72007: अतो हलादेर्लघोः¶
Padacheda: अतः | S | 6 | 1 |
हलादेः | S | 6 | 1 |
लघोः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
Before the इट् beginning s-Aorist of the परस्मैपद the short अ of the root gets optionally वृद्धि when the अङ्ग (stem) begins with a consonant and the अ is prosodially short by being followed by a simple consonant.
Vasu English Translation¶
Before the इट् beginning s-Aorist of the परस्मैपद the short अ of the root gets optionally वृद्धि when the अङ्ग (stem) begins with a consonant and the अ is prosodially short by being followed by a simple consonant. Thus अकणीत् or अकाणीत्, अरणीत् or अराणीत् ॥ Why do we say ‘of अ’ ? Observe अदेवीत्, असेवीत् ॥ Besides this patent objection, there is another, not so manifest. If we had not taken अतः, the sutra would have ordained Vriddhi of every vowel (अचः (7.2.3)), the Vriddhi so ordained would be an अच् pertaining Vriddhi, and not an इक्-pertaining Vriddhi. Therefore ङित् affixes will not debar such Vriddhi, for the क्ङिति च (1.1.5), debars only इग्लक्षणा Vriddhi. Therefore कुटादि roots after which सिच् is ङित् (1.2.1), will get Vriddhi, which is not desired. Therefore we have only one form of न्यकुटीत्, न्यपुटीत् ॥
Why do we say ‘beginning with a consonant’? Observe मा भवानशीत्, मा भवानटीत् from अश् and अट् ॥ Why do we say ‘prosodially short’? Observe अतक्षीत्, अरक्षीत् ॥
But why does not vriddhi take place in अचकासीत् from the root चकास् (Ad. 65) ? The vriddhi does not take place on the maxim येन ना व्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्; for the rule applies to short अ only when a consonant intervenes between it and the affix, and not when both consonants and vowels intervene. In चकास् not only the consonants क् and स् intervene but also the vowel आ ॥ Hence there is no vriddhi. Moreover, the व्यवधान can be by one letter and not by more than one letter. Therefore, applying this maxim, the word लंघाः might have been omitted from the sutra without any detriment. In that case, the form अतक्षीत् from the root तक्ष (Bhu 685) will be explained by saying that rule (7.2.7) does not apply to it, because two consonants intervene between अ and the affix. In this view of the case, the employment of the word लघोः in the sutra is for the sake of distinctness only.
The word इट् is understood in this sutra, so that the rule applies to सेट् aorist. The rule therefore, does not apply to Anit aorist, as अपाक्षीत् ॥
The form अपिपठिषीत् the aorist of the Desiderative root, is explained by saying that the long आ of vriddhi is elided by (6.4.64).
Kashika¶
हलादेरङ्गस्य लघोरकारस्येडादौ सिचि परस्मैपदपरे परतो विभाषा वृद्धिर्न भवति। अकणीत्, अकाणीत्। अरणीत्, अराणीत्। अत इति किम्? अदेवीत्। असेवीत्। न्यकुटीत्, न्यपुटीत् इत्यत्रात इत्यस्मिन्नसति स्थानिनिर्देशार्थमच इत्येतदनुवर्तयितव्यम्। तत्राज्लक्षणा वृद्धिरिग्लक्षणा न भवतीति क्ङिति च (१.१.५) इति प्रतिषेधो न स्यात्। हलादेरिति किम्? मा भवानशीत्। मा भवानटीत्। लघोरिति किम्? अतक्षीत्। अरक्षीत्। अथेह कस्माद् न भवति अचकासीदिति? येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् इति हला व्यवधानमाश्रितम्, न पुनरचापि व्यवधानमिति वृद्धिर्न भवति। अथ पुनरेकेन वर्णेन व्यवधानमाश्रीयते न पुनरनेकेनेति कल्पने शक्यमकर्तुं लघोरिति, अतक्षीदित्यत्रानेकेन व्यवधानमिति न भविष्यति। तत् क्रियते विस्पष्टार्थम्। इटीत्येव — अपाक्षीत्॥
Siddhanta Kaumudi¶
हलादेर्लघोरकारस्य इडादौ परस्मैपदपरे सिचि वृद्धिर्वा स्यात् । अखादीत् । अखदीत् ।{$ {!51 बद!} स्थैर्ये$} । पवर्गीयादिः । बदति । बबाद । बेदतुः । बेदिथ । बबाद । बबद । अबादीत् । अबदीत् ।{$ {!52 गद!} व्यक्तायां वाचि$} । गदति ॥
Laghu Siddhanta Kaumudi¶
हलादेर्लघोरकारस्य वृद्धिर्वेडादौ परस्मैपदे सिचि। अगादीत्, अगदीत्। अगदिष्यत्॥ {$ {! 7 णद !} (धातुपाठे (01.0056)) अव्यक्ते शब्दे $} ॥
Balamanorama¶
अतो हलादेर्लघोः - अतो हलादेः ।सिचि वृद्धिः परस्मैपदेष्वि॑त्यनुवर्तते ।नेटी॑त्यस्मादिटीति,ऊर्णोतेर्विभाषे॑त्यतो विभाषेति च । तदाह — हलादेरिति । हलाद्यङ्गावयवस्येत्यर्थः । आदिग्रहणं स्पष्टार्थं, हलः परस्येत्येव सिद्धेः । अखादीत् अखदीदिति । वृद्धौ तदभावे च इट ईटीति सिज्लोपः । अखादिष्टाम्, अखदिष्टामित्यादि । बदेति । स्थैर्यं — स्थिरीभवनम् । पवर्गीयादिरिति । पवर्गतृतीयादिरित्यर्थः । नतु दन्त्योष्ठआदिरिति भाव- । बबादेति । ‘अत उपाधायाः’ इति वृद्धिः । बेदतुरिति । अभ्यासजश्त्वेन आदेशादित्वेऽपि जश्त्वस्य वैरूप्यापादकत्वाऽभावादेत्त्वाभ्यासलोपाविति भावः । बबादेत्यत्र तु पित्त्वेन कित्त्वाऽभावादेत्त्वाभ्यासलोपौ न । बेदिथेति । अकित्त्वेपिथलि च सेटी॑त्येत्वाभ्यासलोपौ । बेदथुः बेद । अथ उत्तमपुरुषणलिणलुत्तमो वे॑ति णित्त्वविकल्पादुपधावृद्धिविकल्प इत्याह — बबाद बबदेति । बेदिव बेदिम । अबादीत् अबदीदिति ।अतो हलादे॑रिति वृद्धिविकल्पः । गदेति । व्यक्तवाक् — मनुष्यकृतशब्दप्रयोगः । जगादेति । चुत्वजश्त्वे । उपधावृद्धिः । वैरूप्यापादकादेशादित्वादेत्त्वाभ्यासलोपौ न । जगदतुः चगदुरित्यादि ।
Tattvabodhini¶
अतो हलादेर्लघोः - अतो हलादेः । इहसिचि वृद्धि॑रिति सूत्रमनुवर्तते ।नेटी॑ति सूत्रादिटीति,ऊर्णोतेर्विभाषे॑त्यतो विभाषाग्रहणं च । तदाह — इडादावित्यादि । वृद्धिर्वा स्यादिति । अतः किम् । अदेवीत् । हलादेः किम् । मा भवानतीत् । अटीत् । लघोः किम् । अगर्दीत् । अरक्षीत् । इडादौ किम् । अपाक्षीत् । परस्मैपदे किम् । अयतिष्ट । अयतिषाताम् । अचकासीदित्यत्र चकारादकारस्य वृद्धिवारणाययेन नावयवधान॑मिति न्यायेन यद्येकवर्णव्यवधानमेवाश्रीयते तदा त्वरक्षीदित्यत्रापि प्रसक्त्यभावाल्लघोरिति शक्यमकर्तुमित्याहुः । तपरकरणं स्पष्टार्थम् । पवर्गीयादिरिति । दन्त्योष्ठआदित्वे तुशसददे॑त्येत्वाभ्यासलोपनिषेधाद्बेदतुः बेदिथेत्यादि न सिध्येदिति भावः ।
Padamanjari¶
न्युकुटीत्, न्यपुटीदिति । कुट कौटिल्ये, पुट संश्लेषणे । नन्वत्र कुटादित्वान्ङ्त्वे सिति खिति च प्रतिषेधादेव वृद्धिर्न भविष्यति, किमत्र अतः इत्यनेन तत्राह - अत इत्येतस्मिन्नसतीति । अतक्षीत्, अरक्षीदिति । तक्षू, त्वक्षू, तनूकरणे, रक्ष पालने, सिच्परत्वेनाङ्गस्य विशेषणादत्र प्रसङ्गः । अथेह कस्मान्न भवतीति । यदि सिच्परत्वेनाङ्ग विशेष्यते, ततोऽत्रापि प्रसङ्ग इति प्रश्नः । सिच्परत्वेनाको विशेष्यते इत्याश्रित्योतरम् । येन नाव्यवधानमिति वचनप्रामण्यादिति । अपिपठिषीदित्यादावनन्ततरस्याकारस्यातो लोपेन भवितव्यम् । ननु चोभयोरप्यनित्ययोः परत्वाद्वद्धिः प्राप्नोति अस्तु वृद्धिः, आतो लोप इटि च इत्याकारलोपो भविष्यति न भविष्यति परत्वात्सगिटौ स्याताम् एवं तर्हि ण्यल्लोपावियणुवङ्यण्गुणवृद्धिदीर्घभ्यः पूर्वविप्रतिषिद्धौ इत्यतो लोपो भविथ्यति, यथा - चिकीर्षक इत्यत्र । युकतं तत्र अचो ञ्णितीति वृद्धिरन्यत्र चरितार्था, इयं तु सिच्यन्तरस्यातौ विधीयमाना निरवकाशा एषं तर्हि हलन्तस्य इत्यनुवृतेरनन्तरोऽकारो न सम्भवतीत्येत्सामर्थ्यम् । अथ त्विति । व्यवधानेन भवितव्यमिति स्थिते हला व्यवधानमिति कल्पनायां लघुग्रहणं कर्तव्यम्, एकेन वर्णेनेति तु कल्पनायां न कर्तव्यमित्यर्थः ॥
Prakriyasarvasvam¶
हलादेर्हलन्तस्य लघोरकारस्य इडादौ परस्मैपदपरे सिचि वा वृद्धिः स्यात् । अवाजीत्, अवजीत् । कर्मणि अवाजि । अवजिषाताम् । मतभेदाद् वढः । अवजिढ्वम्, अवजिध्वम् । लिटि ववाज ।
Sutra Prayogas¶
न्यश्वसिषुः (भट्टिकाव्यम्): अतो हलादे- लघोः इति विकल्पस्य प्राप्तत्वात् ।
नाऽयासिषुर्भीममरासिषुश्च (भट्टिकाव्यम्): अतो हलादेः इति वृद्धौ रूपम्।
व्यतानीत्स (भट्टिकाव्यम्): अतो हलादेः- इति विभाषावृद्धिः ।
न्यवधीदरींश्च (भट्टिकाव्यम्): अतो हलादेः इति विभाषावृद्धिर्न भवति ॥
न्यगादीत् (भट्टिकाव्यम्): गदेः अतो हलादेः इति वृद्धिः।
व्यरासिषु (भट्टिकाव्यम्): अतो हलादेः इति वृद्धिः।
उदखनीत् (भट्टिकाव्यम्): अतो हलादेर्लघोः इति वृद्ध्य- भावपक्षे रूपम्।