71091: णलुत्तमो वा ================== **Padacheda:** णल् | S | 1 | 1 | उत्तमः | S | 1 | 1 | वा | S | 0 | 0 | Sutrartha --------- **लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः केवलं विकल्पेन णित् भवति ।** लिट्-लकारस्य विषये परस्मैपदस्य प्रत्ययानाम् **परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इत्यनेन भिन्नाः आदेशाः विधीयन्ते । अनेनैव सूत्रेण उत्तमपुरुष-एकवचनस्य मिप्-प्रत्ययस्य णल्-आदेशः भवति । अस्मिन् आदेशः णकारः इत्संज्ञकः अस्ति, अतः अयं आदेशः वस्तुतः 'णित्' अस्ति, परन्तु वर्तमानसूत्रेण अस्य णित्वम् केवलं विकल्पेन भवति । णित्वाभावात् **अचो ञ्णिति** (7.2.115) इत्यनेन अजन्तस्य अङ्गस्य वृद्धि-एकादेशः, तथा **अतः उपधायाः** (7.2.116) इत्यनेन अङ्गस्य उपधा-अकारस्य वृद्धि-एकादेशः - द्वावपि न विधीयेते । उदाहरणानि एतानि - 1. पच्-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया - पच् + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्] → पच् पच् + लिट् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्] → प पच् + लिट् [**हलादि शेषः** (7.4.60) इति चकारलोपः] → प पच् + मिप् [**तिप्तस्झि...** (3.4.78) इति मिप्-प्रत्ययः] → प पच् णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति मिप्-इत्यस्य णल्-आदेशः] → प पाच्/पच् + अ [**णलुत्तमो वा** (7.1.91) इति वैकल्पिकम् णित्वम् । णित्वे **अतः उपधायाः** (7.2.116) इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः] → पपाच / पपच 2. नी-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया - नी + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्] → नी नी + लिट् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्] → नि नी + लिट् [**ह्रस्वः** (7.4.59) इति अभ्यासस्य ह्रस्वः] → नि नी + मिप् [**तिप्तस्झि...** (3.4.78) इति मिप्-प्रत्ययः] → नि नी णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति मिप्-इत्यस्य णल्-आदेशः] → नि नै अ / नि ने अ [**णलुत्तमो वा** (7.1.91) इति वैकल्पिकम् णित्वम् । णित्वे **अचो ञ्णिति** (7.2.116) इति इकारस्य वृद्धिः ऐकारः । णित्वाभावे **सार्वधातुकार्धधातुकयोः** (7.3.85) इति इकारस्य गुणः एकारः] → निनाय / निनय [**एचोऽयवायावः** (6.1.78) इति आय्/अय्-आदेशः] 3. पू-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया - पू + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्] → पू पू + लिट् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्] → पु पू + लिट् [**ह्रस्वः** (7.4.59) इति अभ्यासस्य ह्रस्वः] → पु पू + मिप् [**तिप्तस्झि...** (3.4.78) इति मिप्-प्रत्ययः] → पु पू णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति मिप्-इत्यस्य णल्-आदेशः] → पु पौ अ / पु पो अ [**णलुत्तमो वा** (7.1.91) इति वैकल्पिकम् णित्वम् । णित्वे **अचो ञ्णिति** (7.2.116) इति उकारस्य वृद्धिः औकारः । णित्वाभावे **सार्वधातुकार्धधातुकयोः** (7.3.85) इति उकारस्य गुणः ओकारः] → पुपाव / पुपव [**एचोऽयवायावः** (6.1.78) इति आव्/अव्-आदेशः] 4. कृ-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया - कृ + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्] → कृ कृ + लिट् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्] → कर् कृ + लिट् [**उरत्** (7.4.66) इति ऋकारान्त-अभ्यासस्य ऋकारस्य अकारः । **उरण् रपरः** (1.1.51) इति सः रपरः] → क कृ + लिट् [**हलादि शेषः** (7.4.60) इति ककारलोपः] → च कृ + लिट् [**कुहोश्चुः** (7.4.62) इति ककारस्य चकारः] → च कृ + मिप् [**तिप्तस्झि...** (3.4.78) इति मिप्-प्रत्ययः] → च कृ णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति मिप्-इत्यस्य णल्-आदेशः] → च कार् अ / च कर् अ [**णलुत्तमो वा** (7.1.91) इति वैकल्पिकम् णित्वम् । णित्वे **अचो ञ्णिति** (7.2.116) इति ऋकारस्य वृद्धिः कारः । णित्वाभावे **सार्वधातुकार्धधातुकयोः** (7.3.85) इति ऋकारस्य गुणः अकारः । उभयत्र **उरण् रपरः** (1.1.51) इति रेफः] ज्ञातव्यम् - अनेन सूत्रेण केवलं लिट्लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य णल्-प्रत्ययस्य वैकल्पिकं णित्वम् भवति, प्रथमपुरुषैकवचनस्य णल्-प्रत्ययस्य न । Sutrartha (English) ------------------- The णल्-प्रत्यय of लिट्लकार-परस्मैपद-उत्तमपुरुषैकवचन is only optionally णित्. Vasu English Summary -------------------- The ending of the 1st person singular in the लिट् (Perfect Tense) optionally acts as णित्। Vasu English Translation ------------------------ The ending of the 1st person singular in the लिट् (Perfect Tense) optionally acts as णित्। The *Vriddhi* is optional, as अहं चकार or चकर, अहं पपाच or पपच ॥ Kashika ------- उत्तमो णल् वा णिद् भवति। णित्कार्यं तत्र वा भवतीत्यर्थः। अहं चकर, अहं चकार। अहं पपच, अहं पपाच॥ Siddhanta Kaumudi ----------------- उत्तमो णल्वाणित्स्यात् । चखाद । चखद ॥ Laghu Siddhanta Kaumudi ----------------------- उत्तमो णल् वा णित्स्यात्। जगाद, जगद। जगदिव। जगदिम। गदिता। गदिष्यति। गदतु। अगदत्। गदेत्। गद्यात्॥ Balamanorama ------------ **णलुत्तमो वा** - णलुत्तमः । णित्स्यादिति ।गोतो णि॑त्यतस्तदनुवृत्तेरिति भावः । चखाद चखदेति । णित्त्वे उपधावृद्धिः । तदभावे न । Padamanjari ----------- णित्कार्यं वा तत्र भवतीत्यर्थं इति । एतेन पक्षे णित्कर्यस्याभावाद्वा णिद्ववतीत्युच्यते, न तु पक्षे णकारस्येत्संज्ञाप्रतिषेधादिति दर्शयति । एतच्च पूर्वत्र कार्यातिदेशाल्लभ्यते । चकारेति । णित्वपक्षे वृद्धिः, अन्यदा तदभावः ॥ Nyaas ----- `णित्कार्यं वा भवतोत्यर्थः` इति। अनेन णित्कार्यस्य पक्षेऽबावाण्णिद्वा भवतीत्युच्यते, न तु णित्त्वस्यैव प्रतिषेध इति दर्शयति। न तु णल उपदेशावस्थायां सिद्धं णित्त्वं तद्वचनशतेनापि शक्यं तिषेद्धुमिति भावः। `चकार, चकर` इति। यदा णित्त्वं तदा **अचो ञ्णिति** (7.2.115) इति वृद्धिः, अन्यदार्धधातुकलक्षणो गुणः। `पपाच, पपच` इति। यदा णित्त्वं तदा `अकत उपधायाः` (7.2.116) इति वृद्धिः, अन्यदा तदभावः॥ Prakriyasarvasvam ----------------- उत्तमणल् वा णित् । णित्त्वे वृद्धिः । अन्यत्र णलः* पित्त्वाद् गुणः । जय गुणायोः स्थानिवत्त्वाद् द्वित्वम्, जिगाय, जिगय । Sutra Prayogas -------------- * **जगद** (शिशुपालवधम्): `णलुत्तमो वा` इति पक्षे णित्त्वाभावाद्वृद्ध्यभावः।