72003: वदव्रजहलन्तस्याचः

Padacheda: वदव्रजहलन्तस्य | S | 6 | 1 |

अचः | S | 6 | 1 |

Sutrartha


Vasu English Summary

In the परस्मैपद s-Aorist there is वृद्धि of the अ of वद , व्रज् and of any vowel, without distinction, of the अङ्ग (stems) ending in a consonant.

Vasu English Translation

In the परस्मैपद s-Aorist there is वृद्धि of the अ of वद , व्रज् and of any vowel, without distinction, of the अङ्ग (stems) ending in a consonant. As अवादीत्, अव्राजीत् ॥ This debars the option in the case of these two roots, which would have otherwise obtained by (7.2.7). So also of stems ending in consonants: as अपाक्षीत्, अभैत्सीत्, अच्छैत्सीत्, अरौत्सीत् ॥ By the splitting up of the sutra (yoga-vibhaga) these forms could be evolved without using the word हलन्त in the sutra. Thus (1) वदिव्रज्योः “In the room of the अ of वद and व्रज् there is Vriddhi”, (2) अचः “In the room of the vowel of the stem there is Vriddhi”. The word “stem” is understood throughout these chapters. If the vowel be at the end of the stem, there would be Vriddhi by (VII.2. I), and if in the middle of the stem, then the verb ends with a consonant, and still there will be Vriddhi by our rule. The use of the word हलन्त in the sutra indicates that the rule applies when more than one consonant even is at the end : as अराङ्क्षीत्, अभाङ्क्षीत् ॥

Had the word हलन्तस्य not been used in the sutra, then the following maxim would have applied “येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्” ॥ The rule would have applied where only one consonant intervened between the vowel and the affix, but not when more than one consonant intervened. But it is intended that the rule should apply to such cases also.

The form उदवोढाम् is thus evolved. To the root वह् we add सिच् in the second Person singular. Thus वह् + स्ताम् ॥ Now there appears the Vriddhi rule on the one side; and the rule requiring the change of ह to ढ (8.2.31) the rule requiring the elision of स् (8.2.26), the rule requiring the change of त into ध (8.2.40), then the rule requiring the change of घ into ढ, and then the elision of one ढ (8.3.13) on the other. What rule is to be applied first-the Vriddhi or the other rules? The Vriddhi rule is to be applied first, because the other rules are considered as asiddha (8.2.1): and after that we apply the other rules : and afterwards on account of the elision of ढ, we change the Vriddhi आ into ओ (6.3.112). The equation will be something like this:- वह् + स्ताम् = वाह् + स्ताम् (7.2.3) = वाढ् + स्ताम् (8.2.31) = वाढ् + ताम् (8.2.26) = वाढ् + धाम् (8.2.80) = वाह् + ढाम् (8.4.41) = वा + ढाम् (8.3.13) = वोढाम् (6.3.112). This with the upasarga उत् and the augment अ becomes उदवोढाम् ॥ Similar is the evolution of उदवोढम् with स्तम् ॥ Once the अ has been Vriddhied into आ, there is no Vriddhi of ओ ॥ Had we not first Vriddhied the वह् into वाह्, but applied the vriddhi rule last, then there would have been vriddhi of ओ, as वौढाम् which is wrong. In fact where there has not taken place vriddhi first, there ओ is vriddhied, as = सोढामित्रस्यापत्यं = सौढामित्रिः ॥

Bhashya

वदव्रजहलन्तस्याचः हल्ग्रहणं किमर्थम् ॥ समुच्चयो यथा विज्ञायेत - वदिव्रज्योश्च हलन्तस्य(1) चाऽचइति । नैतदस्ति प्रयोजनम्, अज्ग्रहणादेवाऽत्र समुच्चयो भविष्यति - वदिव्रज्योश्चाऽचश्चेति ॥ अस्त्यन्यदज्ग्रहणे प्रयोजनम् ॥ (किम्(2) ?) ॥ वदिव्रजिविशेषणं यथा विज्ञायेत - वदिव्रज्योरचेति ॥ यद्येतावत्प्रयोजनं स्याद्वदिव्रज्योरत इत्येव(3) ब्रूयात् । अथ वैतदपि न ब्रूयात् । अत इति वर्तते ॥ इदं तर्हि प्रयोजनं - हलन्तस्य यथा स्यादजन्तस्य मा भूत् ॥ कस्य पुनरजन्तस्य प्राप्नोति ? ॥ अकारस्य । अचीकीर्षीत् । अजिहीर्षीत् ॥ लोपोऽत्र बाधको भविष्यति ॥ आकारस्य तर्हि प्राप्नोति - अयासीत् अवासीत् ॥ नास्त्यत्र विशेषः - सत्यां वा वृद्धावसत्यां वा ॥ सन्ध्यक्षरस्य तर्हि प्राप्नोति ॥ नवै सन्ध्यक्षरमन्त्यमस्ति ॥ ननु चेदमस्ति ढलोपे कृते उदवोढामुदवोढमुदवोढेति(1) ? ॥ असिद्धो ढलोपस्तस्याऽसिद्धत्वान्नैतदन्त्यं भवति ॥ अत उत्तरं पठति - ॥ हल्ग्रहणमिटि प्रतिषेधार्थम् ॥ हल्ग्रहणं क्रियते ॥ (किं प्रयोजनम् ?) ॥ इटिप्रतिषेधार्थम् । नेटीति प्रतिषेधं वक्ष्यति स हलन्तस्य यथा स्यादजन्तस्य मा भूत्, - अलावीत् अयावीत्(4) । ॥ न वाऽनन्तरप्रतिषेधात् ॥ न वैतत्प्रयोजनमस्ति ॥ किं कारणम् ॥अनन्तरस्य(5) प्रतिषेधात् । अनन्तरं यद्वृद्धिविधानं तत्प्रतिषिध्यते ॥ कुत एतत् ? ॥ अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति ॥ तच्चानन्त्यार्थम् ॥ तच्चाऽनन्तरं वृद्धिविधानमनन्त्यार्थं विज्ञायते ॥ कथं पुनर्ज्ञायतेऽनन्तरं वृद्धिविधानमनन्त्यार्थमिति ॥ अन्त्यस्य(7) वचनार्थक्यात् ॥ अन्त्यस्य वृद्धिविधाने प्रयोजनं नास्तीति कृत्वाऽनन्तरं वृद्धिविधानमनन्त्यार्थं विज्ञायते ॥ ( ॥ अतो विभाषार्थन्तु (1) ॥) अतो विभाषार्थं तर्हीदं वक्तव्यम् । अतो हलादेर्लघोरिति विभाषा वृद्धिं वक्ष्यति सा हलन्तस्य यथा स्यादजन्तस्य मा भूत् - अचिकीर्षीत् अजिर्हीषीत् - (इति(1)) ॥ ॥ अतो विभाषार्थमिति चेत्तत्सिद्धं (2)वृद्धेर्लोपबलीयस्त्वात् ॥ अतो विभाषार्थमिति चेत्तदन्तरेणापि हल्ग्रहणं सिद्धम् ॥ कथम् ? ॥ वृद्धेर्लोपबलीयस्त्वात् । वृद्धेर्लोपो बलीयान्भवतीति । इदमिह संप्रधार्यं - वृद्धिः क्रियतां लोप इति, किमत्र कर्तव्यम् ? ॥ परत्वाद्वृद्धिः ॥ नित्यो लोपः - कृतायामपि वृद्धौ प्राप्नोत्यकृतायामपि ॥ अनित्यो लोपो, न(3) हि कृतायां वृद्धौ प्राप्नोति, परत्वात्सगिड्भयां भवितव्यम् ॥ नात्र सगिटौ प्राप्नुतः ॥ किं कारणम् ? ॥ एकाचस्तौ वलीति वा ॥ एकाचः सगिटावुच्येते ॥ अथ वा वलीति तत्रानुवर्तते ॥ किं पुनः कारणमेकाचस्तौ वलीति वा(1) ? ॥ दरिद्रातेर्मा भूतामिति (2)। दरिद्रातेर्न सगिड्भयां भवितव्यम् ॥ किं कारणम्(3) ? ॥ उक्तमेतत्(4) - दरिद्रातेरार्धधातुके लोपः, सिद्धश्च प्रत्ययविधाविति । यश्चेदानीं प्रत्ययविधौ सिद्धः सिद्धोऽसौ सगिडि्वधौ(5) ॥ एवमर्थमेव तर्ह्येकाज्ग्रहणमनुर्वत्यम् - अत्र सगिटौ मा भूतामिति । स एष नित्यो लोपो वृद्धिं बाधिष्यते ॥ किं पुनर्भवान् वृद्धेरवकाशं मत्वाह - नित्यो लोप इति ?, अनवकाशा वृद्धिर्लोपं बाधिष्यते ॥ सावकाशा वृद्धिः ॥ कोऽवकाशः ॥ अनन्त्यः - अकणीत् अकाणीत् ॥ कथं पुनः सत्यन्त्येऽनन्त्यस्य वृद्धिः स्यात्(2) ? ॥ भवेद्योऽताङ्गं विशेषयेत्तस्याऽनन्त्यस्य न स्यात् । वयं तु खल्वङ्गेनाऽकारं विशेषयिष्यामस्तत्राऽनन्त्यो न स्यात् । वयं तु खल्वङ्गेवनाऽकारं विशेषयिष्यामस्तत्राऽनन्त्यो वृद्धेरवकाशोऽन्त्यस्य लोपो बाधको भविष्यति । एवं वृद्धेर्लोपबलीयस्त्वम्(7) ॥ (एवं वृद्धेर्लोपो बलीयान् भवति ) ॥ अथ वाऽऽरभ्यते पूर्वविप्रतिषेधो- ण्यल्लोपावियड्य्ण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम् - इति(9) ॥ सा तर्ह्येषाऽनन्त्यार्था वृद्धिः - हलन्तस्य यथा स्यादजन्त्यस्य मा भूत् - अपिपठिषीत् ॥ एतदपि नास्ति प्रयोजनम् ॥ कथम् ? ॥ हलादेरितिनैषा बहुव्रीहेः षष्ठी-हल् आदिर्यस्य सोऽयं हलादिः, हलादेरिति ॥ का तर्हि(1) ? ॥ कर्मधारयात्पञ्ञ्चमी - हल् आदिर्हलादिः, हलादेः परस्येति ॥ यदि कर्मधारयात्पञ्ञ्चमी - अचकासीत्, - अत्र प्राप्नोति ॥ सिचा आनन्तर्यं विशेषयिष्यामः - हलादेः परस्य सिच्यनन्तरस्येति ॥ यदि सिचाऽऽनन्तर्यं विशेष्यते - अकणीत् अकाणीत्, - अत्र न प्राप्नोति ॥ वचनाद्भविष्यति ॥ इहापि तर्हि वचनात्प्राप्नोति - अचकासीत् ॥ येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् ॥ येन च नाव्यवधानम् ? ॥ वर्णेनैकेन । सङ्घातेन पुर्नव्यवधानं भवति, न च भवति ॥ यदि सिचाऽऽनन्तर्यं विशेष्यते - अस्तु बहुव्रीहेः षष्ठी ॥ कस्मान्न भवति - अपिपठिषीदिति ? ॥ व्यवहितत्वात् ॥ एव तर्हि - अतिदूरमेवेदं हल्ग्रहणमनुसृतम् - हल्ग्रहणमनन्त्यार्थमज्ग्रहणमनिगर्थम् ॥ ( वदव्रजहलन्तस्याचः ) ॥

Kashika

वदव्रजोर्हलन्तानां चाङ्गानामचः स्थाने वृद्धिर्भवति, सिचि परस्मैपदे परतः। अवादीत्। अव्राजीत्। विकल्पबाधनार्थं वदिव्रजिग्रहणम्। हलन्तानाम् — अपाक्षीत्। अभैत्सीत्। अच्छैत्सीत्। अरौत्सीत्। अत्र योगविभागे सति हलन्तग्रहणमन्तरेणापि सिध्यति। कथम्? वदिव्रज्योरित्यत्र प्रथमयोगेऽत इति स्थानी अनुवर्तते। ततो यदच इति सूत्रं तत्राङ्गेनाज् विशेष्यते। अङ्गस्याचः सिचि परतो वृद्धिर्भवति। तदेतद् हल्ग्रहणं हल्समुदायपरिग्रहार्थम्। इहापि स्यात् — अराङ्क्षीत्। असाङ्क्षीत्। अन्यथा हि **येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्**इत्येकेन वर्णेन व्यवधाने स्यात्, अनेकेन हला न स्यात्। उदवोढाम्, उदवोढम् इत्यत्र वहेः सिचि ढत्वसलोपादीनां **पूर्वत्रासिद्धम्**(८.२.१.)इत्यसिद्धत्वात् पूर्वं हलन्तलक्षणा वृद्धिः क्रियते, पश्चाद् ढलोपनिमित्तमोत्वम्। तत्र कृते पुनर्वृद्धिर्न भवति, कृतत्वात्। यत्र त्वकृता वृद्धिः, ओकारस्यैव तत्र भवति, सोढामित्रस्यापत्यं सौढामित्रिरिति॥

Siddhanta Kaumudi

वदेर्व्रजेर्हलन्तस्य चाङ्गस्याचः स्थाने वृद्धिः स्यात्सिचि परस्मैपदेषु । इति प्राप्ते ॥

Laghu Siddhanta Kaumudi

एषामचो वृद्धिः सिचि परस्मैपदेषु। अव्राजीत्। अव्रजिष्यत्॥ {$ {! 11 कटे !} वर्षावरणयोः $} (धातुपाठे (01.0331))॥ कटति। चकाट। चकटतुः। कटिता। कटिष्यति। कटतु। अकटत्। कटेत्। कट्यात्॥

Balamanorama

वदव्रजहलन्तस्याचः - अत्र वृद्धिमाशङ्कितुमाह— वदव्रज। वद व्रज हलन्त एषां समाहाद्वन्द्वात् षष्ठ्येकवचनम्। अङ्गस्येत्यधिकृतम्। सिचि वृद्धिः परस्मैपदेष्वित्यनुवर्तते। तदाह— वदेरित्यादिना। हलन्तत्वादेव सिद्धे वदव्रजग्रहणं तु अवादीदव्राजीदित्यत्र अतो हलादेर्लघोरिति वृद्धिविकल्पबाधनार्थम्।

Tattvabodhini

वदव्रजहलन्तस्याचः - वदव्रज। अवादीत्। अव्राजीत् अतो हलादेरिति विकल्पं बाधित्वा अनेन नित्यं वृद्धिः। हलन्तस्योदाहरणम्— अपाक्षीत् अधाक्षीत्। तदन्तविधिनैव सिद्धेऽन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम्। हलोऽजित्युक्ते त्वजन्ताङ्गस्य हलः स्थाने वृद्धिरिति कदाचिदाशङ्क्येत। अच इति तु इक्परिभाषाया अनुपस्थानार्थम्, अन्यथा अभैत्सीदित्यत्र स्यान्नत्वपाक्षीदित्यादौ।

Padamanjari

विकल्पबाधनार्थमिति । अतो हलादेर्लघोः इति विकल्पो वक्ष्यते । नेटि इति प्रतिषेधे प्राप्त इति तु नोक्तम् विकल्पस्यैव वस्तुतः प्राप्तत्वात् । अत्रेत्यादि । वदव्रज्योः इत्येको योगः, अचः इति द्वितीयः तत्राङ्गेनाज्विशेष्यत इति - अङ्गस्य योऽच् यत्र तत्र स्थितस्तस्येति , तेन हलन्तस्य सिद्धा वृद्धिरिति भावः । किं पुनः कारणमङ्गेनाज्विशेष्यते, न पुनरचाऽङ्गस्येति असम्भवात् । अचिकीर्षीदित्यादौ अदन्तस्य तावत् नेटि इति प्रतिषेधः आकारन्तं तु सिचि न सम्भवति, यमरमनमातां सक्चेति सग्मविधानात् । सम्भवे वा नास्ति विशेषः सत्यां वा वृद्धावसत्यां वा । इगन्तस्य तु सिचि वृद्धिः इत्येव सिद्धा वृद्धिः । एजन्तमप्यात्वविधानान्नैव सम्भवति । अगवीदित्यत्र तु नेटि इति प्रतिषेधः । तदेवमङ्गेनाज्विशेष्यत इति सहृदयमभिधानम् । एवं प्रत्याख्याते हल्ग्रहणे, प्रयोजनमाह - तदेतदिति । किं पुनः कारणमन्तरेण हल्ग्रहणं हल्समुदायस्य परिग्रहो न सिद्ध्यति अत तथाअह - अन्यथा हीति । एतच्च यदा वृद्धिभागाजेव सिच्परत्वेन विशेष्यते, तदा वेदितव्यम् । अङ्गे तु विशेष्य माणे सर्वत्र सिध्यति । न चैवमचकासीदित्यादिष्वनेकाक्षु पूर्वस्याप्यचो वृद्धिप्रसङ्गः, नेटि इति प्रतिषेधात् । न चानेकाजनिडस्ति । न चापाक्षीदित्यादावटः प्रसङ्ग्ः, किं कारणम् लुङ् यिदङ्गं सिजन्तं तद्भक्तोऽडागमस्तद्ग्रहणेनैव गृह्यते न तु सिचि यदङ्गं तद्ग्रहणेन । यत्रापि सिचो लुक् क्रियते - अदातु, अधात् इति, तत्र सिच्परत्वाभावाद् वृद्धेरप्रसङ्गः । उदवोढामिति । वहेर्लुङ्, तसस्ताम्, सिच्, वह - स्तामिति स्थिते - वृद्धिश्च प्राप्नोति ढत्वादीनि च, आदिपदेन झलो झलि इति सिचो लोपः, झषस्तथोर्घोऽधः इति धत्वं ष्टुअत्वं ढलोप इत्येतेषां ग्रहणम् । तत्र ढत्वादीनामसिद्धत्वात्पूर्वं वृद्धिः क्रियते, पश्चात् ढलोपनिमितमोतवम् । अथ तस्य पुनर्वृद्धिः कस्मान्न भवति तत्राह - तत्र कृत इति । कृतत्वादिति । यद्यप्येकारस्य न कृता वृद्धिः तथापि प्रयोगेऽस्मिन् कृतेति भावः । यत्र त्विति । न ह्यएकारत्वनिबन्धनो वृद्धेरभावः, किन्तु कृतत्वनिबन्धन इति भावः । सोढा अभिभूता एअमित्रा येन स सोढामित्रः ॥

Nyaas

अनिगन्तार्थोऽयमारम्भः। अथ वदिव्रज्योग्र्रहणं किमर्थम्, यावता हलन्तत्वादेव वृद्धिः सिध्यति? इत्यत आह - विकलपबाधनार्थम् इत्यादि। अतो हलादेः (7.2.7) विकल्पं वक्ष्यति, तस्य बाधो यथा स्यात्। अपाक्षीत् इति। डुपचष्? पाके (धातुपाठः-996), चोः कुः (8.2.30) इति कुत्वम्। अभैस्तीत् इति। भिदिर्? विदारणे (धातुपाठः-1439), `खरि च (8.4.54) इति चर्त्वम् - दकारस्य तकारः। अरौत्सीत् इति। रुधिर आवरणे (धातुपाठः-1438)। अत्र इत्यादि। वदिव्रज्योः इत्येको योगः, `अचः इति द्वितीयः; एवं योगविभागे सति हलन्तग्रहणमन्तरेणापीष्टं सिध्यत्येव। कथम् इति। असम्भावयतः प्रश्नः। वदिव्रव्योः इत्यादिना यथा योगविभागे सति सिध्यति तथा दर्शयति। तत्र प्रथमयोगे पूर्वसूत्रात्? अतः इति स्थान्यनुवर्तते। तेनावादीत्, अव्राजीदित्येतावत्सिध्यति। ततो यदचेति द्वितीयं सूत्रम्, तत्र विशेषणविशेष्यभावयोर्यथेष्टत्वात्? प्रकृतेनाङ्गेनाजिविशिध्यते - अङ्गस्य योऽजिति। तेनाङ्गस्याचो यत्र तत्रावस्थितस्य सिचि परतो वृद्धिर्भवति। अपाक्षीदित्याद्यपि सिध्यति। यद्येवम्, योगविभाग एव कर्तव्यः, किं हल्ग्रहणेन? इत्यत आह - तदेतत् इत्यादि। हल्समुदयपरिग्रहः किमर्थो यतसतदर्थोऽयं यत्नः क्रियते? इत्याह - इहापि इत्यादि। अराङ्क्षीत् इति। रञ्ज रागे (धातुपाठः-1167)। असाङ्क्षीत् इति। षन्ज सङ्गे (धातुपाठः-987)। ननु चाङ्गस्य योऽच्? तस्य सिचि परतो वृद्धिरुच्यते, न चात्राङ्गसम्बन्धिनोऽचोनन्तरः परः सिच्? सम्भवति यस्यानेन वृद्धिर्विधीयते। तथा ह्रकारान्तस्याङ्गस्य तावत्? अतो लोपः (6.4.48) इति लोपेन भवितव्यम्। न च वचनादतो लोपं वृद्धिर्बाधिष्यत इति शक्यते वक्तुम्; यदि ह्रकारान्तस्यैव वृद्धिः स्यात्? प्रत्याहारग्रहणमनर्थकं स्यात्, अतः इत्येवं ब्राऊयात्। अथ वा - तदपि सम्भवति। अकारान्तस्य तु कामं संभवति यावाप्रभृतेः। न तु तस्यास्ति विशेषः सत्यां वा वृद्धावसत्यां वा। इगन्तस्य पुनः सिचि वृद्धिः (7.2.1) इत्यादिनैव वृद्धिर्विहिता। सन्ध्यक्षराणां च नास्त्येव; आदेच उपदेशेऽशिति (6.1.45) इत्यात्त्वविधानात्। उदवोढाम्, उदवोढमित्यत्रास्तीति चेत्? न; ढलोपस्यासिद्धत्वात्। तदयं न क्यचिदचोऽनन्तरः परस्मैपदपरः सिच्? सम्भवति। उच्यते चेदं वचनम्; ततो येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् (व्या।प।46) यथाऽपाक्षीदित्यादौ वृद्धिर्भवति, तथाऽराङ्क्षीदित्यादावपि वृद्धिर्भविष्यति, ततो नार्थो हल्ग्रहणेन? इत्यत आह - अन्यथा हि इत्यादि। एकेन वर्णेन सर्वत्र व्यवधानमस्ति। हल्समुदायेन क्यचिदेवाराङ्क्षीदित्यादौ। अपाक्षीदित्यदौ नास्ति, तत्रसति हलग्रहणेऽनन्तरोक्तया नीत्या यत्रैकेन वर्णेन व्यवधानमस्ति - अपाक्षीदित्यादौ, तत्रैव स्यात्, यत्र त्वर्नेकवर्णेन व्यवधानमस्ति - अराङ्क्षीदित्यादौ, तत्र न स्यात्, यथाऽपिपठिषीदित्यादौ आदययोरचोर्व्यवधानान्न भवति। हल्ग्रहणे तु सति हल्समुदायेन व्यवधानेऽपि भवति; हल्ग्रहणसामर्थ्यात्। उदवोढाम्, उदवोढमित्यत्र वहेर्वृद्धिः कस्मान्न भवति, ढलोपे कृतेऽहलन्तादिति चेत्? न; ढलोपस्यासिद्धत्वादिति यश्चोदयेत्, तं प्रत्याह - क्रियते एवात्र वृद्धिः। तस्यास्त्वोत्त्वं विधीयत इति दर्शयितुमाह - उदवोढाम् इत्यादि। आदिशब्देन धात्वादयो गृह्यन्ते। वहेरुत्पूर्वाल्लुङ्, तस्थसौ, तयोः तस्थस्थमिपाम् (3.4.101) इत्यादिना तान्तमादेशौ यथाक्रमम्, हलन्तलक्षणा वृद्धिः, हो ढः (8.2.31) इति ढत्वम्, झलो झलि (8.2.26) इति सिचो लोपः, झषस्तथोर्घोऽधः (8.2.40) इति षत्वम्, ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्। सहिवहोरोदवर्णस्य (6.3.112) इत्योत्त्वम्। तत्र ह्रोत्त्वे पुनर्वृद्धिः कस्मान्न भवति? इत्याह - तत्र कृते पुनः इत्यादि। एकं ह्यत्र वृद्धिशास्त्रम्, तेन च प्रागेव कृता वृद्धिरिति कृतकार्यत्वाद्वृद्धिशास्त्रस्य, पुनस्तन्न व्याप्रियत इति न भवति पुनर्वृद्धिः। सौढामित्रिरित्यत्र तर्हि कथमोत्त्वे कृते वृद्धिर्भवति? इत्याह - यत्र तु इत्यादि। यत्र प्राग्वृद्धिः कृता तत्र कृतार्थत्वाद्वृद्धिशास्त्रस्य पुनर्न व्याप्रियत इति न भवति वृद्धिः, सोढामित्रिरित्यत्र तु न कृता वृद्धिः। तस्मादकृतार्थत्वाद्वृद्धिशास्त्रं व्याप्रियत इति भवत्येव वृद्धिः। सा च भव्त्योकारस्य भवति, नाकरस्य वृद्धिरिति; वृद्धिविधानकाल ओकारस्यैव वृद्धिभाजः सन्निहितत्वात्। सहेर्निष्ठा, तत्र ढत्वादिषु कृतेषु सोढ इति भवति, सोढोऽमित्रोऽनेनेति सोढामित्रः, तस्यापत्यमिति अत इञ् (4.1.95) , तद्धितेष्वचामाने (7.2.117) वृद्धिः। येन विधिस्तदन्तस्य (1.1.72) इत्येव सिद्धे तदन्तत्वेऽन्तग्रहणमसन्देहार्थम्। हलोऽचः इत्युच्यमाने सन्देहः स्यात् - किमजन्तस्याङ्गस्य हलो वृद्धिर्भवति? उत हलन्तस्याचेति॥

Prakriyasarvasvam

वदिव्रज्योर्हलन्तानां च परस्मैपदपरे सिचिपरेऽचः स्थाने वृद्धिः स्यात् । अताप्सीत् ।

Sutra Prayogas

  • प्रत्यवादीदथ (भट्टिकाव्यम्): वद-व्रज इत्यादिना वृद्धिः।

  • अवादीत् (भट्टिकाव्यम्): न तस्य व्याघात इति वद-ब्रज इत्यादिना वृद्धिः ।

  • व्यकारीत्सहाऽऽसनं (भट्टिकाव्यम्): वद-घ्रज इत्यादिना वृद्धिः ।

  • गुणिनोऽध्यवात्सुः (भट्टिकाव्यम्): वदव्रज इत्यादिना वृद्धिः।

  • अव्राजीत् (भट्टिकाव्यम्): वद-ब्रज इत्यादिना वृद्धिः।