72002: अतो ल्रान्तस्य

Padacheda: अतः | S | 6 | 1 |

ल्र | S | | | 6

अन्तस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

वृद्धि is substituted for the short अ when it is immediately followed by the final र् or ल् of a root, before the परस्मैपद s-Aorist.

Vasu English Translation

वृद्धि is substituted for the short अ when it is immediately followed by the final र् or ल् of a root, before the परस्मैपद s-Aorist. As क्षर्-अक्षारीत्, त्सर्-अत्सारीत्, ज्वल्-अज्यालीत्, ह्मल्-अह्मालीत् ॥ This debars the option of (7.2.7). Why ‘short अ’? Observe न्यखारीत् न्यमीलीत् ॥ Why do we say “ending in र or ल”? Observe मा भवानशीत्, मा भवानटीत् ॥ The word अन्त means here ‘proximity’, as in the sentence उदकान्तं गतः = उदकसमीपं गतः ॥ The अ must be in the proximity of the र and ल ॥ Therefore the rule does not apply to अवभ्रीत्, अश्वल्लीत्, for though र and ल are here final of the stem, yet are not in the proximity of अ ॥

Bhashya

अतो ल्रान्तस्य(1) अन्तग्रहणं किमर्थं नाऽतो ल्र(2) इत्येवोच्यत ? ॥ केनेदानीं तदन्तस्य भविष्यति ? ॥ तदन्तविधिना ॥ इदं तर्हि प्रयोजनम् - अयमन्तशब्दोस्त्येवाऽवयववाची । तद्यथा - वस्त्रान्तो वसनान्तः । अस्ति सामीप्ये वर्त्तते । तद्यथा - उदकान्तं गतः । उदकसमीपं गत इति गम्यते । तद्यः सामीप्ये वर्त्तते तस्येदं ग्रहणं यथा विज्ञायेत्(3) । अङ्गान्तौ यौ रेफलकारौ तयोः समीपे योऽकारस्तस्य(4) यथा स्यात् । इह माभूत् - अश्वल्लीत् अवभ्रीत् । ( अतोल्रा ) ॥

Kashika

रेफलकारौ यावतोऽन्तौ समीपौ तदन्तस्याङ्गस्य अत एव स्थाने वृद्धिर्भवति। क्षर — अक्षारीत्। त्सर — अत्सारीत्। ज्वल — अज्वालीत्। ह्मल् — अह्मालीत्। अतो हलादेर्लघोः (७.२.७) इति विकल्पस्यायमपवादः। अत इति किम् ? न्यखोरीत्। न्यमीलीत्। ल्रान्तस्येति किम् ? मा भवानटीत्। मा भवानशीत्। अन्तग्रहणं किम् ? अवभ्रीत्। अश्वल्लीत्। अत्र यौ रेफलकारावङ्गस्यान्तौ, न तावतः समीपौ।

Siddhanta Kaumudi

ल्रेति लुप्तषष्ठीकम् । अतः समीपौ यौ ल्रौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि । नेटि (SK2268) इति निषेधस्याअतो हलादेः - (SK2284) इति विकल्पस्य चापवादः । मा भवानालीत् । अयं स्वरितेदित्येके । तन्मते, अलते इत्याद्यपि ।{$ {!516 ञिफला!} विशरणे$} । तॄफल - (SK2301) इत्येत्वम् । फेलतुः । फेलुः । अफालीत् ।{$ {!517 मील!} {!518 श्मील!} {!519 स्मील!} {!520 क्ष्मील!} निमेषणे$} । निमेषणं संकोचः । द्वितीयस्तालव्यादिः । तृतीयो दन्त्यादिः ।{$ {!521 पील!} प्रतिष्टम्भे $}। प्रतिष्टम्भो रोधनम् ।{$ {!522 णील!} वर्णे$} ।{$ {!523 शील!} समाधौ$} । शीलति ।{$ {!524 कील!} बन्धने {!525 कूल!} आवरणे $}।{$ {!526 शूल!} रुजायां संघोषे च$} ।{$ {!527 तूल!} निष्कर्षे$} । निष्कर्षो निष्कोषणम् । तच्चान्तर्गतस्य बहिर्निः सारणम् । तुतूल ।{$ {!528 पूल!} संघाते$} ।{$ {!529 मूल!} प्रतिष्ठायाम्$} ।{$ {!530 फल!} निष्पत्तौ $}। फेलतुः । फेलुः ।{$ {!531 चुल्ल!} भावकरणे$} । भावकरणमभिप्रायाविष्कारः ।{$ {!532 फुल्ल!} विकसने$} ।{$ {!533 चिल्ल!} शैथिल्ये भावकरणे च$} ।{$ {!534 तिल!} गतौ$} । तेलति । तिल्ल इत्येके । तिल्लति ।{$ {!535 वेलृ!} {!536 चेलृ!} {!537 केलृ!} {!538 खेलृ!} {!539 क्ष्वेलृ!} {!540 वेल्ल!} चलने $}। पञ्च ऋदितः । षष्ठो लोपधः ।{$ {!541 पेलृ!} {!542 फेलृ!} {!543 शेलृ!} गतौ$} । षेलृ इत्येके ।{$ {!544 स्खल!} संचलने$} । चस्काल । अस्खालीत् ।{$ {!545 खल!} संचये$} ।{$ {!546 गल!} अदने$} । गलति । अगालीत् ।{$ {!547 षल!} गतौ$} । सलति ।{$ {!548 दल!} विशरणे$} ।{$ {!549 श्वल!} {!550 श्वल्ल!} आशुगमने$} । शश्वाल । अश्वालीत् । अश्वल्लीत् ।{$ {!551 खोलृ!} {!552 खोर्ऋ!} गतिप्रतिघाते$} । खोलति । खोरति ।{$ {!553 धोर्ऋ!} गतिचातुर्ये$} । धोरति ।{$ {!554 त्सर!} छद्मगतौ$} । तत्सार । अत्सारीत् ।{$ {!555 क्मर!} हूर्च्छने$} । चक्मार ।{$ {!556 अभ्र!} {!557 वभ्र!} {!558 मभ्र!} {!559 चर!} गत्यर्थाः$} । चरतिर्भक्षणेऽपि । अभ्रति । आनभ्र । मा भवानभ्रीत् । अङ्गान्त्यरेफस्यातः समीपत्वाभावान्नवृद्धिः ।{$ {!560 ष्ठिवु!} निरसने $}। ष्ठिवुक्लमु - (SK2320)इति दीर्घः । ष्ठीवति । अस्य द्वितीयस्थकारष्ठकारो वेति वृत्तिः । तिष्ठेव । तिष्ठिवतुः । तिष्ठिवुः । टिष्ठेव । टिष्ठिवतुः । टिष्ठिवुः । हलि च (SK354) इति दीर्घः । ष्ठीव्यात् ।{$ {!561 जि!} जये$} । अयमजन्तेषु पठितुं युक्तः । जय उत्कर्षप्राप्तिः । अकर्मकोऽयम् । जयति ॥

Balamanorama

अतो ल्रान्तस्य - अतो ल्रान्तस्य ।सिचि वृद्धिः परस्मैपदेषु॑ इत्यनुवृत्तम् । अङ्गस्येत्यधिकृतम् । तद्विशेषणत्वात्तदन्तविधिनैव सिद्धेऽन्तग्रहणं व्यर्थम् । तत्राह - ल्रेति लुप्तषष्ठीकमिति । ल्र अन्तस्य इति छेदः । ल् च रश्चेति समाहारद्वन्द्वात्षष्ठएकवचनं लुप्तम् । ल्रस्यान्तस्येति सामानाधिकरण्येनान्वयः । ‘अत’ इति व्यधिकरणषष्ठन्तम् — अन्तस्येत्यत्रान्वेति । अन्तशब्दः समीपवर्तिवाची । तथा च अतः समीपवर्तिनो ल्रस्येति लभ्यते । ल्रस्येत्यङ्गविशेषणत्वात्तदन्तविधिः । ततश्च अत्समीपवर्तिरेफलकारान्तस्य अङ्गस्य सिचि वृद्धिरिति लभ्यते । ‘अत’ इत्यावृत्तं वृद्धौ स्थानित्वेनान्वेति तदाह — अतः समीपावित्यादिना । अतः समीप इति किम् । अखोरीत् । अमीलीत् । ल्रान्तस्येति किम् । मा भवनातीति । अतो वृद्धिरुत्युक्ता अतः समीपावित्यनुक्तौ तु अवभ्रीत् अआल्लीदित्यत्रातिपव्याप्तिः । अत्र अङ्गस्यान्तौ रेफलकारौ नातः समीपाविति न वृद्धिः । न चात्र अतो भकारेण लकारेण च व्यवहितत्वादेव न वृद्धिः, आलीदित्यादौ एकव्यवधाने चरितार्थत्वादिति वाच्यं, सिचि परे यदङ्गं तदकारस्य वृद्धिरित्यर्थाश्रयणेऽतिव्याप्तवारणार्थत्वात् । ञि फलेति । विशरणं — शिथिलीभावः । ‘आदिर्ञिटुडवःर’ इति ञिरित् । ‘ञीतः क्तः’ इति प्रयोजनम् ।आदितश्चे॑ति तीण्निषेधार्थमादित्त्वम् । लिण्निमित्तादेशादित्वादप्राप्ते आह -तृफलेति । मील श्मीलेति । निमेषणं — नेत्रसंकोचः । संकोचेति पाठेऽप्ययमेवार्थः । णील वर्ण इति । वर्णक्रियायामित्यर्थः । फल निष्पत्ताविति । ञि फलेति पूर्वं पठितम् । अनुबन्धभेदात्पुनः पाठः । खोलृ खोरृ इति । द्वितीयो रेफान्त ऋदित् । इत आरभ्यष्ठिवेः प्राग्रेफान्ताः । धोरृगतिचातुर्य इति । अआगतिविशेष इत्यर्थः । रेपान्तोऽयम्, ऋदित् । त्सर छद्मगताविति । कपटगतावित्यर्थः । क्मर हूर्छन इति । कुटिलीभवन इत्यर्थः । ष्ठिवु निरसन इति । इदुपधः, उदित् । इत आरभ्य ऊष्मान्तेभ्यः प्राग्वकारान्ताः । तिपि शपि लघूपधगुणे प्राप्ते आह -ष्विनुक्लम्वितीति । ल्युटि तु शित्परकत्वाऽभावाद्धीर्घऽभावे लघूपधगुणः । ‘ष्ठीवन’ मिति तु पृषोदरादित्वात्समाधेयम् । अस्येति । ष्ठिनुधातोर्द्वितीयो वर्णस्थकार इत्यर्थः । कृतष्टुत्वस्य निर्देश इति भावः । षोपदेशोऽयं, केवलदन्त्यथकारपरकसादित्वात् । षोपदेशत्वेऽपि न सत्वम्, ‘सुब्धातुष्ठिवु’ ति निषेधात् । लिटि तु ‘शर्पूर्वाः खयःर’ इति षकारवकारयोर्निवृत्त्या ष्टुत्वनिवृत्तौ रूपमाह — तिष्ठेवेति । ठकारस्य स्वाभाविकत्वे तु टिष्ठेवेति रूपम् । जि जय इति । जिधातुरनिट्कः । सँल्लिटोर्जेः ।अभ्यासाच्चे॑ति सूत्रादभ्यासादित्यनुवर्तते ।चजोः कुघिण्यतो॑रित्यस्मात्कु इति च ।संल्लिटो॑रिति निमित्तसप्तमी अभ्यासे अन्वेति । तदाह - संल्लिण्निमित्तो योऽभ्यास इत्यादि ।सनि लिटि च अभ्यासात् परस्य कुत्व॑मिति व्याख्याने तु यङ्लुगन्तात्सनि जेजयिषतीत्यत्र कुत्वं स्यात् । अतःसंल्लिण्निमित्तो योऽभ्यास॑ इति व्याख्येयमिति माधवः । जिगायेति । णलि द्वित्वे वृद्धौ उत्तरखण्डे जस्य कुत्वेन गः । जिग्यतुरिति । कित्त्वाद्गुणाऽभावः । लिटि ‘एकाच’ इति इण्निषेधं बाधित्वा क्रादिनियमादिटि प्राप्ते,थलिअचस्तास्व॑दिति तन्निषेधस्य भारद्वाजनियमाद्विकल्पः । तदाह — जिगयिथ जिगेथेति । जिग्यथुः । जिग्य ।णलुत्तमो वे॑ति मत्वा आह — जिगाय जिगयेति । क्रादिनियमादिटं मत्वा आह — जिग्यिव जिग्यिमेति । जेतेति । जेष्यति । जयतु ।अजयत् । आशीर्लिङिअकृत्सार्वधातुकयो॑रिति दीर्घ मत्वा आह — जीयादिति । अजैषीदिति ।सिचि वृद्धि॑रिति वृद्धिरिति भावः । अजेष्यते । षर्वधातुः षोपदेशः । इविधातोरिदित्त्वान्नुम् । तदाह — इन्वतीति । इन्वांचकारेति । नुमि इजादिगुरुमत्त्वादमिति भाव- । पिवि मिवीत्यादय इदितः ।

Tattvabodhini

अतो ल्रान्तस्य - अतो ल्रान्तस्य । यद्यवयववचनेनाऽन्तशब्देन बहुव्रीहिरङ्गं चान्यपदार्थस्तत्पक्षे विशेषणेन तदन्तविधेः विशेषणेन तदन्तविधेः सिद्धत्वादन्तग्रहणमनर्थकम् । अआल्लीदित्यत्रातिव्याप्तिश्च । समीपवाचिना अन्तशब्देन षष्ठीसमासपक्षे विशेषणेन तदन्तविधेः सिद्धत्वादन्तग्रहणमनर्थकम् । अआल्लीदित्यत्रातिव्याप्तिश्च । समीपवाचिना अन्तशब्देन षष्ठीसमासपक्षे रपिरणिआल्लप्रभृतिष्वतिव्याप्तिः, अङ्गस्याऽतो ल्रोः समीपत्वात् ।ल्र॑ च तदन्तश्चेति समीपवाचिनाऽन्तशब्देन कर्मधारयपक्षे त्वन्तशब्दस्य विशेषणत्वात्पूर्वनिपातः स्यादत आह — लुप्तषष्ठीकमिति । अन्तशब्दः समीपवाचीत्यभिप्रेत्याह — अतः समीपाविति । अतो वृद्धि स्यादिति । इहअत॑ इत्यस्य तन्त्रावृत्यादिकं स्वीकर्तव्यम् । अन्यथा प्रयोजनाऽभावादिक्परिभाषानुपस्थानऽप्यलोन्त्यपरिभाषयाऽन्त्यस्य स्यादिति भावः । यद्यपिअतो ल्रस्येट त्युक्तेऽपि ल्रान्तस्याङ्गस्य अतः सिचि परे वृद्धिरित्यर्थोऽपि प्रतीयेत । ततश्चाऽआल्लीदित्यत्रातिप्रसङ्गः स्यात् । तद्वारणाय सूत्रेऽन्तग्रहणं कृतमिति । तदनुरोधेनाऽन्तशब्दस्य समीपवनाचित्वमत इत्यस्य चाऽऽवृत्तिः स्वीकृतेति बोध्यम् । अतः समीपाविति क#इम् । अखोरीत् अमीलीत् । ल्रान्तस्याङ्गस्य किम् । आल्ल आशुगमने । अआल्लीत् । अकारसमीपे यो लकारः स नाङ्गस्यान्तः, यस्त्वङ्गस्यान्तः, रा तु नाकारस्य समीपः । ननु ल्रेत्यस्य लुप्तषष्ठीकत्वनाभ्युपगमेऽप्यन्तशब्दस्यावयववाचित्वंस्वीकृत्य अङ्गस्यान्तं यत् ल्रं तस्याऽतो = तत्समीपस्याऽतो वृद्धिरिति व्याख्याने त्वत इत्यस्यावृत्तिर्नापेक्षितेति चेत् । अत्राहुः — हलन्त्यटमिति सूत्रे मनोरमायांसामीप्यं षष्ठर्थः॑ इति पक्षस्य निराकरणात्तदनुरोधनात्राऽत इत्यस्याऽऽवृत्तिराश्रितेति । अत्र केचित् — अतो ल्रान्तस्ये॑त्यत्र ल्रेति लुप्तसप्तमीकम् । अथवाअतो ल्रान्ते॑ इति व्यस्तमेव सूत्रयितुं शक्यम् । तथा चअङ्गस्यान्तं यत् ल्रं तस्मिन्परेऽव्यवहितस्याऽतो वृद्धिरिति व्याख्यानसंभवान्न तन्त्रा[वृत्त्या] द्याश्रयणक्लेशः । न चाङ्गस्य विशेख्यत्वेनैवान्वयो युज्यते न तु विशेषणत्वेनपदाङ्गाधिकारे तस्य च तदन्तस्य चे॑ति परिभाषायाः पदमङ्गं च विशेष्यं भवतीत्यभिप्रायवर्णनादिति वाच्यम्,अल्लोपोऽनः॑ इतिसूत्रेऽङ्गावयवोऽसर्वनाम स्थानेत्येवं भाष्याकारादिभिर्विशेषणतया व्याख्यानात्क्वचिद्विशेषणत्वेऽप्यङ्गस्य न क्षतिर#इत्याहुः । नेटीत्यादि । यद्यपि पुरस्तादपवादन्यायेननेटी॑त्यस्यापवादो न तु विकल्पस्यापि, तथापि बाध्यसामान्यचिन्तायां स्वविषये प्राप्तं सर्वं बाध्यत इति पुरस्तादपवादन्यायोऽत्र न प्रवर्तत इति भावः । मील संकोचे इति । नेत्रसंकोचे तु प्रचुरप्रयोगः । तिल गतौ । तिल स्नेहने इति चुरादौ । दल विशरणे । विशरणमवयवानां विभागः । धोरृ । धोरितकमआआनां गतिविशेषः । निष्ठान्तात्संज्ञायां कन् । त्सरः । छद्मना कपटेन गतिः — छद्मगतिः । क्मर हूर्छने । हूर्छनं — कौटिल्यम् । ष्ठिवु निरसने । अस्य ल्युटि — ष्ठेवनम् ।ष्ठीवनाऽसृक्शकृन् मूत्ररेतांस्यप्सु न निक्षिपे॑दित्यत्र पृषोदरादित्वापक्षे दीर्घ ईकार इत्याहुः ।

Padamanjari

अन्तशब्दोऽयमस्त्यवयववचनः - वस्त्रान्तः, वसनान्त इति , अस्ति समीपवचनः - उदकान्तं गत इति तत्राद्ये पक्षे लरन्तस्य इति बहुव्रीहिः, अङ्गमन्यपदार्थः, अन्यस्यार्थस्यासम्भवात् । तत्र वर्णग्रहणे सर्वत्र बहुव्रीहिः अङ्गमन्यपदार्थः अन्यस्यार्थस्यासम्भवात् । तत्र वर्णग्रहणे सर्वत्र तदन्तविधिरित्येव सिद्धत्वादन्तग्रहणमतिरिच्यते । तस्मात्समीपवचनोऽन्तशब्दः । तत्रापि यदि षष्ठीसमासः स्यात - रेफलकारयोः समीपभूतस्यातो वृद्धिर्भवतीति, ततो लषिरणिप्रभृतिष्वेव स्यात् । यदि परसमीपवचनोऽन्तशब्दः, अथ तु समीपमात्रवचनसतदा इष्टविष्ये तावत्सिध्यति, अनिष्टेऽपि तु विषये प्राप्नोति, तथा अखल्लीदित्यत्रापि प्रसङ्गः । तस्मात्कर्मधायः, निपातनाच्च विशेषणस्य परनिपातः । समीपभूतौ रेफलकारौ लरन्तशब्देन एविवक्षितौ । कस्य समीपभूतावित्यपेक्षायामत इत्यनेन सम्बन्धः । एवं विशेषिताभ्यां रेफलकाराभ्यामङ्गस्य विशेषणातदन्तविधिः । अतः समीपभूतौ यौ रेफलकारौ तदन्तस्याङ्गस्येति । यद्येवम्, एकत्वाद् अतः इत्यस्य तस्य च रेफलकारयोः विशेषणे एवं उपक्षीणत्वान्न वृद्धिभाङ् निर्द्दिष्टः स्यात् विशेषणत्वेनाइ तावदकारस्य श्रुतत्वातस्यैव वृद्धिर्भवतीत्यदोषः, तदिदमुक्तम् - रेफलकारौ यावतः समीपभूतावित्यादि । वयं तु ब्रूमः - समीपभूतरेफलकारान्तस्याङ्गस्यातः स्थाने वृद्धिर्भवतीत्येवा क्षरव्यापारः । तत्र कस्य समीपभूतावित्यपेक्षायां सन्निधानादतः समीपभूताविति गम्यते इति । अपर आह - रश्च लश्च लर्म्, आगन्तुकोऽकारः, षष्ठ।ल लुका निर्द्देशः, अत्र लरेणाङ्गस्य विशेषणातदन्तविधौ लरन्तस्याङ्गस्य योऽकारस्तत्र वृद्धिर्भवति । कीदृशस्यातः समीपभूतस्य । सन्निधानाच्च लर्ं प्रति समीपभूतस्येति । अन्यशब्दश्च समीपमात्रवचनो न तु परमसीपवचनः इति । उदाहरणेषु , क्षर सञ्चलने, त्सर च्छद्म गतौ, ज्वल दीप्तौ, ह्वल चलने । न्यखोरीत्, न्यमीलीदिति । खुर छेदने, मील निमेषणे । मा भवानित्यादि । अट गतौ, अश भोजने माङ्ः प्रयोग अडागमनिवृत्यर्थः । अवम्रीत्, अखल्लीदिति । वभ्रिर्गत्यर्थः, खल्लिराशु गमने । अथान्तग्रहणं किमर्थम्, न ल्रः इत्यवोच्येत इहापि तर्हि प्रप्नोति - अवभ्रीत्, अखल्लीदिति अकारमेव सिच्परत्वेन विशेषयिष्यामः लरन्तस्याङ्गस्य योऽकारस्तस्य सिच्यनन्तरे वृद्धिर्भवतीति । न च रेफलकारन्तस्याङ्गस्य योऽकारस्तस्य सिजव्यवहितः सम्भवतीति सामर्थ्यात् येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यादित्येकेन वर्णेन व्यवधानमाश्रयिष्यते । अथ वा अतो हलादेर्लघोः इत्यस्यानन्तर मिदं कर्तव्यम्, तत्रायमप्यर्थः अत इत्यपि न वक्तव्यं भवति, तत्र लघोः, त्यिनुवृतेरखल्लीदित्यादौ न भविष्यति । एवमपि चतुश्शब्दादाचारिक्विपि लुङ् इसिचि चकारस्यापि प्राप्नोति तत्रापि सिचाऽऽनन्तर्यं विशेषयिष्यामः, तत्र यथा अचकासीदित्यत्र अतो हलादेर्लघोः इति चकाराकारस्य वृद्धिर्न भवति, तत्कस्य हेतोः सिचा आनन्तर्थं विशेष्यत इति । एवं चतुश्शब्देऽपि न भविष्यति । एवं च कृत्वा लघोः इत्यपि न वक्तव्यं भवति तथा तु न कृतमित्येव ॥

Nyaas

अन्तशब्दोऽयमस्त्यवयववचनः, यथा वस्त्रान्तः, वसनान्त इति। अस्ति च समीपवाची, यथा - उदकान्तं प्रियं प्रोथमनुव्रजेदिति। उदकसमोपमित्यर्थः। अत्रावयववाचिनोऽन्तशब्दस्य ग्रहणे इहान्तग्रहणमनर्थकं स्यात्? तस्य ह्रुपादनस्यैतत्? प्रयोजनम् - रेफलकारान्तस्य यथा स्यादिति। एतच्च येन विधिस्तदन्तस्य (1.1.72) इत्यनेनैव सिध्यति। तस्मात्? समीपवाचिन एव ग्रहणमिति मत्वाऽऽह - रेफलकारो यावतोऽन्तौ= समीपी इति। यदि तर्हि ल्रावन्तौ यस्य समीपावत इत्यनेन निर्दिश्यते वृद्धिभाग्? न निर्दिष्टः स्यात्। एवञ्च अलोऽन्त्यस्य (1.1.52) इत्यन्त्यस्य स्यात्; अकारसमीपभूतस्य ल्रान्तस्यान्त्यस्य वृद्धिभाज इकोऽभावादित्यत आह - अत एव स्थाने इति। एवं मन्यते - अकारस्य श्रुतत्वादकारस्यैव स्थाने वृद्धिर्विज्ञायत इति। अक्षारीत् इत्यादि। क्षर सञ्चलने (धातुपाठः-851), त्सर छद्मगतौ (धातुपाठः-554), ज्वल दीप्तौ (धातुपाठः-804), ह्वल ह्रल चलने (धातुपाठः-805,806) इत्येतेषां रूपाणि। अतो हलादेर्लघोरित्यस्य विकल्पस्यायमपवादः इति। एतेन नियमार्थतामस्य योगस्य दर्शयति। न्यखोरीत्, न्यमीलीत् इत्यादि। खुर छेदने (वा।यां।1342), मील श्मील स्मील श्मील निमेषणे (धातुपाठः-517-520)। मा भवानटीत्, मा भवानशीत् इति। अट पट गतौ (धातुपाठः-295,296), अशभोजने (धातुपाठः-1523) न माङ्योगे (6.4.74) इत्याट्प्रतिषेधार्थो माङ्योगः। भवान् इति। अयं सन्देहनिरासार्थः; अतोऽन्यत्र विशेषाभावात्। अवभ्रीत् इति। अभ्र वभ्र मभ्र चर गत्यर्थाः (धातुपाठः-556-559)। अआल्लीत् इति। आलआल्ल आशुगमने (धातुपाठः-549,550)। न तावतः समीपौ इति। भकारलकाराभ्यां व्यवधानादिति॥

Prakriyasarvasvam

अतः समीपभूतौ यौ रेफलौ तदन्तस्याङ्गस्य परस्मैपदपरे सिचि परेऽतो वृद्धिः स्यात् । अफालीत् अफालिष्टाम् । रान्तस्य अक्षारीत् । भावादौ अफालि अफलिषाताम् अफलिषत । अफलिष्ठाः । लस्येण्त्वाद् ‘विभाषेटः’ । अफलिढ्वम्, अफलिध्वम् । अफलिषि ॥ लिटि पफाल ।