71085: पथिमथ्यृभुक्षामात्

Padacheda: पथिमथ्यृभुक्षाम् | S | 6 | 3 |

आत् | S | 1 | 1 |

Sutrartha

पथिन्, मथिन्, ऋभुक्षिन् - एतेषामङ्गस्य सुँ-प्रत्यये परे ‘आ’ आदेशः भवति ।

पथिन् (मार्गः), मथिन् (मथने प्रयुक्तः दण्डः), ऋभुक्षिन् (इन्द्रः) इतेषामङ्गस्य सुँ-प्रत्यये परे आत्-आदेशः भवति । आत्-इत्यत्र तकारः उच्चारणार्थः । अतः अनेन सूत्रेण ‘आ’ इति एकाल्-आदेशः विधीयते । अलोऽन्त्यस्य (1.1.52) इत्यनेन अङ्गस्य अन्तिमवर्णस्य अयमादेशः भवति । यथा - 1. पथिन् + सुँ → पथि आ + स् [पथिमथ्यृभुक्षामात् (7.1.85) इत्यनेन नकारस्य आकारादेशः] → पथ आ + स् [इतोऽत् सर्वनामस्थाने (7.1.86) इत्यनेन इकारस्य अकारादेशः] → पन्थ् अ आ + स् [थो न्थः (7.1.87) इति थकारस्य ‘न्थ्’ आदेशः] → पन्थाः [सवर्णदीर्घः, विसर्गनिर्माणम्] एवमेव मन्थाः इति रूपं सिद्ध्यति । 2. ऋभुक्षिन् + सुँ → ऋभुक्षि आ + स् [पथिमथ्यृभुक्षामात् (7.1.85) इत्यनेन नकारस्य आकारादेशः] → ऋभुक्ष आ + स् [इतोऽत् सर्वनामस्थाने (7.1.86) इत्यनेन इकारस्य अकारादेशः] → ऋभुक्षाः [सवर्णदीर्घः, विसर्गनिर्माणम्] ज्ञातव्यम् - 1. यद्यपि ‘न्थ्’ अयमनेकाल् आदेशः, तथाप्यत्र स्थानी स्पष्टरूपेण निर्दिष्टः अस्ति । अतः ‘कः स्थानी’ एतादृशः अनियमः नास्ति, अतः अत्र अनेकाल् शित् सर्वस्य (1.1.55) अस्य न किमपि प्रयोजनम् । ] अनया परिभाषया थकारस्यैव आदेशः अत्र विधीयते । 2. अयमात्वम् नपुंसकस्य विषये न विधीयते । यथा, सुपथिन् इति नकारान्त-नपुंसकलिङ्गवाची शब्दः । ‘सुपथिन् + सुँ’ इत्यत्र स्वमोर्नपुंसकात् (7.1.23) इत्यनेन सुँ-प्रत्ययस्य लुकि कृते न लुमताङ्गस्य (1.1.63) इत्यनेन पथिमथ्यृभुक्षामात् (7.1.85) इति अङ्गकार्यम् निषिध्यते । अतः केवलं नकारलोपं कृत्वा ‘सुपथि’ इति रूपं सिद्ध्यति ।

Sutrartha (English)

The words पथिन्, मथिन् and ऋभुक्षिन् get an ‘आ’ आदेश in presence of the सुँ-प्रत्यय.

Vasu English Summary

आत् (आ) is substituted for the final of 1. पथिन् 2. मथिन् and 3. ऋभुक्षिन् before the ending सु (Nominative 1st-Case and Vocative Case singular).

Vasu English Translation

आत् (आ) is substituted for the final of 1. पथिन् 2. मथिन् and 3. ऋभुक्षिन् before the ending सु (Nominative 1st-Case and Vocative Case singular). As पन्थाः, मन्थाः, ऋभुक्षाः ॥ Though the sthanin here is a nasal (i.e. म्), yet the substitute आ is not to be nasalised, but to be pronounced purely. For न्थ see (7.1.87). The nasal आ is not to be taken on the maxim भाव्यमानेन सवर्णानां ग्रहणं न भवति ॥ “A letter which is taught in a rule does not denote the letters homogeneous with it.”

Kashika

पथिन् मथिन् ऋभुक्षिन् इत्येतेषामङ्गानां सौ परत आकार आदेशो भवति। पन्थाः। मन्थाः। ऋभुक्षाः। स्थानिन्यनुनासिकेऽपि आकारोऽनुनासिको न भवति। भाव्यमानेन सवर्णानां ग्रहणं न भवति इति शुद्धो ह्ययमुच्चार्यते॥

Siddhanta Kaumudi

एषामाकारोऽन्तादेशः स्यात्सौ परे । आ-आदिति प्रश्लेषेण शुद्धाया एव व्यक्तेर्विधानान्नानुनासिकः ॥

Laghu Siddhanta Kaumudi

एषामाकारोऽन्तादेशः स्यात् सौ परे॥

Balamanorama

पथिमथ्यृभुक्षामात् - तेषु विशेषमाह — पथिमथ्यृभुक्षामात् । पन्थाश्च, मन्थाश्च ऋभुक्षाश्च, पथिमथ्यृभुक्षाणः, तेषामिति विग्रहः । ‘सावनडुहः’ इत्यतःसा॑वित्यनुवर्तते । आदिति तपरकरणम् । आकार एव विधेयः । तदाह — एषामित्यादिना ।अलोऽन्त्यस्ये॑ति नकारस्य आकारः । ननु नकारस्य आन्तरतम्यादनुनासिक एव आकारः प्राप्नोति । नच निरनुनासिकस्यैवाकारस्योच्चारणाच्छुद्ध एव आकार इति वाच्यं, गुणानामभेदकत्वाद्भेदकत्वेऽपि तपरकरणेन अनुनासिकस्याप्याकारस्य ग्रहणात्, व्यक्तिपक्षे तपरसूत्रस्य अनण्सु दीर्घप्लुतेषु विध्यर्थत्वात् । नच ग्रहणकसूत्रे वार्णसमाम्नायिकत्वेन निश्चितस्याऽण्ग्रहणस्य अप्रत्यय इत्यस्य च तपरसूत्रे अनुवृत्तेराकास्स्येहानण्त्वाद्विधीयमानत्वाच्च न तत्काल इति वाच्यं, तपरसूत्रे अण्ग्रहणस्य अप्रत्ययग्रहणस्य चानुवृत्तौ मानाऽभावादित्यत आह — आ आदिति सवर्णदीर्घेणाकारान्तरं प्रश्लिष्यते । ततश्चाननुनासिकरूप आकारो भवतीति लभ्यते । नच सर्वादेशत्वं शङ्क्यम् । नह्यत्र वर्णद्वयं विधीयते, विशेषणविशेष्यबावेनान्वयाभ्युपगमेन अननुनासिकाकारस्यैकस्यैव विधानादिति भावः । भाष्ये तु अनुनासिकविधेः संमतत्वे प्रतिपत्तिलाघवाय अनुनासिकस्यैव ‘उञः, ऊ#ँ’ इत्यत्रेव उच्चार्य विधानसंभवात्तदनुच्चारणाच्छुद एव आकार इह विधेय इत्युक्तम् । तपरकरणं तु उच्चारणार्थमेव । वस्तुतस्तुभाव्यमानेन सवर्णानां ग्रहणं ने॑ति परिभाषयैव अनुनासिकाकारनिराससंभवादाकारप्रश्लेषक्लेशो व्यर्थः ।भाव्यमानोऽण् सवर्णान्न गृह्णाती॑ति पाठस्तु प्रामादिकः, ‘ज्यादादीयसः’ इति सूत्रे आदिति तपरनिर्देशेनेयं परिभाषा ज्ञाप्यते-॒भाव्यमानेन सवर्णानां ग्रहणं ने॑त्यवे भाष्ये पाठात्, अणुदित्सूत्रभाष्येऽप्यण्ग्रहणरहिताया एवास्याः परिभाषायाः पाठदर्शनाच्चेत्यास्तां तावत् । नकारस्य आत्त्वे पथि आ स् इति स्थिते ।

Tattvabodhini

पथिमथ्यृभुक्षामात् - पथिमथि ।गमेरिनि॑रित्यतइनि॑रितिपरमे कि॑ दित्यतःकि॑दित्यनुवर्तमानेमन्थः॑इत्यनेन निष्पन्नो मथिन्शब्दः ।पतस्थ च॑चादिनिः । पथिन् ।ऋभुक्षः स्वर्गवज्रयोः॑ । ततो मत्वर्थीयेनिना ऋभुक्षिन्निति बोध्यम् । ननुअस्थिदधी॑ति सूत्रे उदात्ततया पठितेऽप्यनङीष्टसिद्धौअनुङुदात्तः॑इत्युदात्तग्रहणंगुणा अभेदकाः॑इति पक्षं ज्ञापयतीति निर्विवादम् । तथाच तस्मिन्पक्षे सूत्रेननुनासिकोच्चारणेऽप्यान्तरतम्यादनुनासिकाऽऽकारः स्यादत आह -आ-आदिति ।

Padamanjari

एपन्था इति । इतोऽत्सर्वनामस्थाने इतीकारस्याकारः, सवर्णदीर्घत्वम्, थो न्थः । अनुनासिकस्य नकारस्यान्तर्यतोऽनुनासिक आकारः कस्मान्न भवति इत्याशङ्क्याह - स्थानिन्यनुनासिकेऽपीति । अक्ष कारणमाह - भाव्यमानेनेति । केचिद्भाव्यमानोऽण् सवर्णान्न गृह्यतीति पठन्ति, तेषाम्प्यण्ग्रहणं ग्राहकोपलक्षणार्थम्, तेनाकारोऽपि भाव्यमानो ग्राहको न भवति । तपरस्तत्कालस्य इत्यनेन तु ग्रहणशङ्का, उक्तं हि तत्र - अनणि विध्यर्थमेतदिति । स्यादेतत् - मा भूत्सवर्णाग्रहणम्, अनुनासिकस्यैव तु सूत्रे उच्चारणात्स एव स्यात् इत्यत आह - शूद्धो ह्ययमिति । अकारविधाने अतो गुणे परुपं स्यात् । अकारविधानं तु नकारनिवृत्यर्थ स्यात् लोपविधौ गौरवप्रसङ्गात् । तस्मादाकर एव विहितः ॥

Nyaas

हल्ङ्यादिलोपे प्राप्ते नलोपे चात्त्वं विधीयते। पन्थाः इति। थो न्थः (7.1.87) इति न्यादेशः, इतिऽसर्वनामस्थाने (7.1.86) इत्यत्त्वम्। ननु चास्य स्थान्यनुनासिको नकारः, तत्र तपरस्तत्कालस्य (1.1.70) इति सवर्णानां ग्रहणे सत्यान्तरतम्यादनुनासिकेनैवाकारेण भवितव्यम्। किमिह शुद्धोऽयमुदाह्यियते? इत्याह - स्थानिन्यनुनासिकेऽपि इत्यादि। अत्रैव कारणमाह - भाव्यमानः इत्यादि। यदि च तपरेणापि भाव्यमानेनाणा सवर्णानां ग्रहणं न भवति, एवं सति विङ्वनोरनुनासिकस्यात् (6.4.41) इत्यत्रापि न स्यात्, तथा जनसनखनां सञ्झलोः (6.4.42) इत्यत्रानुनासिकाकारो न स्यात्। एवं तर्हि नैवायमाकारस्तपरः, किं तर्हि? दकारः। दकारस्तु मुखसुखार्थः, स चर्त्वभूतत्वान्न श्रूयते। स्यादेतत् - यद्यपि भाव्यमानोऽण्? सवर्णान्न गृह्णातीति (व्या।प।35) सवर्णानां ग्रहणं न भविष्यति, तथाप्यनुनासिकविशिष्टस्योच्चारणादनुनासिकेनैव युक्तं भवितुम्? इत्याह - शुद्धो हि इत्यादि। अयं ह्रकारः शुद्धो निरनुनासिक उच्यते तस्माच्छुद्ध एवेति नानुनासिकविशिष्टः। अथायं किमर्थं दीर्घ उच्यते, न ह्रस्व एव क्रियताम्, अत्रापि अकः सवर्णे (6.1.101) इति दीर्घत्वेन सिध्यत्येव? न सिध्यति; अतो गुणे (6.1.97) इति पररूपत्वं स्यात्। अकारोच्चारणसामर्थ्यान्न भविष्यतीति चेत्? न; अस्ति ह्रन्यदकारोच्चारणस्य प्रयोजनम्। किं तत्? नकारस्य श्रवणं न स्यादिति। लोपो हि क्रियमाणे गौरवं स्यात्, तस्माद्दीर्घो विधीयते॥

Praudhamanorama

यत्त्वाहुः— इहानुनासिको न। अनण्त्वेन सवर्णग्रहणाभावात्। न च ‘तपरस्तत्कालस्य’ इति अनणि विध्यर्थमिति वाच्यम्। ‘भाव्यमानः सवर्णान्न गृह्णाति’ इति निषेधात्। गुणानामभेदकत्वेऽपि शुद्धैकव्यक्तेः सूत्रे निर्देशान्नातिप्रसङ्ग इति। अत्रेदं वक्तव्यम्— अनणि विध्यर्थमिति शङ्कायां ‘भाव्यमान’ इत्याद्युत्तरमसङ्गतम्। तस्याण्विषयत्वात्। यदाहुः- भाव्यमानोऽणित्यादि। अन्यथा ‘चोः कुः’ इत्यादावपि निषेधापत्तेः। तत्रोदित्करणसामर्थ्यान्न निषेध इति चेत्? किमनेन बकबन्धनप्रयासेन। ‘तपरस्तत्कालस्य’ इति सूत्रेऽप्रत्ययग्रहणस्य भाष्यकृताऽननुवर्तितत्वाच्च। किञ्च शुद्धैकव्यक्तेरित्यसङ्गतम्। अभेदकत्वे दोषस्य दुरुद्धरत्वात्। एका व्यक्तिर्गृह्यते इत्युक्त्या हि व्यक्त्यन्तरं न निर्दिष्टमित्यर्थः फलितः। स च गुणानां भेदकत्वे सत्येव सङ्गच्छते नान्यथेत्यास्तां तावत्। एतेन ‘भाव्यमानोऽण् सवर्णान्न गृह्णाति’ इति निषेधादाकारो नानुनासिक इति प्रसादग्रन्थोऽपि प्रयुक्तः। दीर्घस्यानण्त्वेन मूलशैथिल्यात्।

Prakriyasarvasvam

एषां सौ परे अन्तादेश आत् स्यात् । पथि आ स् ।

Sudha

पथिन्, मथिन्, ऋभुक्षिन्, एते नकारान्ताः । तेषु विशेषमाह - पथिमथ्यृभुक्षामादिति । **सावनडुहः**(7.1.82) इत्यतः सावित्यनुवर्तते, आदिति तपरकरणम् । आकार एव विधेयः । तदाह - एषामित्यादिना । इतोऽदिति । पथिमथ्यृभुक्षाम् इत्यनुवर्तते ।