71086: इतोऽत् सर्वनामस्थाने =========================== **Padacheda:** इतः | S | 6 | 1 | अत् | S | 1 | 1 | सर्वनामस्थाने | S | 7 | 1 | Sutrartha --------- **पथिन्, मथिन् ऋभुक्षिन् - एतेषामङ्गस्य इकारस्य सर्वनामस्थाने परे अकारादेशः भवति ।** पथिन् (मार्गः), मथिन् (मथने प्रयुक्तः दण्डः), ऋभुक्षिन् (इन्द्रः) इतेषामङ्गस्य ह्रस्व-इकारस्य सर्वनामस्थानप्रत्यये परे अत्-आदेशः भवति । अत्-इत्यत्र तकारः उच्चारणार्थः (अकारः विधीयमानः अस्ति, अतः तपरकरणस्य न किञ्चित् प्रयोजनम् ।) अतः अनेन सूत्रेण 'अ' इति एकाल्-आदेशः विधीयते । यथा - 1) पथिन् + सुँ → पथि आ + स् [**पथिमथ्यृभुक्षामात्** (7.1.85) इत्यनेन नकारस्य आकारादेशः] → पथ आ + स् [**इतोऽत् सर्वनामस्थाने** (7.1.86) इत्यनेन इकारस्य अकारादेशः] → पन्थ् अ आ + स् [**थो न्थः** (7.1.87) इति थकारस्य 'न्थ्' आदेशः] → पन्थाः [सवर्णदीर्घः, विसर्गनिर्माणम्] 2) मथिन् + औ [प्रथमाद्विवचनस्य प्रत्ययः] → मथ् अ न् + औ [**इतोऽत् सर्वनामस्थाने** (7.1.86) इत्यनेन इकारस्य अकारादेशः] → मन्थ् अ न् + औ [**थो न्थः** (7.1.87) इति थकारस्य 'न्थ्' आदेशः] → मन्थान् + औ [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → मन्थानौ । 3) ऋभुक्षिन् + अम् [द्वितीयैकवचनस्य प्रत्ययः] → ऋभुक्ष् अ न् + अम् [**इतोऽत् सर्वनामस्थाने** (7.1.86) इत्यनेन इकारस्य अकारादेशः] → ऋभुक्षा न् + अम् [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → ऋभुक्षाणम् [ **अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्] 4) सुपथिन् (नपुंसकशब्दः) + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → सुपथिन् + शि [**जश्शसोः शिः** (7.1.20) इति शि-आदेशः] → सुपथन् + इ [**इतोऽत् सर्वनामस्थाने** (7.1.86) इत्यनेन इकारस्य अकारः] → सुपन्थन् + इ [**थो न्थः** (7.1.87) इति थकारस्य न्थ्-आदेशः] → सुपन्थानि [**इन्-हन्-पूषर्यम्णां शौ** (6.4.13) इति उपधादीर्घः ] प्रश्नः - अस्मिन् सूत्रे 'अत्' इति किमर्थमुक्तमस्ति? पूर्वसूत्रात् 'आत्' इत्यस्य अनुवृत्तिं स्वीकुर्मश्चेदपि सुँ-प्रत्यये परे सवर्णदीर्घेन, तथा अन्येषु सर्वनामस्थानपरेषु उपधादीर्घेण तदेव अन्तिमरूपम् सिद्ध्यति किल? उत्तरम् - आम् । परन्तु वेदानाम् विषये ऋभुक्षिन्-शब्दस्य सर्वनामस्थाने परे विकल्पेन 'ऋभुक्षणम्' एतद् अपि रूपम् सिद्ध्यति । अयम् विकल्पः **वा षपूर्वस्य निगमे** (6.4.9) अनेन सूत्रेण दीयते । अस्य रूपसिद्धौ इकारस्य स्थाने अकारस्यैव आदेशः करणीयः । प्रक्रिया इयम् - ऋभुक्षिन् + अम् [द्वितीयैकवचनस्य प्रत्ययः] → ऋभुक्ष् अन् + अम् [**इतोऽत् सर्वनामस्थाने** (7.1.86) इत्यनेन इकारस्य अकारादेशः] → ऋभुक्षन् + अम् [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इत्यनेन नकारान्तस्य अङ्गस्य उपधादीर्घे प्राप्ते **वा षपूर्वस्य निगमे** (6.4.9) इति विकल्पेन उपधादीर्घनिषेधः] → ऋभुक्षणम् [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्] अत्र **इतोऽत् सर्वनामस्थाने** (7.1.86) अस्मिन् सूत्रे यदि अत्-इत्यस्य स्थाने आत्-इत्यस्य अनुवृत्तिं स्वीकुर्मश्चेत् उपधादीर्घस्य अभावे अपि ऋभुक्षाणम् इत्येव रूपसिद्धिः अभविष्यत् । अतः अत्र अत्-इति निर्देशः आवश्यकः अस्ति । Sutrartha (English) ------------------- The इकार of the words पथिन्, मथिन् and ऋभुक्षिन् get an 'अ' आदेश in presence of a सर्वनामस्थान. Vasu English Summary -------------------- अ is substituted for the इ of 1. पथिन् 2. मथिन् and 3. ऋभुक्षिन् in the strong cases. Vasu English Translation ------------------------ अ is substituted for the इ of 1. पथिन् 2. मथिन् and 3. ऋभुक्षिन् in the strong cases. Thus पन्थाः, पन्थानौ, पन्थानः, पन्थानम्, पन्थानौ, मन्थाः, मन्थानौ, मन्थानः, मन्थानम्, मन्थानौ, ऋभुक्षाः, ऋभुक्षाणौ, ऋभुक्षाणः, ऋभुक्षाणम्, ऋभुक्षाणौ ॥ आदिति वर्त्तमाने पुनरद्वचनं षपूर्वाथम्, ऋभुक्षणमित्यत्र वा षपूर्वस्य निगम इति दीर्घविकल्पः ॥ Though the *anuvritti* of आत् was here, the separate mention of अत् is for the sake of (6.4.9): by which in the case of ऋभुक्षिन् we have two forms, ऋभुक्षाणम् and ऋभुक्षणन् ॥ Bhashya ------- इतोऽत्सर्वनामस्थाने (महाभाष्ये अस्य सूत्रस्य संख्या अस्ति 7-1-85) ॥ इतोऽद्वचनमनर्थकमाकारप्रकरणात् ॥ इतोऽद्वचनमर्थकम् ॥ किं कारणम् ? ॥ आकारप्रकरणात् । आदिति वर्तते । ॥ षपूर्वार्थं तु(1) ॥ षपूर्वार्थं तर्ह्यद्वक्तव्यः । ऋभुक्षाणमिन्द्रम् । ऋभुक्षणमिन्द्रम् ॥ Kashika ------- पथ्यादीनामिकारस्य स्थान अकारादेशो भवति सर्वनामस्थाने परतः। पन्थाः, पन्थानौ, पन्थानः। पन्थानम्, पन्थानौ। मन्थाः, मन्थानौ, मन्थानः। मन्थानम्, मन्थानौ। ऋभुक्षाः, ऋभुक्षाणौ, ऋभुक्षाणः। ऋभुक्षाणम्, ऋभुक्षाणौ। आदिति वर्तमाने पुनरद्वचनं षपूर्वार्थम्। ऋभुक्षणमित्यत्र **वा षपूर्वस्य निगमे** (६.४.९) इति दीर्घविकल्पः॥ Siddhanta Kaumudi ----------------- पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे ॥ Laghu Siddhanta Kaumudi ----------------------- पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे॥ Balamanorama ------------ **इतोऽत् सर्वनामस्थाने** - इतोऽत् । पथिमथ्यृभुक्षाम् इत्यनुवर्तते । 'इत' इति तपरकरणं स्पाष्टार्थं , पथ्यादिषु त्रिषु दीर्घप्लुतयोरसंभवात् । भाव्यमानत्वादेव सवर्णाऽग्रहकत्वे सिद्धे अदिति तपरकरणमपि स्पाष्टार्थमेव । तदाह — पथ्यादेरित्यादिना । पथ आ स् इति स्थिते । Tattvabodhini ------------- **इतोऽत् सर्वनामस्थाने** - इतोऽत्सर्वनाम ।आ॑दिति वर्तमाने पुनरद्वचनं किमर्थं, कृतेऽप्यद्वचनेपन्था॑इत्यत्र सवर्णदीर्घेण भाब्यमन्यत्र तूपधाया दीर्घेणेति चेन्मैवम्,ऋभुक्षण॑मित्यत्रवा षपूर्वस्य निगमे॑ इति दीर्घविकल्पे सति पक्षे ह्रस्वाश्रवणार्थमद्ववचनस्यावश्यकत्वात् । Padamanjari ----------- अद्वचनं किमर्थम्, ह्रस्वस्य श्रवण् यथा स्यात् नैतदस्ति सै तावदकः सवर्णदीर्घत्वं भवति, अन्यत्रापि नोपषायाः, सर्वनामस्थाने इति दीर्घेण भाव्यम्, तस्मात्प्रकृत आकार एव विधेयः अत आह - आदिति वर्तमान इति । यत्रायं विहितोऽकारः षपूर्वो भवति तत्रास्य प्रयोजनमित्यर्थः । तदेव दर्शयति - ऋभुक्षणमित्यत्रेति । अकारविधौ त्वेकमेव रुपं स्याद् । दीर्घविकल्पस्तु तक्षणाम्, तक्षाणामित्याद्यर्थ स्यात् । स्थानिन्यादेशे च तपरकरणं मुखसुखार्थम् ॥ Nyaas ----- अथ `आत्` (7.1.85) इत्यनुवर्तमाने किमर्थमद्वचनम्, ह्रस्वस्य श्रवणं यथा स्यादिति चेत्? नैतत्; कृते हि ह्रस्वत्वे सौ परतौऽकः सवर्णे दीर्घत्वेन (6.1.97) भवितव्यमन्यत्र **नोपधायाः** (6.4.7) इत्यनेन, तत्कुतो ह्रस्वस्य श्रवणम्? इत्याह - `आदिति वर्तमाने` इत्यादि। षपूर्वोऽर्थः प्रयोजनं यस्य तत्? तथोक्तम्। कथं पुनरिवं षपूर्वार्थं भवति? इत्याह - `ऋभुक्षणम्` इत्यादि। यदि प्रकृतो दीर्घ एव विधीयते, तदा ऋभुक्षमिन्द्रमित्यत्र ह्रस्वस्य श्रवणं न स्यात्। ह्रस्वविधाने तु **वा षपूर्वस्य निगमे** (6.4.9) इति दीर्घविधानात्? पक्षे भवति। स्थानिन्यादेशे च तपरकरणं मुखसुखार्थमित्येके। पथीरित्यत्र दीर्घनिवृत्त्यर्थमितयन्ये। पन्थानमिच्छति **सुप आत्मनः क्यच्** (3.1.8) , `अकृत्सार्वधातुकयोः` (7.4.25) दीर्घः - पथीयति; पथीयतेः क्विप्, **अतो लोपः** (6.4.48) इत्यल्लोपः, **क्यस्य विभाषा** (6.4.50) इति यकारसय लोपः - पथीः॥ Prakriyasarvasvam ----------------- सुटि पथ्यादीनाम् इतोऽत् स्यात् । सवर्णदीर्घः । पथा स् ।