72001: सिचि वृद्धिः परस्मैपदेषु

Padacheda: सिचि | S | 7 | 1 |

वृद्धिः | S | 1 | 1 |

परस्मैपदेषु | S | 7 | 3 |

Sutrartha

परस्मैपदस्य प्रत्यये परे सिच्-प्रत्ययान्तस्य अङ्गस्य वृद्धि-आदेशः भवति ।

किम् नाम सिच्-प्रत्ययः? च्लेः सिच् (3.1.44) इत्यनेन लुङ्लकारस्य प्रत्यये परे ‘च्लि’ इत्यस्य विकरणप्रत्ययस्य ‘सिच्’ आदेशः भवति । यत्र एतादृशः आदेशः भवति, तत्र परस्मैपदस्य प्रत्यये परे इगन्तस्य अङ्गस्य वृद्धिः भवति । इको गुणवृद्धी (1.1.3) इत्यनेन अयं वृद्धिः अङ्गस्य अन्तिम-इक्-वर्णस्य भवति । यथा, कृ-धातोः लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ - कृ + लुङ् [लुङ् (3.2.110) इति लुङ्] कृ + च्लि + ल् [च्लि लुङि (3.1.43) इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् ‘च्लि’] → कृ + सिच् + ल् [च्लेः सिच् (3.1.44) इति च्ले-इत्यस्य सिच्-आदेशः । → कृ + स् + ल् [चकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः ।] → अट् + कृ + स् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + कृ + स् + तिप् [तिप्तस्झि… (3.4.78) इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः] → अ + कृ + स् + त् [ इतश्च (3.4.100) इति इकारलोपः] → अ + कृ + स् + ई + त् [अस्तिसिचोऽपृक्ते (7.3.96) इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमः ] → अ + कार् + स् + ई + त् [सिचि वृद्धिः परस्मैपदेषु (7.2.1) इत्यनेन सिच्-प्रत्यये परे इगन्तस्य अङ्गस्य वृद्धिः । ऋकारस्य वृद्धिः रपरः आकारः ।] → अ + कार् + ष् + ई + त् [आदेशप्रत्यययोः (8.3.59) इत्यनेन इण्-वर्णात् परस्य सकारस्य मूर्धन्यादेशः षकारः । (रेफः इण्-प्रत्याहारे अस्ति ।)] → अकार्षीत् । अनेनैव प्रकारेण नी-धातोः रूपम् ‘अनैषीत्’ (इकारस्य वृद्धिः ऐकारः), श्रु-धातोः रूपम् ‘अश्रौषीत्’ (उकारस्य वृद्धिः औकारः), हृ-धातोः रूपम् ‘अहार्षीत्’ (ऋकारस्य वृद्धिः रपरः आकारः) - एतानि रूपाणि अपि सिद्ध्यन्ति । ज्ञातव्यम् - सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन आर्धधातुके प्रत्यये परे अङ्गस्य अन्तिमवर्णस्य यः गुणादेशः विधीयते तस्य इदम् सूत्रमपवादः अस्ति । अतः परस्मैपदस्य अङ्गस्य सिचि परे गुणस्य अपवादरूपेण वृद्धिः विधीयते ।

Sutrartha (English)

An अङ्ग ending in the सिच्-प्रत्यय gets a वृद्धि आदेश in presence of a प्रत्यय belonging to परस्मैपद.

Vasu English Summary

Before the Aorist-characteristic स् (सिच्), वृद्धि is substituted in the परस्मैपद for the final of a अङ्ग (stem) ending in इ , उ , ऋ (long or short – इको गुणवृद्धी (1.1.3)).

Vasu English Translation

Before the Aorist-characteristic स् (सिच्), वृद्धि is substituted in the परस्मैपद for the final of a अङ्ग (stem) ending in इ , उ , ऋ (long or short – इको गुणवृद्धी (1.1.3)). The word इक् is to be read into this sutra by virtue of (1.1.3). As अचैषीत्, अनैषीत्, अलावीत्, अपावीत्, अकार्षीत्, अहार्षीत् (7.3.96) and (8.2.28) The antaranga guna substitution is superseded by the express mention of Vriddhi. If the antaranga guna is superseded by this vriddhi, why is not the antaranga उवङ् also superseded in न्यनुवीत्, न्यधुषीत् ? The Vriddhi does not take place, as these roots belong to कुटादि class, after which this affix is ङित् (1.2.1). The Vriddhi being thus superseded, we have उवङ् substitution. Why do we say in the Parasmaipada? Observe अच्योष्ठ, अप्लोष्ट ॥

Bhashya

सिचि वृद्धिः परस्मैपदेषु ॥ सिचि वृद्धावोकारप्रतिषेधः ॥ सिचि वृद्धावोकारस्य प्रतिषेधो वक्तव्यः । उदवोढम् (1)। उदवोढम्(1) । उदवोढेति(1) ॥ स तर्हि प्रतिषेधो वक्तव्यः ? ॥ न वक्तव्यः । ॥ ओकाराद्वृद्धिर्विप्रतिषेधेन ॥ (ओकाराद्वृद्धिर्भवति(2) विप्रतिषेधेन) । ओत्वं क्रियतां वृद्धिरिति । (किमत्र कर्तव्यम् ? ॥) वृद्धिर्भविष्यति विप्रतिषेधेन ॥ ओकाराद्वृद्धिर्विप्रतिषेधेनेति चेदोत्वाऽभावः ॥ ओकाराद्वृर्विप्रतिषेधेनेति चेदोत्त्वस्याऽभावः । उदवोढामुवोढम्(1) उदवोढेति ॥ नैषः दोषः । उक्तं तत्र वर्णग्रहणस्य प्रयोजनं वृद्धावपि कृतायामोत्त्वं यथा स्यात् ॥ पुनः प्रसङ्गविज्ञानाद्वा सिद्धम् ॥ अथ वा पुनः प्रसङ्गादत्र वृद्धौ कृतायामोत्वं भविष्यति ॥ यथा प्रसारणादिषु(4) द्विर्वचनम् ॥ तद्यथा - जग्ले मम्ले इर्जतुः इर्जुरिति प्रसारणादिषु(4) पुनः प्रसङ्गविज्ञानाद्विर्वचनं भवति ॥ इहापि तर्हि पुनःप्रसङ्गविज्ञानादोत्वं स्यात् - सौढामित्रिरिति ॥ सौढामित्रौ बहिरङ्गलक्षणत्वात्सिद्धम् ॥ (सौढामित्रौ(1) बहिरङ्गलक्षणत्वात्सिद्धम् ।) ॥ बहिरङ्गलक्षणा वृद्धिरन्तरङ्गमोत्त्वम् । असिद्धं बहिरङ्गमन्तरङ्गे ॥

Kashika

परस्मैपदपरे सिचि परत इगन्तस्याङ्गस्य वृद्धिर्भवति। अचैषीत्। अनैषीत्। अलावीत्। अपावीत्। अकार्षीत्। अहार्षीत्। अन्तरङ्गमपि गुणमेषां वृद्धिर्वचनाद् बाधते। न्यनुवीद् न्यधुवीद् इत्यत्र कुटादित्वाद् ङित्वे सति प्रतिषिद्धायां वृद्धावुवङादेशः क्रियते। परस्मैपदेष्विति किम् ? अच्योष्ट। अप्लोष्ट।

Siddhanta Kaumudi

इगन्ताङ्गस्य वृद्धिः स्यात्परस्मैपदपरे सिचि । अवैषीत् । आजीत् । अवेष्यत् । आजिष्यत् ।{$ {!231 तेज!} पालने$} । तेजति ।{$ {!232 खज!} मन्थे$} । खजति ।{$ {!233 खजि!} गतिवैकल्ये$} । खञ्जति ।{$ {!234 एजृ!} कम्पने$} । एजांचकार ।{$ {!235 टुओस्फूर्जा!} वज्रनिर्घोषे$} । स्फूर्जति । पुस्फूर्ज ।{$ {!236 क्षि!} क्षये$} । अकर्मकः । अन्तर्भावितण्यर्थस्तु सकर्मकः । क्षयति । चिक्षाय । चिक्षियतुः । चिक्षियुः । चिक्षयिथ । चिक्षेथ । चिक्षियिव । चिक्षियिम । क्षेता ॥

Laghu Siddhanta Kaumudi

इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि। अक्षैषीत्। अक्षेष्यत्॥ {$ {! 14 तप !} संतापे $} (धातुपाठे (01.1140)) ॥ तपति। तताप। तेपतुः। तेपुः। तेपिथ, ततप्थ। तेपिव। तेपिम। तप्ता। तप्स्यति। तपतु। अतपत्। तपेत्। तप्यात्। अताप्सीत्। अताप्ताम्। अतप्स्यत्॥ {$ {! 15 क्रमु !} पादविक्षेपे $} (धातुपाठे (01.0545)) ॥

Balamanorama

सिचि वृद्धिः परस्मैपदेषु - अथ लुङि सिचि वीभावेसार्वधातुकार्धधातुकयो॑रिति गुणे प्राप्ते — सिचि वृद्धिः । इगन्तस्येति । वृद्धिश्रुत्या इक इत्युपस्थितमङ्गस्येत्यधिकृतस्य विशेषणं, तदन्तविधिरिति भावः । एवं च अकोषीत्यादौ व्यञ्जनस्य न वृद्धिः । अवैषीदिति । लुङिस्तिप् । इकारलोपः । सिचि वीभावः । ‘एकाच’ इति इण्निषेधः । वृद्धिः । अडागमः । षत्वम् । आजीदिति । सिज्लोपः ।वदव्रजे॑ति हलन्तलक्षणायां वृद्धौनेटी॑ति निषिद्धायामाडागमेआटश्चे॑ति वृद्धिः । लृङि अवेष्यत् आजिष्यत् । तेज पालन इत्यादि । स्पष्टम् । एजृ कम्पन इति । दीप्तौ त्वात्मनेपदी गतः । टु ओ स्फूर्जेति । ‘आदिर्ञिटुडव’ इति टुरित्, उपदेशेऽनुनासिकत्वादोकार आकारश्च इत् ।ट्वितोऽथु॑जित्थथुच्,आदितश्चे॑ति निष्ठानत्वम्,ओदितश्चे॑ति निष्ठायामिण्निषेधश्च । तत्फलानि ।उपधायां चे॑ति दीर्घस्याऽनित्यत्वज्ञापनार्थमिह दीर्घ ऊकारः पठितः । तेन हुर्छतीत्यादौ न दीर्घ इत्याहुः । स्फूर्जतीति । लिटि — पुस्फूर्ज, अस्फूर्जीत् । क्षि क्षय इति । क्षयो — नाशः । अन्तर्भावितण्यर्थ इति । नाशनार्थक इत्यर्थः । अजन्तेष्वेवास्य पाठो युक्तः । क्षयतीति । नश्यतीत्यर्थः,नाशयतीति वा । शपि गुणेऽयादेशः । चिक्षायेति । णलि वृद्धिः । आयादेशः । चिक्षियतुरिति ।असंयोगा॑दिति कित्त्वान् गुणः । इयङ् । चिक्षयिथ — चिक्षेथेति । पित्त्वेन कित्त्वाऽभावाद्गुणः । अजन्तत्वात्तासौ नित्याऽनिट्त्वाच्च भारद्वाजनियमात्थलि वेट् । इट्पक्षेऽयादेशः । चिक्षियथुः । चिक्षिय । चिक्षाय चिक्षय । वस्मसोस्तु क्रादिनियमान्नित्मिट् । तदाह -चिक्षियिव चिक्षियिमेति । क्षेता । क्षेष्यति । क्षयतु । अक्षयत् । क्षयेत् ।

Tattvabodhini

सिचि वृद्धिः परस्मैपदेषु - ॒इको गुणवृद्धी॑ इति परिभाषोपस्थानादाह — इगन्तेति । परस्मैपदेष्विति किम् । अधविष्ट । अधोष्ट । सिचि किम् । एति । बिभर्ति । गुणं बाधित्वा वृद्धिः स्यात् । खज मन्थे । कजेति केचित्पठन्ति । एजृ कम्पने । दीप्तौ त्वात्मनेपदी गतः । टुओस्फूर्जा ।ट्वनितोऽथुच्ट । स्फूर्जथुः ।ओदितश्चे॑ति निष्ठानत्वार्थमोकारः । स्फूर्ग्णः । स्फूर्ग्णवान् । आकारस्तुओदितश्च॑ इति निष्ठायामिटो निषेधार्थः,विभाषा भावादिकर्मणो॑रिति विकल्पार्थश्चास्फूर्ग्ण, स्फूर्जितमनेनेत्यादि ।उपधायां चे॑ति दीर्घस्याऽनित्यत्वज्ञापनार्थमिह दीर्घोपदेशः । तेन हुच्र्छति मुच्र्छति इत्यपि भवतीति केचित् । क्षि क्षये । अजन्तेष्वस्य पाठो युक्तः ।क्षि निवासगत्यो॑रिति तुदादौ ।

Padamanjari

अत्र सिचि, परस्मैपदेष्विति द्वे अपि परसप्तम्यौ, तत्र सिचोऽह्गापेक्षं परत्वम्, परस्मैपदानां सिजपेक्षम् । इको गुणवृद्धी इति वचनादिक इत्युपतिष्ठते, तत्रेकाङ्गस्य विशेषणात्त्दन्तविधिर्भवतीत्याह - इगन्तस्याङ्गस्येति । उदाहरणेषु अस्तिसिचोऽपृक्ते इतीट्, सेटः सिचः इट ईटि इति लोपः । ननु चान्तर्भूतसिज्मात्रापेक्षत्वाद् गुणोऽन्तरङ्गः, बहिर्भूतं परस्मैपदं सिचं चापेक्षत इति वृद्धिर्बहिरङ्गा, ततश्च पूर्व गुणे कृते इगन्तस्याङ्गस्येति नोपपद्यते इत्यत आह - अन्तरङ्गमपीति । यथैवत तर्हि गुणं बाधते तथोवङ्मपि बाधेत, तत्राह - न्यनुवीन्न्यधुवीदित्यत्रेति । णू स्तुतौ, धूञ् विधूनने कुटादी । यत्र हि वृद्धिः प्रवर्तते तत्रान्तरङ्गं बाधेत, इह तु प्रतिषेधादप्रवृता सती नोत्सहते वाधितम् । ननु च यथा गुणो बाध्यते, तएवं प्रतिषेधोऽपि बाधनीयः येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति, गुणे च नाप्राप्ते वृद्धिरारभ्यते, प्रतिषेधे च प्राप्ते चाप्राप्ते चेति । अथैवं कस्मान्न कल्प्यते - अन्तरङ्गत्वाद्गुणे कृते वचनादनिकोऽपि वृद्धिर्भवति, यथा - अचैषीदित्यादावेकारस्य, अहौषीदित्यादावोकारस्येति तत्रायमर्थः - ह्म्यन्तक्षण इत्यत्र णिश्विग्रहणं न कर्तव्यं भवति, कथम् औनयीत्, अश्वयीदित्यादौ तान्तरङ्गत्वाद् गुणायादेशयोः कृतयोर्यान्तानां ह्म्यन्त इत्येव प्रतिषेधः सिद्धः नैवं शक्यं कल्पयितुम् , थएवं हि कल्प्यमाने अभैत्सीदित्यादौ व्यञ्जनस्यापि वृद्धिप्रसङ्गः । वदव्रजहलन्तस्याचः इत्येषा व्यञ्जनवृद्धिं बाधिप्यते नाप्राप्तायां तस्यामारम्भात् । यत्र तर्हि सा प्रतिषिध्यते - अनन्दीत्, अदेवीदित्यादौ, तत्र व्यञ्जनस्य सिचि वृद्धिः प्राप्नोति - नैष दोषः नेटि इत्यनेन हलन्तस्य या च यावती च वृद्धिः प्राप्नोति - वदव्रजः इति वा, सिचि वृद्धिः इति वा, सा सर्वा प्रतिषिध्यते । इह तर्हि आगवीदिति गोशब्दस्याचारक्विबन्तस्य सिचि वृद्धिः प्राप्नोति आत्राप्यन्तरङ्गत्वादवादेशो कृते हलन्तलक्षणाया वृद्धेः नेटि इति प्रतिषेधः । अतो हलादेर्लघोः इति वकल्पस्तु सत्यपि सिचि वृद्धेरिग्लक्षणत्वे भवति । इह तर्हि न्यनुवीत्, न्यधुर्वीदिति - क्ङिति चेति प्रतिषेधो न प्राप्नोति, अनिग्लक्षणत्वात् मा भूत्प्रतिषेधः अन्तरङ्गत्वादुवङदेशो भविष्यति । इह च अकार्षीदिति - गुणे रपरत्वे च कृते हलन्तलक्षणा वृद्धिः यत्रापि सा प्रतिषिध्यते - अतारीत्, अस्तारीदिति, तत्रापि अतो लरन्तस्य इति वृद्धिः सिद्धा । इह तर्ह्यलावीत्, अयावीदन्तरङ्गत्वाद् गुणावादेशयोः कृतयोर्हलन्तलक्षणायाः नेटि इति प्रतिषेधे अतो हलादर्लघोः इति वकल्पः प्राप्नोति अतो लरन्तस्य इत्यत्र वकारोऽपि प्रश्लिष्यते । किं वकारो न श्रूयते लुप्तनिर्द्दिष्टो वकारः । इहापि तर्हि प्राप्नोति - मा भवानवीद्, अमवीदिति णिश्विग्रहणमिह पक्षे न कर्तव्यमित्युक्तम्, तयोः स्थाने अविमवी प्रक्षेप्स्यामि । यतर्हि लाघवमस्मिन्पक्षे प्रदर्शितम् - णिश्विग्रहणं न कर्तव्यं भवतीति, तदेवं सति हीयते किं चागवीदित्यत्रापि अतो हलादेर्लघोः इति विकल्पं बाधित्वा वकारप्रश्लेषान्नित्या वृद्धिः प्राप्नोति तथा चिप्रभृतिभ्यो यङ्लुगन्तेभ्यो लुङि अचेचायीदित्यादौ गुणायादेशयोः कृतयोर्यान्तानां नेति प्रतिषेधः प्राप्नोति, तथा चिरिणोति - चिरिणोत्योः अचिरायीत, अजिरायीद् । तस्मादन्तरह्गमपि गुणमेषा वृद्धिर्वचनाद्वाधत इत्येतदेव साम्प्रतम् । न पुनरन्तरङ्गस्य प्रवृत्तिमभ्युपेत्य वचनादनिकोऽपि भवतीति । किं पुनः कारणमियमेव कल्पना भवति णिश्विग्रहणात् अन्यथा णिश्विग्रहणं न कर्तव्यं भवतीत्यनन्तरमेवोक्तम् ॥

Nyaas

सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणे प्राप्ते वचनमिदमारभ्यते। सिचीति, परस्मैपदेष्विति च द्वे अप्येति परसप्तम्यौ; तत्र सिचोऽङ्गापेक्षं परत्वं, परस्मैपदानां तु सिजपेक्षम्। परस्मैपदपरे इति। परस्मैपदं परं यस्मात्? स तथोक्तः। इगन्तस्य इति। इको गुणबृद्धी (1.1.3) इत्यस्योपस्थाने सतीकाऽङ्गं विशिष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह - इगन्तस्याङ्गस्य वृद्धिर्भवति इति। अचैषीत्, अनैषीत् इति। चिञ्? चयने (धातुपाठः-1251), णोञ्? प्रापणे (धातुपाठः-91), भूते लुङ्, च्लेः सिच् (3.1.44) , एकाचः (7.2.10) इत्यादिनेट्प्रतिषेधः, अडागमः, नित्यं ङितः (3.4.99) इत्यनुवर्तमाने इतश्च (3.4.100) इतीकारलोपः, अस्तिसिचोऽपुक्ते (7.3.96) इतीट्, इष्कोः (8.3.57) इत्यनुवर्तमाने आदेशप्रत्यययोः (8.3.59) इति षत्वम्। अलावीत्? अपावीत् इति। पूर्ववल्लुङ, `आर्धधातुकस्येङ्वलादेः (7.2.35) इतीट्? पूर्ववदीट्, इट ईटि (8.2.28) इति सिचो लोपः। अकार्षात् इति। उदाहरणं सुबोधम्। ननु चात्रान्तरङ्गत्वाद्गुणेन भवितव्यम्, अन्तरङ्गत्वं पुनस्तस्यार्धधातुकापेक्षात्वात्; वृद्धेस्त्वाद्गुणविशेषं परस्मैपदपरं सिचमपेक्ष्य बहिरङ्गत्वम्? अत आह - अन्तरङ्गमपि इत्यादि। यद्यन्तरङ्गत्वाद्णः स्यात्, तदैतद्वचनमनर्थकं स्यात्। तस्माद्वचनसामर्थ्याद्वहिरङ्गापि वृद्धिर्गुणं बाधते। यद्येवम्, तर्हि यथा वचन सामर्थ्याद्वृद्धिरन्तरङ्गमपि गुणं बाधते, तथोवङादेशमपि बाधेत ततश्च न्यनुवीत्, न्यधुवीदिति न सिध्येत्? इत्यत आह - व्यनुवीन्न्यधुवीत् इत्यादि। यत्र हि वृद्धेः प्रतिषेधो नास्ति, तत्र वचनसामर्थ्याद्विध्यन्तरं बाधित्वाऽसौ प्रवर्तते। इह तु ङित्त्वे सति क्ङिति च (1.1.5) इति वृद्धिः प्रतिषिध्यते, प्रतिषिद्धा च सतो नोत्सहत उपङादेशं बाधितुम्। तेन तस्यां प्रतिषिद्धायां अचि श्नुधातु (6.4.77) इत्यादिनोवङादेशः क्रियते। ङित्त्वं पुनरत्र णू स्तवने (धातुपाठः-1397), धू विधूनने (धातुपाठः-1398) इत्येतयोः कुटादिषु पाठाद्गाङकुटादिसूत्रेण (1.2.1) यथा सामर्थ्याद्वृद्ध्या गुणो बाध्यते, तथा प्रतिषेधोऽपि बाध्येत एव? नैतदस्ति; गुणे हि नाप्राप्ते वृद्धिरारभ्यते, प्रतिषेधे तु प्राप्ते चाप्राप्ते च। तत्र येन नाप्राप्ति नान्येन (व्या।प।49) गुणस्यैव बाधा युक्ता, न प्रतिषेधस्य। अच्योष्ट, अप्लोष्ट इति। च्युङ्? छ्युङ्? ज्युङ्? (न स्तः - धातुपाठे) इयुङ्? प्रुङ्? प्लुङ्? गतौ (धातुपाठः-955,956,957)

Prakriyasarvasvam

परस्मैपदपरे सिचि परे इगन्तस्याङ्गस्य वृद्धिः स्यात् । षत्वम् । अट् । अजैषीत् । अजैष्टाम् ।

Sutra Prayogas

  • प्रावारिषुरिव (भट्टिकाव्यम्): सिचि वृद्धिः परस्मैपदेषु इति वृद्धिः।

  • अभैषीदैक्षिष्ट (भट्टिकाव्यम्): सिचि वृद्धिः इति वृद्धिः।

  • उदतारीदुदन्वन्तं (भट्टिकाव्यम्): सिचि वृद्धि: इति वृद्धिः ।

  • अगौप्तां (भट्टिकाव्यम्): सिचि वृद्धिः इति वृद्धिः।