.32) इति धातुत्वाल्लटस्तिपि शपि अनुबन्धलोपो **अतो गुणे** (6.1.97) इति पररूपे "बुभूषति" इति रूपम् । इति सन्नन्तप्रक्रिया । Sutra Prayogas -------------- * **पुपूषता** (शिशुपालवधम्): `सनि ग्रहगुहोश्च` इति इटः प्रतिषेधः। * **निजिघृक्षयिष्यन्** (भट्टिकाव्यम्): `सनि ग्रहगुहोश्च` इति इट्प्रतिषेधः। * **विजिघृक्षु** (भट्टिकाव्यम्): `सनि ग्रह-गुहोश्च` इतीट्प्रतिषेधः। * **विजिघृक्षून्समागतान्** (भट्टिकाव्यम्): `सनि ग्रह - गुहोश्च` इति। * **विवरिषुर्द्रुतम्** (भट्टिकाव्यम्): `सनि ग्रह-गुहोश्च` इति चकारेणेदप्रतिषेधे प्राप्ते । * **चिकरिषोर्** (भट्टिकाव्यम्): `सनि ग्रह - गुहोश्च` इति प्रतिषेधे प्राप्ते।