72008: नेड् वशि कृति

Padacheda: न | S | 0 | 0 |

इट् | S | 1 | 1 |

वशि | S | 7 | 1 |

कृति | S | 7 | 1 |

Sutrartha


Vasu English Summary

The augment इट् is not added to a कृत् affix beginning with a sonant consonant (वश् प्रत्यहार).

Vasu English Translation

The augment इट् is not added to a कृत् affix beginning with a sonant consonant (वश् प्रत्यहार). The वश् pratayahara is rather vague. The rule really applies to Krit affixes beginning with व, र (ल) म and न, and no कृत् affix begins with any other letter of वश् class. Thus ईशिता, इशितुम् non-vas letters get the augment, but not ईश्वरः, (3.2.175) so also दीपिता, दीपितुम् but not दीप्रम् (3.2.167) (र्) भसिता, भसितुम् but not भस्म, (3.2.75).(मनिन्) यतिता, यतितुम् but not यत्नः (3.3.90) (नङ्) The Vartika नेड् वरमनादौ कृति gives the rule in a more definite form. Of course, in the Unadi Krit-affixes, there is diversity. There we get the affix ड, for example, which of course does not take the augment, as दम् + ड = दण्डः (Unadi I.113). Why do we say कृत् affixes? Observe रुदिव, रुदिम ॥

Here by (7.2.76) the Sarvadhatuka affixes beginning with a वल् consonant take इट् augment after the roots रुद् &c; but this इट् will also be prohibited by the present sutra, if the word कृति be not read in the sutra. So that rule (7.2.76) would find scope before those affixes वलादि only which do not begin with a वश् letter; as रुदितः ॥ In some texts of Kasika the counter-example is रुरुदिम in the Perfect. This is wrong, according to Padamanjari (क्रादिनियमादेव इटः सिद्धत्वात्) because इट् always comes in the Perfect except after the root कृ &c. (7.2.13): so the counter-example from the Perfect Tense is not valid. This sutra is an exception to (7.2.35). The Krit-affixes beginning with वश् letters as given by Panini are the following: वन् (वनिप्, क्वनिप्, ङवनिप्), वर (वरच and क्वरप्), वस् (क्वसु), रु (क्रु), लुक् (क्लुकन्), मन् (मनिन्), मर (क्मरच्) न (नङ्, मन्), नज् (नजिङ्), नु (क्नु) ॥ This list will show the truth of the above vartika.

Bhashya

नेड्वशि कृति किमर्थं पुरस्तात्प्रतिषेध उच्यते न विध्युत्तरकालः प्रतिषेधः क्रियते(3) । तद्यथा - अन्यत्रापि विध्युत्तरकालाः प्रतिषेधा भवन्ति ॥ क्वाऽन्यत्र ? ॥ कर्तरि कर्मव्यतिहारे न गतिहिंसार्थेभ्य इति । देवताद्वन्दे च नेन्द्रस्य परस्य (इति(4)) ॥ तत्रायमप्यर्थो - द्विरिङ्ग्रहणं न कर्तव्यं भवति, प्रकृतमनुवर्तते ॥ नैवं शक्यम्, इडर्थं सार्वधातुकग्रहणं लिङः सलोपे संनिहितं तद्विच्छिद्येत ॥ यदि पुनर्न वृध्द्यश्चतुर्भ्य इत्यत्रैवोच्येत ? ॥ किं कृतं भवति ? ॥ विध्युत्तरकालश्चैव प्रतिषेधः कृतो भवति । द्विश्चेड्ग्रहणं न कर्तव्यम्भवति (5)। इडर्थं च स सार्वधातुकग्रहणं लिङः सलोपे सन्निहितं भवति । तत्राऽयमप्यर्थः - द्विःप्रतिषेधो(6) न कर्तव्यो भवति ॥ नैवं शक्यम्, इह हि तुष्टोथ दुद्रोथेति, - ऋतो भारद्वाजस्येत्येतस्मान्नियमादिट्प्रसज्येत ॥ कृसृभृवृस्तुद्रुस्रुश्रुवो(1) लिटीत्येष योगः प्रतिषेधार्थो भविष्यति ॥ यद्येष योगः प्रतिषेधार्थो य एतस्माद्योगादिट्परिप्राप्यते नियमात्स न सिध्यति, - पेचिव पेचिम । शेकिव शेकिम ॥ एवं तर्हि - ( ॥ कृसृभृग्रहणं नियमार्थं(2), स्तुद्रुस्रुश्रुवां प्रतिषेधार्थं, वृङ्वृञ्ञो ज्ञापकार्थम् ॥) ॥ कृसृभृ इत्येषां(3) ग्रहणं नियमार्थं भविष्यति, स्तुद्रुस्रुश्रुवां प्रतिषेधार्थं, वृङ्वृञ्ञोर्ज्ञापकार्थम् ॥ एवमपि सामान्यविहितस्यैवेटः प्रतिषेधो विज्ञायेत(4), विशेषविहितश्चायं - थलीति(1) ॥ पुरस्तात्पुनः(2) प्रतिषेधे सत्यनारभ्यापवादोऽयं भवति । तेन यावानिण्नाम तस्य सर्वस्यैव(4) प्रतिषेधः सिद्धो भवति ॥ यदि खल्वप्येषोऽभिप्रायस्तन्न क्रियत(5) इति, पुरस्तादपि प्रतिषेधे सति तन्न करिष्यते ॥ कथम् ? ॥ इदमस्ति नेड्वशि कृतीति । ततो वक्ष्यामि - आर्धधातुकस्य वलादेरिति । इडित्यनुवर्तते । नेति निवृत्तम् ॥ अथ कृद्ग्रहणं किमर्थम् ? ॥ इह मा भूत् - बिभिदिव बिभिदिमेति ॥ नैतदस्ति प्रयोजनं - कृसृभृवृस्तुद्रुश्रुस्रुवो लिटीत्येतस्मान्नियमादत्रेड्भविष्यति ॥ नाऽत्र तेन परिप्रापणं प्राप्नोति ॥ किं कारणम् ? ॥ प्रकृतिलक्षणस्य प्रतिषेधस्य स प्रत्यारम्भः प्रत्ययलक्षणश्चाऽयं प्रतिषेधः ॥ उभयोः(6) स प्रत्यारम्भः ॥ कथं ज्ञायते ? ॥ वृङ्वृञ्ञोर्ग्रहणात् ॥ कथं कृत्वा ज्ञापकम् ? ॥ इमौ वृङ्वृञ्ञावुदात्तौ, तयोः प्रकृतिलक्षणः प्रतिषेधो न प्राप्नोति । पश्यति त्वाचार्य - उभयोः स प्रत्यारम्भइति, ततो वृङ्वृञ्ञोर्ग्रहणं करोति । (किं च) - न खल्वपि कश्चिदुभयवान्प्रतिषेधः प्रकृतिलक्षणः प्रत्ययलक्षणश्च ॥ ततः किम् ? ॥ तुल्यजातीयेऽसति यथैव प्रकृतिलक्षणस्य नियामको भवत्येवं प्रत्ययलक्षणस्यापि नियामको भविष्यति ॥ इदं तर्हि प्रयोजनम् - ःइह मा भूत् - रुदिवः रुदिमः ॥ एतदपि नास्ति प्रयोजनम्, - उपरिष्टाद्योगविभागः करिष्यते, - आर्धधातुकस्य । यदेतदनुक्रान्तं एतदार्धातुकस्यैव(1) द्रष्टव्यम् । ततःइड्वलादेरिति । तत्र(2) त्वेतावद्द्रष्टव्यं यदि किंचित्तत्रान्यदप्यार्धधातुकग्रहणस्य प्रयोजनमस्ति । अथ न किं चित् - ःइह वा कृद्ग्रहणं क्रियेत(3), तत्र वार्धधातुकग्रहणं, को न्वत्र विशेषः ! ॥ ॥ 8 ॥ नेड्वररमनादौ(4) कृति ॥ वररमनादौ कृतीट्प्रतिषेधं प्रयोजयति । (वर - ) इर्शिता इर्शितुम् इर्श्वरः । वर ॥ र - दीपिता दीपितुम् दीप्रम्(6) । र ॥ म - भसिता भसितुम् भस्म । म ॥ न - यतिता । यतितुम् यत्नः ॥ अथान्ये ये वशादयस्तत्र कथम् ? ॥ उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ॥

Kashika

वशादौ कृति प्रत्यये परत इडागमो न भवति। वरमनादौ प्रयोजनम्। ईशिता। ईशितुम्। ईश्वरः। दीपिता। दीपितुम्। दीप्रः। भसिता। भसितुम्। भस्म। याचिता। याचितुम्। याच्ञा। वरमनादौ इत्युदाहरणप्रदर्शनार्थम्, न परिगणनम्। तेन ञमन्ताड् डः**(प०उ० १.११४) इत्येवमादावपि हि प्रतिषेधो भवति। अथ तत्र **उणादयो बहुलम् (३.३.१) इति समाधीयते। संभवोदाहरणप्रदर्शनमेतत्। कृतीति किम्? रुदिवः। रुदिमः॥

Siddhanta Kaumudi

वशादेः कृत इण्न स्यात् । शॄ । सुशर्मा । प्रातरित्वा ॥

Laghu Siddhanta Kaumudi

वशादेः कृत इण् न स्यात्॥ शॄ हिंसायाम्॥ सुशर्मा प्रातरित्वा॥

Balamanorama

नेड् वशि कृति - नेड्वशि कृति । षष्ठर्थे सप्तम्यौ । वशा कृद्विशेष्यते । तदादिविधिः । तदा — वशादेरिति । सुशर्मेति । शृधातोर्मनिन् । प्रातरित्वेति । इण्धातोः क्वनिप् ।

Tattvabodhini

नेड् वशि कृति - सुशर्मेति । सुष्टु शृणातीति वग्रहः । प्रातः एतीति प्रातरित्वा । इणः क्वनिपिह्रस्वस्य पिती॑ति तुक् ।

Padamanjari

वशि कृतीति सप्तमीनिर्द्देशस्तदादिविध्यर्थः तस्य च वयं पुरस्तात्करणस्य प्रयोजनं क्रादिसूत्रे वक्ष्यामः। ईशितेत्यदेरुपन्यासः प्रकृत्याश्रयः प्रतिषेधो न सिध्यतीति प्रदर्शनार्थः । ईश्वर इति । स्थेशभास इत्यादिना वरच् । दीप्रमिति । नमिकम्पि इत्यादिना रः । भस्मेति । अन्येभ्योऽपि दृश्यन्ते इति मनिन् । औणदिके त्वव्युत्पत्तिपक्षाश्रयणेनापि सिद्धम् । याच्ञेति । यजयाच इत्यादिना नङ् । सम्भवोदारहणप्रदर्शनमिति । एतावन्त्युदाहरणानि सम्भवन्तीति प्रदर्शनार्थमित्यर्थः । रुदिंव, रुदिम इति । असति कृद्ग्रहणे रुदादिभ्यः सार्वधातुके इत्यस्यापचि इटोऽत्र प्रतिषेधः स्यात्, तस्य त्वाशादिरवकाशः रोदितीति । क्वचिद् रुरुदिव, रुरुदिमेति लिटि पठ।ल्ते, तदयुक्तम्, क्रादिनियमादेवेटः सिद्धत्वात् ॥

Nyaas

आर्धधातुकस्येड्वलादेः (7.2.35) इतीटं वक्ष्यति, तस्य यत्र प्रकृतिलक्षणः परतिषेधो नास्ति तत्रानेन प्रतिषेधः क्रियते। पुरस्तात्? प्रतिषेधकाण्डस्य प्रयोजनं क्रादिनियमसूत्रे (7.2.13) वक्ष्यति। `ईशिता इत्यादि प्रत्ययान्तरे त्विटो भावेन एकाच उपदेशेऽनुदात्तात् (7.2.10) इति यः प्रकृतिनिमित्तकः प्रतिषेधस्तदभावमेवाचष्टे। ईआरः इति। ईश ऐआर्ये (धातुपाठः-1020), स्थेशभास (3.2.175) इत्यादिना वरच्। दीप्रः इति। दीपी दीप्तौ (धातुपाठः-1150), नमिकम्यि (3.2.167) इत्यादिना रः। भस्म इति। भस भर्सनदीप्त्योः (धातुपाठः-1100)। आतो मनिन्क्वनिब्वनिपश्च (3.2.74) इत्यादौ अन्येभ्योऽपि दृश्यन्ते (3.2.75) इति मनिन्। याच्ञा इति। टु याचृ याच्ञायाम् (धातुपाठः-863)। यजयाच (7.3.66) इत्यादिना नङ्। वरमनादौ प्रयोजनम् इति यदुक्तं तत्र प्ररिगणनत्वमवधार्य य एवं चोदयेत् - यदि वरमनादाविति परिगणनं क्रियते तदा षणु दाने (धातुपाठः-1464), ञमन्ताड्डः (पं।उ।1।104) - षण्डः, शमः खः (पं।उ।1।113) - शङ्ख इत्यादौ प्रतिषेधो न प्राप्नोतीति - तं प्रति नेदं परिगणनमिति दर्शयितुमाह - वरमनादावित्युदाहरणम् इति। अथ तत्र इत्यादि। तत्रौणादिके डप्रत्यये समाधीयेतेति परिगणनपक्षभादि चोद्यं परिह्यियत इत्यर्थः। सम्बवोदाहरणप्रदर्शनार्थमेतत् इति। अत्रापि न परिगणनमेतदिति सम्बध्यते। प्रतिषेधस्य सम्भव उदाह्यियते। यत्र कृति प्रतिषेधः सम्भवति तस्य प्रदर्शनार्थमेतदुक्तं भवति। यत्र वसादौ कृतीद्प्रतिषेधः सम्भवति, तस्य प्रदर्शनार्थं वरमनादावित्युक्तम्, न पुनरेतत्? परिगणनमिति। रुरुदिव, रुरुदिम इति। अत्र कृद्ग्रहणादार्धधातुकस्येटो न भवति प्रतिषेधः॥

Prakriyasarvasvam

वशादौ कृतीण्न स्यात् । सुतर्मा ।

Sutra Prayogas

  • प्रत्याववृतिरे (भट्टिकाव्यम्): नेङ्गशि कृति इति नेट्।