71094: ऋदुशनस्पुरुदंसोऽनेहसां च¶
Padacheda: ऋद्-उशनस्-पुरुदंसस्-अनेहसाम् | S | 6 | 3 |
च | S | 0 | 0 |
Sutrartha¶
ऋदन्तशब्दानाम्, तथा उशनस्/पुरुदंसस्/अनेहस्-एतेषां शब्दानां असम्बुद्धौ सुँ-प्रत्यये परे अनङ् आदेशः भवति ।
अनेन सूत्रेण चतुर्ण्णाम् शब्दानाम् विषये प्रथमैकवचनस्य सुँ-प्रत्यये परे अनङ्-आदेशः विधीयते - 1. ऋकारान्तशब्दाः - यथा पितृ, मातृ, कर्तृ आदयः 2. ‘उशनस्’ शब्दः (= शुक्राचार्यः) 3. ‘पुरुदंसस्’ शब्दः (= मार्जारः) 4. ‘अनेहस्’ शब्दः (= समयः) अनङ्-आदेशे ङकारः इत्संज्ञकः अस्ति, नकारोत्तरः अकारः च उच्चारणार्थः अस्ति, अतः द्वयोः लोपः भवति , ‘अन्’ इत्येव अवशिष्यते । तथा च, ङित्वात् ङिच्च (1.1.53) इत्यनेन अयं अन्त्यादेशः भवति । प्रक्रियाः एताः - 1. पितृ + सुँ → पित् अनङ् + स् [ऋतो ङिसर्वनामस्थानयोः (7.3.110) इत्यनेन अङ्गस्य गुणे प्राप्ते अपवादत्वेन ऋदुशनस्पुरुदंसोऽनेहसाम् च (7.1.94) इति अनङ्-आदेशः] → पित् अन् + स् [इत्संज्ञालोपः] → पितान् + स् [सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → पितान् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इति सुँलोपः] → पिता [नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारलोपः । यद्यपि मूल-प्रातिपदिकम् ‘पितृ’ इति अस्ति, तथापि एकदेशविकृतमनन्यवत् अनया परिभाषया ‘पिता’ इत्यस्य अपि प्रातिपदिकसंज्ञा भवति ।] 2. कर्तृ + सुँ → कर्त् + अनङ् + स् [ऋतो ङिसर्वनामस्थानयोः (7.3.110) इत्यनेन अङ्गस्य गुणे प्राप्ते अपवादत्वेन ऋदुशनस्पुरुदंसोऽनेहसां च (7.1.94) इति अनङ्-आदेशः] → कर्तान् स् [अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् (6.4.11) इत्यनेन ऋकारान्तस्य अङ्गस्य सर्वनामस्थाने परे उपधादीर्घः ।] → कर्तान् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → कर्ता [नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन नकारस्य लोपः] 3. उशनस् + सुँ → उशन अनङ् + सुँ ऋदुशनस्पुरुदंसऽनेहसाम् च (7.1.94) इति अङ्गस्य अनङ्-आदेशः] → उशन अन् + स् [इत्संज्ञालोपः] → उशनन् + स् [अतो गुणे (6.1.97) इति पररूप-एकादेशः] → उशनान् स् [सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इति उपधादीर्घः] → उशनान् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → उशना [नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन नकारस्य लोपः] तथैव ‘पुरुदंसस्’ इत्यस्य पुरुदंसा, तथा ‘अनेहस्’ इत्यस्य ‘अनेहा’ एते रूपे भवतः । अनेन सूत्रेण निर्दिष्टः ‘अनङ्’ आदेशः सम्बोधनैकवचनस्य सुँ-प्रत्यये परे न भवति । यथा - 1. कर्तृ + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → कर्तर् स् [ऋतो ङिसर्वनामस्थानयोः (7.3.110) इत्यनेन ऋकारस्य गुणः रपरः अकारः] → कर्तर् [रात्सस्य (8.2.24) इत्यनेन रेफात् परस्य सकारस्य लोपः] → कर्तः [खरवसानयोर्विसर्जनीयः (8.3.15) इत्यनेन रेफस्य अवसाने खरि वा विसर्गः ] पितृ-शब्दस्य सम्बोधनैकवचनमपि अनयैव प्रक्रियया ‘पितः’ इति सिद्ध्यति । 2. उशनस् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → उशनस् [ हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → उशनः [ससजुषो रुँ (8.2.66) इति रुँत्वम् । खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] एवमेव पुरुदंसस्-शब्दस्य ‘पुरुदंसः’ तथा ‘अनेहस्’ शब्दस्य ‘अनेहः’ इति रूपं सिद्ध्यति । उशनस् शब्दस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - <!उशनसः सम्बुद्धौ अपि पक्षे अनङ् इष्यते!> । इत्युक्ते, उशनस्-शब्दस्य विषये सम्बोधनस्य एकवचनस्य सुँ-प्रत्यये परे वैकल्पिकः अनङ्-आदेशः , तथा (अनङ्-आदेशे कृते) वैकल्पिकः नकारलोपः भवति । अतः उशनस्-शब्दस्य सम्बोधनस्य एकवचनस्य रूपत्रयं सिद्ध्यति - उशन, उशनन्, उशनः । प्रक्रिया इयम् - [अ] अनङ्-आदेशः न भवति - उशनस् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → उशनस् [ हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → उशनः [ससजुषो रुँः (8.2.66) इति रुँत्वम् । खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] [आ] अनङ्-आदेशः भवति - उशनस् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → उशनस् अनङ् सुँ [ऋदुशनस्पुरुदंसऽनेहसाम् च (7.1.94) इति अनङ्-आदेशः] → उशन अन् स् [इत्संज्ञालोपः] → उशनन् स् [अतो गुणे (6.1.97) इति पररूपएकादेशः] → उशनन् [ हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → उशनन् [नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन नकारस्य लोपे प्राप्ते न ङि सम्बुद्ध्योः (8.2.8) इति निषेधः । परन्तु <!उशनसः सम्बुद्धौ अपि पक्षे अनङ् इष्यते!> अनेन वार्तिकेन वैकल्पिकः नकारलोपः] → उशन, उशनन् अतः उशनस्-शब्दस्य सम्बोधनैकवचनस्य उशन, उशनन्, उशनः - एतानि त्रीणि रूपाणि भवन्ति ।
Sutrartha (English)¶
The ऋकारान्त words, and the words उशनस्/पुरुदंसस्/अनेहस् get अनङ् आदेश when followed by a सुँ-प्रत्यय not belonging to सम्बोधन एकवचन.
Vasu English Summary¶
अनङ् (अन्) is substituted for the final of the अङ्ग (stems) ending in ऋ as well as for the final of 1. उशनस् 2. पुरुदंशस् and 3. अनेहस् in the Nominative 1st-Case singular (but not in the Vocative Case singular).
Vasu English Translation¶
अनङ् (अन्) is substituted for the final of the अङ्ग (stems) ending in ऋ as well as for the final of 1. उशनस् 2. पुरुदंशस् and 3. अनेहस् in the Nominative 1st-Case singular (but not in the Vocative Case singular). Karika:-
संबोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् ॥ माध्यं दिनिर्वष्टि गुणं विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः ॥
As कर्ता, हर्ता, माता, पिता, भ्राता, उशना, पुरुदंशा, अनेहा ॥ In the Vocative Singular we have हे कर्तः, हे मातः, पितः पुरुदंशः, अनेहः and उशनः ॥
Vart:- अनङ् is substituted for the final of उशनस् in the Vocative Singular also, as हे उशनन्, the final न् not being elided (See (8.2.8)). Otherwise we have हे उशन ! Thus it has three forms in the Vocative Singular : as हे उशनस्, हे उशनन्, and हे उशन ! ॥
Karika:- In the vocative, the word उशनस् has three forms, (1) ending in स् when अनङ् is not added, (2) ending in न्, when न् is not elided, (3) ending in अ when न् is elided. This is the opinion of the Acharya Madhyandini. So also according to the Acharya Vaiyaghrapadya, (the best of the Vyaghrapadas), there is Guna in the Neuter of the stems ending in इक् vowels; as हे त्रपो ॥
The त् in ऋत् is for the sake of distinctness.
Kashika¶
ऋकारान्तानामङ्गानामुशनस् पुरुदंसस् अनेहस् इत्येतेषां चासंबुद्धौ सौ परतोऽनङादेशो भवति। कर्ता। हर्ता। माता। पिता। भ्राता। उशना। पुरुदंसा। अनेहा। असंबुद्धावित्येव — हे कर्तः। हे मातः। हे पितः। हे पुरुदंसः। हे अनेहः। हे उशनः। उशनसः संबुद्धावपि पक्षेऽनङ् इष्यते। हे उशनन्। **न ङिसंबुद्ध्योः**(८.२.८) इति नलोपप्रतिषेधोऽपि पक्ष इष्यते। हे उशन। तथा चोक्तम् —
संबोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम्।
माध्यंदिनिर्वष्टि गुणं त्विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः॥
इति। तपरकरणमसन्देहार्थम्॥
Siddhanta Kaumudi¶
ऋदन्तानामुशनसादीनां चाऽनङ् स्यादसंबुद्धौ सौ परे ॥
Laghu Siddhanta Kaumudi¶
ऋदन्तानामुशनसादीनाम् चानङ् स्यादसम्बुद्धौ सौ॥
Balamanorama¶
ऋदुशनस्पुरुदंशोऽनेहसां च - ऋदुशनस् । ‘सख्युरसंबुद्धौ’ इत्यतोऽसंबुद्धाविति ‘अनङ सौ’ इत्यतोऽनङिति चानुवर्तते,अङ्गस्ये॑त्यधिकृतमृदादिभिर्विशेष्यते । तदाह — ऋदन्तानामिति । उशनसादिष्वपि तदन्तविधिर्बोध्यः । अनङि ङकार इत् । नकारादकार उच्चारणार्थः ।ङिच्चे॑त्यन्तादेशः । क्रोष्टन् स् इति स्थिते ।
Padamanjari¶
सम्बुद्धावपि पक्षेऽनङ्ष्यिते तैति यदुक्तं तदाप्तगमेन द्रढयति - तथा चोक्तमिति । सम्बोधने - सम्बुद्धौ, त्रयाणां रुपाणां समाहारस्त्रिरुपम्, पात्रादिः । कानि पुनस्तानि रुपाणि इत्यत आह - सान्तमित्यादि । सान्तमनङेऽभावपक्षे, नान्तं नलोपाभावपक्षे, तादन्तं नलोपपक्षे, मध्यन्दिनस्यापत्यं माध्यन्दिनिः - आचार्यः, वष्टि इच्छति । भाषायामस्य साधुत्वं चिन्त्यमिति जक्षित्यादयः षट् इत्यत्रावोचाम । तथा व्याध्रपदां व्याध्रपादपत्यानां मध्ये वरिष्ठो वैयाघ्रपद्याअचार्यः नपुंसके नपुंसकसम्बन्धिनि, इगन्ते हे त्रपो इत्यादौ, गुणं षष्टीति श्लोकस्यार्थः ॥
Nyaas¶
ऋकारान्तस्य ऋतो ङिसर्वनामस्थानयोः (7.3.110) इति गुणे प्राप्ते। इतरेषामपि हल्ङ्यादिलोपे (6.1.66) कृते रुत्वविसर्जनीयसान्तदीर्घेषु प्राप्तेषु। उशनसः सम्बुद्धावपि पक्ष इष्यते इति। तत्कथम्? चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः। तेन तम्बुद्धावप्युशनसोऽनङ्? भविष्यति। यद्येवम्, नित्यं स्यात्? नैतत्; णलुत्तमो वा (7.1.91) इत्यधिकारात्? पक्षे भविष्यति। व्यवस्थित विभाषाविज्ञानाच्चान्येषां नित्यम्।नलोपप्रतिषेधोऽपि पक्ष इष्यते इति। कथमेतल्लभ्यते? तत्र हि स्वरितो वाऽनुदात्ते पदादौ` (8.2.6) इत्यतौ वेत्यनुवर्तते, तेनैवं विज्ञायत - न ङिसम्बुद्ध्योर्नलोपप्रतिषेधो वा भवतीति। व्यवस्थितविभाषादिज्ञानाच्चोशनसः सम्बुद्धिनकारस्य लोपो वा भविष्यति। अन्येषां तु नित्यमेव लोपो न भविष्यतीति। तथा चोक्तम् इत्यादिनाऽनन्तरोक्तमर्थमागमवचनन द्रढयति। सान्तम् इति। यदाऽनङ न क्रियते। नान्तम् इति। न तु नलोपः। अदन्तम् इति। यदा नलोपः क्रियते। तपरकरणमसन्देहार्थम् इति। असति हि तस्मिन्नुशनसि परतो यणादेशे कृते सन्देहः स्यात् - किमृकारन्तस्य ग्रहणम्? उत्त रेफान्तस्येति॥
Prakriyasarvasvam¶
ऋदन्तानामुशनसादीनामप्यसम्बुद्धौ सौ परेऽनङ् स्यात् । क्रोष्टन् स् -
Sudha¶
ऋदुशनसिति । सख्युरसम्बुद्धौ**(7.1.92) इत्यतः असम्बुद्धाविति **अनङ् सौ**(7.1.93) इत्यतोऽनङिति चानुवर्तते । अङ्गस्येत्यधिकृतम् ऋदादिभिर्विशिष्यते तदाह - **ऋदन्तानामित्यादिना । उशना - शुक्राचार्यः, पुरुदंसा-मार्जारः, अनेहा-कालः ।