72007: अतो हलादेर्लघोः ====================== **Padacheda:** अतः | S | 6 | 1 | हलादेः | S | 6 | 1 | लघोः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Before the इट् beginning s-Aorist of the परस्मैपद the short अ of the root gets optionally वृद्धि when the अङ्ग (stem) begins with a consonant and the अ is prosodially short by being followed by a simple consonant. Vasu English Translation ------------------------ Before the इट् beginning s-Aorist of the परस्मैपद the short अ of the root gets optionally वृद्धि when the अङ्ग (stem) begins with a consonant and the अ is prosodially short by being followed by a simple consonant. Thus अकणीत् or अकाणीत्, अरणीत् or अराणीत् ॥ Why do we say 'of अ' ? Observe अदेवीत्, असेवीत् ॥ Besides this patent objection, there is another, not so manifest. If we had not taken अतः, the *sutra* would have ordained *Vriddhi* of every vowel (अचः (7.2.3)), the *Vriddhi* so ordained would be an अच् pertaining *Vriddhi*, and not an इक्-pertaining *Vriddhi*. Therefore ङित् affixes will not debar such *Vriddhi*, for the क्ङिति च (1.1.5), debars only इग्लक्षणा *Vriddhi*. Therefore कुटादि roots after which सिच् is ङित् (1.2.1), will get *Vriddhi*, which is not desired. Therefore we have only one form of न्यकुटीत्, न्यपुटीत् ॥ Why do we say 'beginning with a consonant'? Observe मा भवानशीत्, मा भवानटीत् from अश् and अट् ॥ Why do we say 'prosodially short'? Observe अतक्षीत्, अरक्षीत् ॥ But why does not *vriddhi* take place in अचकासीत् from the root चकास् (Ad. 65) ? The *vriddhi* does not take place on the maxim येन ना व्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्; for the rule applies to short अ only when a consonant intervenes between it and the affix, and not when both consonants and vowels intervene. In चकास् not only the consonants क् and स् intervene but also the vowel आ ॥ Hence there is no *vriddhi*. Moreover, the व्यवधान can be by one letter and not by more than one letter. Therefore, applying this maxim, the word लंघाः might have been omitted from the *sutra* without any detriment. In that case, the form अतक्षीत् from the root तक्ष (*Bhu* 685) will be explained by saying that rule (7.2.7) does not apply to it, because two consonants intervene between अ and the affix. In this view of the case, the employment of the word लघोः in the *sutra* is for the sake of distinctness only. The word इट् is understood in this *sutra*, so that the rule applies to सेट् aorist. The rule therefore, does not apply to *Anit* aorist, as अपाक्षीत् ॥ The form अपिपठिषीत् the aorist of the Desiderative root, is explained by saying that the long आ of *vriddhi* is elided by (6.4.64). Kashika ------- हलादेरङ्गस्य लघोरकारस्येडादौ सिचि परस्मैपदपरे परतो विभाषा वृद्धिर्न भवति। अकणीत्, अकाणीत्। अरणीत्, अराणीत्। अत इति किम्? अदेवीत्। असेवीत्। न्यकुटीत्, न्यपुटीत् इत्यत्रात इत्यस्मिन्नसति स्थानिनिर्देशार्थमच इत्येतदनुवर्तयितव्यम्। तत्राज्लक्षणा वृद्धिरिग्लक्षणा न भवतीति **क्ङिति च** (१.१.५) इति प्रतिषेधो न स्यात्। हलादेरिति किम्? मा भवानशीत्। मा भवानटीत्। लघोरिति किम्? अतक्षीत्। अरक्षीत्। अथेह कस्माद् न भवति अचकासीदिति? **येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्** इति हला व्यवधानमाश्रितम्, न पुनरचापि व्यवधानमिति वृद्धिर्न भवति। अथ पुनरेकेन वर्णेन व्यवधानमाश्रीयते न पुनरनेकेनेति कल्पने शक्यमकर्तुं लघोरिति, अतक्षीदित्यत्रानेकेन व्यवधानमिति न भविष्यति। तत् क्रियते विस्पष्टार्थम्। इटीत्येव — अपाक्षीत्॥ Siddhanta Kaumudi ----------------- हलादेर्लघोरकारस्य इडादौ परस्मैपदपरे सिचि वृद्धिर्वा स्यात् । अखादीत् । अखदीत् ।{$ {!51 बद!} स्थैर्ये$} । पवर्गीयादिः । बदति । बबाद । बेदतुः । बेदिथ । बबाद । बबद । अबादीत् । अबदीत् ।{$ {!52 गद!} व्यक्तायां वाचि$} । गदति ॥ Laghu Siddhanta Kaumudi ----------------------- हलादेर्लघोरकारस्य वृद्धिर्वेडादौ परस्मैपदे सिचि। अगादीत्, अगदीत्। अगदिष्यत्॥ {$ {! 7 णद !} (धातुपाठे (01.0056)) अव्यक्ते शब्दे $} ॥ Balamanorama ------------ **अतो हलादेर्लघोः** - अतो हलादेः ।सिचि वृद्धिः परस्मैपदेष्वि॑त्यनुवर्तते ।नेटी॑त्यस्मादिटीति,ऊर्णोतेर्विभाषे॑त्यतो विभाषेति च । तदाह — हलादेरिति । हलाद्यङ्गावयवस्येत्यर्थः । आदिग्रहणं स्पष्टार्थं, हलः परस्येत्येव सिद्धेः । अखादीत् अखदीदिति । वृद्धौ तदभावे च इट ईटीति सिज्लोपः । अखादिष्टाम्, अखदिष्टामित्यादि । बदेति । स्थैर्यं — स्थिरीभवनम् । पवर्गीयादिरिति । पवर्गतृतीयादिरित्यर्थः । नतु दन्त्योष्ठआदिरिति भाव- । बबादेति । 'अत उपाधायाः' इति वृद्धिः । बेदतुरिति । अभ्यासजश्त्वेन आदेशादित्वेऽपि जश्त्वस्य वैरूप्यापादकत्वाऽभावादेत्त्वाभ्यासलोपाविति भावः । बबादेत्यत्र तु पित्त्वेन कित्त्वाऽभावादेत्त्वाभ्यासलोपौ न । बेदिथेति । अकित्त्वेपिथलि च सेटी॑त्येत्वाभ्यासलोपौ । बेदथुः बेद । अथ उत्तमपुरुषणलिणलुत्तमो वे॑ति णित्त्वविकल्पादुपधावृद्धिविकल्प इत्याह — बबाद बबदेति । बेदिव बेदिम । अबादीत् अबदीदिति ।अतो हलादे॑रिति वृद्धिविकल्पः । गदेति । व्यक्तवाक् — मनुष्यकृतशब्दप्रयोगः । जगादेति । चुत्वजश्त्वे । उपधावृद्धिः । वैरूप्यापादकादेशादित्वादेत्त्वाभ्यासलोपौ न । जगदतुः चगदुरित्यादि । Tattvabodhini ------------- **अतो हलादेर्लघोः** - अतो हलादेः । इहसिचि वृद्धि॑रिति सूत्रमनुवर्तते ।नेटी॑ति सूत्रादिटीति,ऊर्णोतेर्विभाषे॑त्यतो विभाषाग्रहणं च । तदाह — इडादावित्यादि । वृद्धिर्वा स्यादिति । अतः किम् । अदेवीत् । हलादेः किम् । मा भवानतीत् । अटीत् । लघोः किम् । अगर्दीत् । अरक्षीत् । इडादौ किम् । अपाक्षीत् । परस्मैपदे किम् । अयतिष्ट । अयतिषाताम् । अचकासीदित्यत्र चकारादकारस्य वृद्धिवारणाययेन नावयवधान॑मिति न्यायेन यद्येकवर्णव्यवधानमेवाश्रीयते तदा त्वरक्षीदित्यत्रापि प्रसक्त्यभावाल्लघोरिति शक्यमकर्तुमित्याहुः । तपरकरणं स्पष्टार्थम् । पवर्गीयादिरिति । दन्त्योष्ठआदित्वे तुशसददे॑त्येत्वाभ्यासलोपनिषेधाद्बेदतुः बेदिथेत्यादि न सिध्येदिति भावः । Padamanjari ----------- न्युकुटीत्, न्यपुटीदिति । कुट कौटिल्ये, पुट संश्लेषणे । नन्वत्र कुटादित्वान्ङ्त्वे सिति खिति च प्रतिषेधादेव वृद्धिर्न भविष्यति, किमत्र अतः इत्यनेन तत्राह - अत इत्येतस्मिन्नसतीति । अतक्षीत्, अरक्षीदिति । तक्षू, त्वक्षू, तनूकरणे, रक्ष पालने, सिच्परत्वेनाङ्गस्य विशेषणादत्र प्रसङ्गः । अथेह कस्मान्न भवतीति । यदि सिच्परत्वेनाङ्ग विशेष्यते, ततोऽत्रापि प्रसङ्ग इति प्रश्नः । सिच्परत्वेनाको विशेष्यते इत्याश्रित्योतरम् । येन नाव्यवधानमिति वचनप्रामण्यादिति । अपिपठिषीदित्यादावनन्ततरस्याकारस्यातो लोपेन भवितव्यम् । ननु चोभयोरप्यनित्ययोः परत्वाद्वद्धिः प्राप्नोति अस्तु वृद्धिः, आतो लोप इटि च इत्याकारलोपो भविष्यति न भविष्यति परत्वात्सगिटौ स्याताम् एवं तर्हि ण्यल्लोपावियणुवङ्यण्गुणवृद्धिदीर्घभ्यः पूर्वविप्रतिषिद्धौ इत्यतो लोपो भविथ्यति, यथा - चिकीर्षक इत्यत्र । युकतं तत्र अचो ञ्णितीति वृद्धिरन्यत्र चरितार्था, इयं तु सिच्यन्तरस्यातौ विधीयमाना निरवकाशा एषं तर्हि हलन्तस्य इत्यनुवृतेरनन्तरोऽकारो न सम्भवतीत्येत्सामर्थ्यम् । अथ त्विति । व्यवधानेन भवितव्यमिति स्थिते हला व्यवधानमिति कल्पनायां लघुग्रहणं कर्तव्यम्, एकेन वर्णेनेति तु कल्पनायां न कर्तव्यमित्यर्थः ॥ Prakriyasarvasvam ----------------- हलादेर्हलन्तस्य लघोरकारस्य इडादौ परस्मैपदपरे सिचि वा वृद्धिः स्यात् । अवाजीत्, अवजीत् । कर्मणि अवाजि । अवजिषाताम् । मतभेदाद् वढः । अवजिढ्वम्, अवजिध्वम् । लिटि ववाज । Sutra Prayogas -------------- * **न्यश्वसिषुः** (भट्टिकाव्यम्): `अतो हलादे- लघोः` इति विकल्पस्य प्राप्तत्वात् । * **नाऽयासिषुर्भीममरासिषुश्च** (भट्टिकाव्यम्): `अतो हलादेः` इति वृद्धौ रूपम्। * **व्यतानीत्स** (भट्टिकाव्यम्): `अतो हलादेः-` इति विभाषावृद्धिः । * **न्यवधीदरींश्च** (भट्टिकाव्यम्): `अतो हलादेः` इति विभाषावृद्धिर्न भवति ॥ * **न्यगादीत्** (भट्टिकाव्यम्): `गदेः अतो हलादेः` इति वृद्धिः। * **व्यरासिषु** (भट्टिकाव्यम्): `अतो हलादेः` इति वृद्धिः। * **उदखनीत्** (भट्टिकाव्यम्): `अतो हलादेर्लघोः` इति वृद्ध्य- भावपक्षे रूपम्।