71094: ऋदुशनस्पुरुदंसोऽनेहसां च =============================== **Padacheda:** ऋद्-उशनस्-पुरुदंसस्-अनेहसाम् | S | 6 | 3 | च | S | 0 | 0 | Sutrartha --------- **ऋदन्तशब्दानाम्, तथा उशनस्/पुरुदंसस्/अनेहस्-एतेषां शब्दानां असम्बुद्धौ सुँ-प्रत्यये परे अनङ् आदेशः भवति ।** अनेन सूत्रेण चतुर्ण्णाम् शब्दानाम् विषये प्रथमैकवचनस्य सुँ-प्रत्यये परे अनङ्-आदेशः विधीयते - 1. ऋकारान्तशब्दाः - यथा पितृ, मातृ, कर्तृ आदयः 2. 'उशनस्' शब्दः (= शुक्राचार्यः) 3. 'पुरुदंसस्' शब्दः (= मार्जारः) 4. 'अनेहस्' शब्दः (= समयः) अनङ्-आदेशे ङकारः इत्संज्ञकः अस्ति, नकारोत्तरः अकारः च उच्चारणार्थः अस्ति, अतः द्वयोः लोपः भवति , 'अन्' इत्येव अवशिष्यते । तथा च, ङित्वात् **ङिच्च** (1.1.53) इत्यनेन अयं अन्त्यादेशः भवति । प्रक्रियाः एताः - 1. पितृ + सुँ → पित् अनङ् + स् [**ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इत्यनेन अङ्गस्य गुणे प्राप्ते अपवादत्वेन **ऋदुशनस्पुरुदंसोऽनेहसाम् च** (7.1.94) इति अनङ्-आदेशः] → पित् अन् + स् [इत्संज्ञालोपः] → पितान् + स् [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → पितान् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँलोपः] → पिता [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः । यद्यपि मूल-प्रातिपदिकम् 'पितृ' इति अस्ति, तथापि **एकदेशविकृतमनन्यवत्** अनया परिभाषया 'पिता' इत्यस्य अपि प्रातिपदिकसंज्ञा भवति ।] 2. कर्तृ + सुँ → कर्त् + अनङ् + स् [**ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इत्यनेन अङ्गस्य गुणे प्राप्ते अपवादत्वेन **ऋदुशनस्पुरुदंसोऽनेहसां च** (7.1.94) इति अनङ्-आदेशः] → कर्तान् स् [**अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्** (6.4.11) इत्यनेन ऋकारान्तस्य अङ्गस्य सर्वनामस्थाने परे उपधादीर्घः ।] → कर्तान् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → कर्ता [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन नकारस्य लोपः] 3. उशनस् + सुँ → उशन अनङ् + सुँ **ऋदुशनस्पुरुदंसऽनेहसाम् च** (7.1.94) इति अङ्गस्य अनङ्-आदेशः] → उशन अन् + स् [इत्संज्ञालोपः] → उशनन् + स् [**अतो गुणे** (6.1.97) इति पररूप-एकादेशः] → उशनान् स् [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इति उपधादीर्घः] → उशनान् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → उशना [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन नकारस्य लोपः] तथैव 'पुरुदंसस्' इत्यस्य पुरुदंसा, तथा 'अनेहस्' इत्यस्य 'अनेहा' एते रूपे भवतः । अनेन सूत्रेण निर्दिष्टः 'अनङ्' आदेशः सम्बोधनैकवचनस्य सुँ-प्रत्यये परे न भवति । यथा - 1. कर्तृ + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → कर्तर् स् [**ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इत्यनेन ऋकारस्य गुणः रपरः अकारः] → कर्तर् [**रात्सस्य** (8.2.24) इत्यनेन रेफात् परस्य सकारस्य लोपः] → कर्तः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इत्यनेन रेफस्य अवसाने खरि वा विसर्गः ] पितृ-शब्दस्य सम्बोधनैकवचनमपि अनयैव प्रक्रियया 'पितः' इति सिद्ध्यति । 2. उशनस् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → उशनस् [ **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → उशनः [**ससजुषो रुँ** (8.2.66) इति रुँत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] एवमेव पुरुदंसस्-शब्दस्य 'पुरुदंसः' तथा 'अनेहस्' शब्दस्य 'अनेहः' इति रूपं सिद्ध्यति । उशनस् शब्दस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, उशनस्-शब्दस्य विषये सम्बोधनस्य एकवचनस्य सुँ-प्रत्यये परे वैकल्पिकः अनङ्-आदेशः , तथा (अनङ्-आदेशे कृते) वैकल्पिकः नकारलोपः भवति । अतः उशनस्-शब्दस्य सम्बोधनस्य एकवचनस्य रूपत्रयं सिद्ध्यति - उशन, उशनन्, उशनः । प्रक्रिया इयम् - [अ] अनङ्-आदेशः न भवति - उशनस् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → उशनस् [ **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → उशनः [**ससजुषो रुँः** (8.2.66) इति रुँत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] [आ] अनङ्-आदेशः भवति - उशनस् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → उशनस् अनङ् सुँ [**ऋदुशनस्पुरुदंसऽनेहसाम् च** (7.1.94) इति अनङ्-आदेशः] → उशन अन् स् [इत्संज्ञालोपः] → उशनन् स् [**अतो गुणे** (6.1.97) इति पररूपएकादेशः] → उशनन् [ **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → उशनन् [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन नकारस्य लोपे प्राप्ते **न ङि सम्बुद्ध्योः** (8.2.8) इति निषेधः । परन्तु अनेन वार्तिकेन वैकल्पिकः नकारलोपः] → उशन, उशनन् अतः उशनस्-शब्दस्य सम्बोधनैकवचनस्य उशन, उशनन्, उशनः - एतानि त्रीणि रूपाणि भवन्ति । Sutrartha (English) ------------------- The ऋकारान्त words, and the words उशनस्/पुरुदंसस्/अनेहस् get अनङ् आदेश when followed by a सुँ-प्रत्यय not belonging to सम्बोधन एकवचन. Vasu English Summary -------------------- अनङ् (अन्) is substituted for the final of the अङ्ग (stems) ending in ऋ as well as for the final of 1. उशनस् 2. पुरुदंशस् and 3. अनेहस् in the Nominative 1st-Case singular (but not in the Vocative Case singular). Vasu English Translation ------------------------ अनङ् (अन्) is substituted for the final of the अङ्ग (stems) ending in ऋ as well as for the final of 1. उशनस् 2. पुरुदंशस् and 3. अनेहस् in the Nominative 1st-Case singular (but not in the Vocative Case singular). *Karika*:- संबोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् ॥ माध्यं दिनिर्वष्टि गुणं विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः ॥ As कर्ता, हर्ता, माता, पिता, भ्राता, उशना, पुरुदंशा, अनेहा ॥ In the Vocative Singular we have हे कर्तः, हे मातः, पितः पुरुदंशः, अनेहः and उशनः ॥ Vart:- अनङ् is substituted for the final of उशनस् in the Vocative Singular also, as हे उशनन्, the final न् not being elided (See (8.2.8)). Otherwise we have हे उशन ! Thus it has three forms in the Vocative Singular : as हे उशनस्, हे उशनन्, and हे उशन ! ॥ *Karika*:- In the vocative, the word उशनस् has three forms, (1) ending in स् when अनङ् is not added, (2) ending in न्, when न् is not elided, (3) ending in अ when न् is elided. This is the opinion of the *Acharya* *Madhyandini*. So also according to the *Acharya* *Vaiyaghrapadya*, (the best of the *Vyaghrapadas*), there is *Guna* in the Neuter of the stems ending in इक् vowels; as हे त्रपो ॥ The त् in ऋत् is for the sake of distinctness. Kashika ------- ऋकारान्तानामङ्गानामुशनस् पुरुदंसस् अनेहस् इत्येतेषां चासंबुद्धौ सौ परतोऽनङादेशो भवति। कर्ता। हर्ता। माता। पिता। भ्राता। उशना। पुरुदंसा। अनेहा। असंबुद्धावित्येव — हे कर्तः। हे मातः। हे पितः। हे पुरुदंसः। हे अनेहः। हे उशनः। उशनसः संबुद्धावपि पक्षेऽनङ् इष्यते। हे उशनन्। **न ङिसंबुद्ध्योः**(८.२.८) इति नलोपप्रतिषेधोऽपि पक्ष इष्यते। हे उशन। तथा चोक्तम् — संबोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम्। माध्यंदिनिर्वष्टि गुणं त्विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः॥ इति। तपरकरणमसन्देहार्थम्॥ Siddhanta Kaumudi ----------------- ऋदन्तानामुशनसादीनां चाऽनङ् स्यादसंबुद्धौ सौ परे ॥ Laghu Siddhanta Kaumudi ----------------------- ऋदन्तानामुशनसादीनाम् चानङ् स्यादसम्बुद्धौ सौ॥ Balamanorama ------------ **ऋदुशनस्पुरुदंशोऽनेहसां च** - ऋदुशनस् । 'सख्युरसंबुद्धौ' इत्यतोऽसंबुद्धाविति 'अनङ सौ' इत्यतोऽनङिति चानुवर्तते,अङ्गस्ये॑त्यधिकृतमृदादिभिर्विशेष्यते । तदाह — ऋदन्तानामिति । उशनसादिष्वपि तदन्तविधिर्बोध्यः । अनङि ङकार इत् । नकारादकार उच्चारणार्थः ।ङिच्चे॑त्यन्तादेशः । क्रोष्टन् स् इति स्थिते । Padamanjari ----------- सम्बुद्धावपि पक्षेऽनङ्ष्यिते तैति यदुक्तं तदाप्तगमेन द्रढयति - तथा चोक्तमिति । सम्बोधने - सम्बुद्धौ, त्रयाणां रुपाणां समाहारस्त्रिरुपम्, पात्रादिः । कानि पुनस्तानि रुपाणि इत्यत आह - सान्तमित्यादि । सान्तमनङेऽभावपक्षे, नान्तं नलोपाभावपक्षे, तादन्तं नलोपपक्षे, मध्यन्दिनस्यापत्यं माध्यन्दिनिः - आचार्यः, वष्टि इच्छति । भाषायामस्य साधुत्वं चिन्त्यमिति जक्षित्यादयः षट् इत्यत्रावोचाम । तथा व्याध्रपदां व्याध्रपादपत्यानां मध्ये वरिष्ठो वैयाघ्रपद्याअचार्यः नपुंसके नपुंसकसम्बन्धिनि, इगन्ते हे त्रपो इत्यादौ, गुणं षष्टीति श्लोकस्यार्थः ॥ Nyaas ----- ऋकारान्तस्य **ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इति गुणे प्राप्ते। इतरेषामपि हल्ङ्यादिलोपे (6.1.66) कृते रुत्वविसर्जनीयसान्तदीर्घेषु प्राप्तेषु। `उशनसः सम्बुद्धावपि पक्ष इष्यते` इति। तत्कथम्? चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः। तेन तम्बुद्धावप्युशनसोऽनङ्? भविष्यति। यद्येवम्, नित्यं स्यात्? नैतत्; **णलुत्तमो वा** (7.1.91) इत्यधिकारात्? पक्षे भविष्यति। व्यवस्थित विभाषाविज्ञानाच्चान्येषां नित्यम्।`नलोपप्रतिषेधोऽपि पक्ष इष्यते` इति। कथमेतल्लभ्यते? तत्र हि स्वरितो वाऽनुदात्ते पदादौ` (8.2.6) इत्यतौ वेत्यनुवर्तते, तेनैवं विज्ञायत - न ङिसम्बुद्ध्योर्नलोपप्रतिषेधो वा भवतीति। व्यवस्थितविभाषादिज्ञानाच्चोशनसः सम्बुद्धिनकारस्य लोपो वा भविष्यति। अन्येषां तु नित्यमेव लोपो न भविष्यतीति। `तथा चोक्तम्` इत्यादिनाऽनन्तरोक्तमर्थमागमवचनन द्रढयति। `सान्तम्` इति। यदाऽनङ न क्रियते। `नान्तम्` इति। न तु नलोपः। `अदन्तम्` इति। यदा नलोपः क्रियते। `तपरकरणमसन्देहार्थम्` इति। असति हि तस्मिन्नुशनसि परतो यणादेशे कृते सन्देहः स्यात् - किमृकारन्तस्य ग्रहणम्? उत्त रेफान्तस्येति॥ Prakriyasarvasvam ----------------- ऋदन्तानामुशनसादीनामप्यसम्बुद्धौ सौ परेऽनङ् स्यात् । क्रोष्टन् स् - Sudha ----- **ऋदुशनसिति ।** **सख्युरसम्बुद्धौ**(7.1.92) इत्यतः असम्बुद्धाविति **अनङ् सौ**(7.1.93) इत्यतोऽनङिति चानुवर्तते । अङ्गस्येत्यधिकृतम् ऋदादिभिर्विशिष्यते तदाह - **ऋदन्तानामित्यादिना ।** उशना - शुक्राचार्यः, पुरुदंसा-मार्जारः, अनेहा-कालः ।