71086: इतोऽत् सर्वनामस्थाने¶
Padacheda: इतः | S | 6 | 1 |
अत् | S | 1 | 1 |
सर्वनामस्थाने | S | 7 | 1 |
Sutrartha¶
पथिन्, मथिन् ऋभुक्षिन् - एतेषामङ्गस्य इकारस्य सर्वनामस्थाने परे अकारादेशः भवति ।
पथिन् (मार्गः), मथिन् (मथने प्रयुक्तः दण्डः), ऋभुक्षिन् (इन्द्रः) इतेषामङ्गस्य ह्रस्व-इकारस्य सर्वनामस्थानप्रत्यये परे अत्-आदेशः भवति । अत्-इत्यत्र तकारः उच्चारणार्थः (अकारः विधीयमानः अस्ति, अतः तपरकरणस्य न किञ्चित् प्रयोजनम् ।) अतः अनेन सूत्रेण ‘अ’ इति एकाल्-आदेशः विधीयते । यथा - 1) पथिन् + सुँ → पथि आ + स् [पथिमथ्यृभुक्षामात् (7.1.85) इत्यनेन नकारस्य आकारादेशः] → पथ आ + स् [इतोऽत् सर्वनामस्थाने (7.1.86) इत्यनेन इकारस्य अकारादेशः] → पन्थ् अ आ + स् [थो न्थः (7.1.87) इति थकारस्य ‘न्थ्’ आदेशः] → पन्थाः [सवर्णदीर्घः, विसर्गनिर्माणम्] 2) मथिन् + औ [प्रथमाद्विवचनस्य प्रत्ययः] → मथ् अ न् + औ [इतोऽत् सर्वनामस्थाने (7.1.86) इत्यनेन इकारस्य अकारादेशः] → मन्थ् अ न् + औ [थो न्थः (7.1.87) इति थकारस्य ‘न्थ्’ आदेशः] → मन्थान् + औ [सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → मन्थानौ । 3) ऋभुक्षिन् + अम् [द्वितीयैकवचनस्य प्रत्ययः] → ऋभुक्ष् अ न् + अम् [इतोऽत् सर्वनामस्थाने (7.1.86) इत्यनेन इकारस्य अकारादेशः] → ऋभुक्षा न् + अम् [सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → ऋभुक्षाणम् [ अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इति णत्वम्] 4) सुपथिन् (नपुंसकशब्दः) + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → सुपथिन् + शि [जश्शसोः शिः (7.1.20) इति शि-आदेशः] → सुपथन् + इ [इतोऽत् सर्वनामस्थाने (7.1.86) इत्यनेन इकारस्य अकारः] → सुपन्थन् + इ [थो न्थः (7.1.87) इति थकारस्य न्थ्-आदेशः] → सुपन्थानि [इन्-हन्-पूषर्यम्णां शौ (6.4.13) इति उपधादीर्घः ] प्रश्नः - अस्मिन् सूत्रे ‘अत्’ इति किमर्थमुक्तमस्ति? पूर्वसूत्रात् ‘आत्’ इत्यस्य अनुवृत्तिं स्वीकुर्मश्चेदपि सुँ-प्रत्यये परे सवर्णदीर्घेन, तथा अन्येषु सर्वनामस्थानपरेषु उपधादीर्घेण तदेव अन्तिमरूपम् सिद्ध्यति किल? उत्तरम् - आम् । परन्तु वेदानाम् विषये ऋभुक्षिन्-शब्दस्य सर्वनामस्थाने परे विकल्पेन ‘ऋभुक्षणम्’ एतद् अपि रूपम् सिद्ध्यति । अयम् विकल्पः वा षपूर्वस्य निगमे (6.4.9) अनेन सूत्रेण दीयते । अस्य रूपसिद्धौ इकारस्य स्थाने अकारस्यैव आदेशः करणीयः । प्रक्रिया इयम् - ऋभुक्षिन् + अम् [द्वितीयैकवचनस्य प्रत्ययः] → ऋभुक्ष् अन् + अम् [इतोऽत् सर्वनामस्थाने (7.1.86) इत्यनेन इकारस्य अकारादेशः] → ऋभुक्षन् + अम् [सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इत्यनेन नकारान्तस्य अङ्गस्य उपधादीर्घे प्राप्ते वा षपूर्वस्य निगमे (6.4.9) इति विकल्पेन उपधादीर्घनिषेधः] → ऋभुक्षणम् [अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इति णत्वम्] अत्र इतोऽत् सर्वनामस्थाने (7.1.86) अस्मिन् सूत्रे यदि अत्-इत्यस्य स्थाने आत्-इत्यस्य अनुवृत्तिं स्वीकुर्मश्चेत् उपधादीर्घस्य अभावे अपि ऋभुक्षाणम् इत्येव रूपसिद्धिः अभविष्यत् । अतः अत्र अत्-इति निर्देशः आवश्यकः अस्ति ।
Sutrartha (English)¶
The इकार of the words पथिन्, मथिन् and ऋभुक्षिन् get an ‘अ’ आदेश in presence of a सर्वनामस्थान.
Vasu English Summary¶
अ is substituted for the इ of 1. पथिन् 2. मथिन् and 3. ऋभुक्षिन् in the strong cases.
Vasu English Translation¶
अ is substituted for the इ of 1. पथिन् 2. मथिन् and 3. ऋभुक्षिन् in the strong cases. Thus पन्थाः, पन्थानौ, पन्थानः, पन्थानम्, पन्थानौ, मन्थाः, मन्थानौ, मन्थानः, मन्थानम्, मन्थानौ, ऋभुक्षाः, ऋभुक्षाणौ, ऋभुक्षाणः, ऋभुक्षाणम्, ऋभुक्षाणौ ॥ आदिति वर्त्तमाने पुनरद्वचनं षपूर्वाथम्, ऋभुक्षणमित्यत्र वा षपूर्वस्य निगम इति दीर्घविकल्पः ॥
Though the anuvritti of आत् was here, the separate mention of अत् is for the sake of (6.4.9): by which in the case of ऋभुक्षिन् we have two forms, ऋभुक्षाणम् and ऋभुक्षणन् ॥
Bhashya¶
इतोऽत्सर्वनामस्थाने (महाभाष्ये अस्य सूत्रस्य संख्या अस्ति 7-1-85) ॥ इतोऽद्वचनमनर्थकमाकारप्रकरणात् ॥ इतोऽद्वचनमर्थकम् ॥ किं कारणम् ? ॥ आकारप्रकरणात् । आदिति वर्तते । ॥ षपूर्वार्थं तु(1) ॥ षपूर्वार्थं तर्ह्यद्वक्तव्यः । ऋभुक्षाणमिन्द्रम् । ऋभुक्षणमिन्द्रम् ॥
Kashika¶
पथ्यादीनामिकारस्य स्थान अकारादेशो भवति सर्वनामस्थाने परतः। पन्थाः, पन्थानौ, पन्थानः। पन्थानम्, पन्थानौ। मन्थाः, मन्थानौ, मन्थानः। मन्थानम्, मन्थानौ। ऋभुक्षाः, ऋभुक्षाणौ, ऋभुक्षाणः। ऋभुक्षाणम्, ऋभुक्षाणौ। आदिति वर्तमाने पुनरद्वचनं षपूर्वार्थम्। ऋभुक्षणमित्यत्र वा षपूर्वस्य निगमे (६.४.९) इति दीर्घविकल्पः॥
Siddhanta Kaumudi¶
पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे ॥
Laghu Siddhanta Kaumudi¶
पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे॥
Balamanorama¶
इतोऽत् सर्वनामस्थाने - इतोऽत् । पथिमथ्यृभुक्षाम् इत्यनुवर्तते । ‘इत’ इति तपरकरणं स्पाष्टार्थं , पथ्यादिषु त्रिषु दीर्घप्लुतयोरसंभवात् । भाव्यमानत्वादेव सवर्णाऽग्रहकत्वे सिद्धे अदिति तपरकरणमपि स्पाष्टार्थमेव । तदाह — पथ्यादेरित्यादिना । पथ आ स् इति स्थिते ।
Tattvabodhini¶
इतोऽत् सर्वनामस्थाने - इतोऽत्सर्वनाम ।आ॑दिति वर्तमाने पुनरद्वचनं किमर्थं, कृतेऽप्यद्वचनेपन्था॑इत्यत्र सवर्णदीर्घेण भाब्यमन्यत्र तूपधाया दीर्घेणेति चेन्मैवम्,ऋभुक्षण॑मित्यत्रवा षपूर्वस्य निगमे॑ इति दीर्घविकल्पे सति पक्षे ह्रस्वाश्रवणार्थमद्ववचनस्यावश्यकत्वात् ।
Padamanjari¶
अद्वचनं किमर्थम्, ह्रस्वस्य श्रवण् यथा स्यात् नैतदस्ति सै तावदकः सवर्णदीर्घत्वं भवति, अन्यत्रापि नोपषायाः, सर्वनामस्थाने इति दीर्घेण भाव्यम्, तस्मात्प्रकृत आकार एव विधेयः अत आह - आदिति वर्तमान इति । यत्रायं विहितोऽकारः षपूर्वो भवति तत्रास्य प्रयोजनमित्यर्थः । तदेव दर्शयति - ऋभुक्षणमित्यत्रेति । अकारविधौ त्वेकमेव रुपं स्याद् । दीर्घविकल्पस्तु तक्षणाम्, तक्षाणामित्याद्यर्थ स्यात् । स्थानिन्यादेशे च तपरकरणं मुखसुखार्थम् ॥
Nyaas¶
अथ आत् (7.1.85) इत्यनुवर्तमाने किमर्थमद्वचनम्, ह्रस्वस्य श्रवणं यथा स्यादिति चेत्? नैतत्; कृते हि ह्रस्वत्वे सौ परतौऽकः सवर्णे दीर्घत्वेन (6.1.97) भवितव्यमन्यत्र नोपधायाः (6.4.7) इत्यनेन, तत्कुतो ह्रस्वस्य श्रवणम्? इत्याह - आदिति वर्तमाने इत्यादि। षपूर्वोऽर्थः प्रयोजनं यस्य तत्? तथोक्तम्। कथं पुनरिवं षपूर्वार्थं भवति? इत्याह - ऋभुक्षणम् इत्यादि। यदि प्रकृतो दीर्घ एव विधीयते, तदा ऋभुक्षमिन्द्रमित्यत्र ह्रस्वस्य श्रवणं न स्यात्। ह्रस्वविधाने तु वा षपूर्वस्य निगमे (6.4.9) इति दीर्घविधानात्? पक्षे भवति। स्थानिन्यादेशे च तपरकरणं मुखसुखार्थमित्येके। पथीरित्यत्र दीर्घनिवृत्त्यर्थमितयन्ये। पन्थानमिच्छति सुप आत्मनः क्यच् (3.1.8) , अकृत्सार्वधातुकयोः (7.4.25) दीर्घः - पथीयति; पथीयतेः क्विप्, अतो लोपः (6.4.48) इत्यल्लोपः, क्यस्य विभाषा (6.4.50) इति यकारसय लोपः - पथीः॥
Prakriyasarvasvam¶
सुटि पथ्यादीनाम् इतोऽत् स्यात् । सवर्णदीर्घः । पथा स् ।