71085: पथिमथ्यृभुक्षामात्¶
Padacheda: पथिमथ्यृभुक्षाम् | S | 6 | 3 |
आत् | S | 1 | 1 |
Sutrartha¶
पथिन्, मथिन्, ऋभुक्षिन् - एतेषामङ्गस्य सुँ-प्रत्यये परे ‘आ’ आदेशः भवति ।
पथिन् (मार्गः), मथिन् (मथने प्रयुक्तः दण्डः), ऋभुक्षिन् (इन्द्रः) इतेषामङ्गस्य सुँ-प्रत्यये परे आत्-आदेशः भवति । आत्-इत्यत्र तकारः उच्चारणार्थः । अतः अनेन सूत्रेण ‘आ’ इति एकाल्-आदेशः विधीयते । अलोऽन्त्यस्य (1.1.52) इत्यनेन अङ्गस्य अन्तिमवर्णस्य अयमादेशः भवति । यथा - 1. पथिन् + सुँ → पथि आ + स् [पथिमथ्यृभुक्षामात् (7.1.85) इत्यनेन नकारस्य आकारादेशः] → पथ आ + स् [इतोऽत् सर्वनामस्थाने (7.1.86) इत्यनेन इकारस्य अकारादेशः] → पन्थ् अ आ + स् [थो न्थः (7.1.87) इति थकारस्य ‘न्थ्’ आदेशः] → पन्थाः [सवर्णदीर्घः, विसर्गनिर्माणम्] एवमेव मन्थाः इति रूपं सिद्ध्यति । 2. ऋभुक्षिन् + सुँ → ऋभुक्षि आ + स् [पथिमथ्यृभुक्षामात् (7.1.85) इत्यनेन नकारस्य आकारादेशः] → ऋभुक्ष आ + स् [इतोऽत् सर्वनामस्थाने (7.1.86) इत्यनेन इकारस्य अकारादेशः] → ऋभुक्षाः [सवर्णदीर्घः, विसर्गनिर्माणम्] ज्ञातव्यम् - 1. यद्यपि ‘न्थ्’ अयमनेकाल् आदेशः, तथाप्यत्र स्थानी स्पष्टरूपेण निर्दिष्टः अस्ति । अतः ‘कः स्थानी’ एतादृशः अनियमः नास्ति, अतः अत्र अनेकाल् शित् सर्वस्य (1.1.55) अस्य न किमपि प्रयोजनम् । ] अनया परिभाषया थकारस्यैव आदेशः अत्र विधीयते । 2. अयमात्वम् नपुंसकस्य विषये न विधीयते । यथा, सुपथिन् इति नकारान्त-नपुंसकलिङ्गवाची शब्दः । ‘सुपथिन् + सुँ’ इत्यत्र स्वमोर्नपुंसकात् (7.1.23) इत्यनेन सुँ-प्रत्ययस्य लुकि कृते न लुमताङ्गस्य (1.1.63) इत्यनेन पथिमथ्यृभुक्षामात् (7.1.85) इति अङ्गकार्यम् निषिध्यते । अतः केवलं नकारलोपं कृत्वा ‘सुपथि’ इति रूपं सिद्ध्यति ।
Sutrartha (English)¶
The words पथिन्, मथिन् and ऋभुक्षिन् get an ‘आ’ आदेश in presence of the सुँ-प्रत्यय.
Vasu English Summary¶
आत् (आ) is substituted for the final of 1. पथिन् 2. मथिन् and 3. ऋभुक्षिन् before the ending सु (Nominative 1st-Case and Vocative Case singular).
Vasu English Translation¶
आत् (आ) is substituted for the final of 1. पथिन् 2. मथिन् and 3. ऋभुक्षिन् before the ending सु (Nominative 1st-Case and Vocative Case singular). As पन्थाः, मन्थाः, ऋभुक्षाः ॥ Though the sthanin here is a nasal (i.e. म्), yet the substitute आ is not to be nasalised, but to be pronounced purely. For न्थ see (7.1.87). The nasal आ is not to be taken on the maxim भाव्यमानेन सवर्णानां ग्रहणं न भवति ॥ “A letter which is taught in a rule does not denote the letters homogeneous with it.”
Kashika¶
पथिन् मथिन् ऋभुक्षिन् इत्येतेषामङ्गानां सौ परत आकार आदेशो भवति। पन्थाः। मन्थाः। ऋभुक्षाः। स्थानिन्यनुनासिकेऽपि आकारोऽनुनासिको न भवति। भाव्यमानेन सवर्णानां ग्रहणं न भवति इति शुद्धो ह्ययमुच्चार्यते॥
Siddhanta Kaumudi¶
एषामाकारोऽन्तादेशः स्यात्सौ परे । आ-आदिति प्रश्लेषेण शुद्धाया एव व्यक्तेर्विधानान्नानुनासिकः ॥
Laghu Siddhanta Kaumudi¶
एषामाकारोऽन्तादेशः स्यात् सौ परे॥
Balamanorama¶
पथिमथ्यृभुक्षामात् - तेषु विशेषमाह — पथिमथ्यृभुक्षामात् । पन्थाश्च, मन्थाश्च ऋभुक्षाश्च, पथिमथ्यृभुक्षाणः, तेषामिति विग्रहः । ‘सावनडुहः’ इत्यतःसा॑वित्यनुवर्तते । आदिति तपरकरणम् । आकार एव विधेयः । तदाह — एषामित्यादिना ।अलोऽन्त्यस्ये॑ति नकारस्य आकारः । ननु नकारस्य आन्तरतम्यादनुनासिक एव आकारः प्राप्नोति । नच निरनुनासिकस्यैवाकारस्योच्चारणाच्छुद्ध एव आकार इति वाच्यं, गुणानामभेदकत्वाद्भेदकत्वेऽपि तपरकरणेन अनुनासिकस्याप्याकारस्य ग्रहणात्, व्यक्तिपक्षे तपरसूत्रस्य अनण्सु दीर्घप्लुतेषु विध्यर्थत्वात् । नच ग्रहणकसूत्रे वार्णसमाम्नायिकत्वेन निश्चितस्याऽण्ग्रहणस्य अप्रत्यय इत्यस्य च तपरसूत्रे अनुवृत्तेराकास्स्येहानण्त्वाद्विधीयमानत्वाच्च न तत्काल इति वाच्यं, तपरसूत्रे अण्ग्रहणस्य अप्रत्ययग्रहणस्य चानुवृत्तौ मानाऽभावादित्यत आह — आ आदिति सवर्णदीर्घेणाकारान्तरं प्रश्लिष्यते । ततश्चाननुनासिकरूप आकारो भवतीति लभ्यते । नच सर्वादेशत्वं शङ्क्यम् । नह्यत्र वर्णद्वयं विधीयते, विशेषणविशेष्यबावेनान्वयाभ्युपगमेन अननुनासिकाकारस्यैकस्यैव विधानादिति भावः । भाष्ये तु अनुनासिकविधेः संमतत्वे प्रतिपत्तिलाघवाय अनुनासिकस्यैव ‘उञः, ऊ#ँ’ इत्यत्रेव उच्चार्य विधानसंभवात्तदनुच्चारणाच्छुद एव आकार इह विधेय इत्युक्तम् । तपरकरणं तु उच्चारणार्थमेव । वस्तुतस्तुभाव्यमानेन सवर्णानां ग्रहणं ने॑ति परिभाषयैव अनुनासिकाकारनिराससंभवादाकारप्रश्लेषक्लेशो व्यर्थः ।भाव्यमानोऽण् सवर्णान्न गृह्णाती॑ति पाठस्तु प्रामादिकः, ‘ज्यादादीयसः’ इति सूत्रे आदिति तपरनिर्देशेनेयं परिभाषा ज्ञाप्यते-॒भाव्यमानेन सवर्णानां ग्रहणं ने॑त्यवे भाष्ये पाठात्, अणुदित्सूत्रभाष्येऽप्यण्ग्रहणरहिताया एवास्याः परिभाषायाः पाठदर्शनाच्चेत्यास्तां तावत् । नकारस्य आत्त्वे पथि आ स् इति स्थिते ।
Tattvabodhini¶
पथिमथ्यृभुक्षामात् - पथिमथि ।गमेरिनि॑रित्यतइनि॑रितिपरमे कि॑ दित्यतःकि॑दित्यनुवर्तमानेमन्थः॑इत्यनेन निष्पन्नो मथिन्शब्दः ।पतस्थ च॑चादिनिः । पथिन् ।ऋभुक्षः स्वर्गवज्रयोः॑ । ततो मत्वर्थीयेनिना ऋभुक्षिन्निति बोध्यम् । ननुअस्थिदधी॑ति सूत्रे उदात्ततया पठितेऽप्यनङीष्टसिद्धौअनुङुदात्तः॑इत्युदात्तग्रहणंगुणा अभेदकाः॑इति पक्षं ज्ञापयतीति निर्विवादम् । तथाच तस्मिन्पक्षे सूत्रेननुनासिकोच्चारणेऽप्यान्तरतम्यादनुनासिकाऽऽकारः स्यादत आह -आ-आदिति ।
Padamanjari¶
एपन्था इति । इतोऽत्सर्वनामस्थाने इतीकारस्याकारः, सवर्णदीर्घत्वम्, थो न्थः । अनुनासिकस्य नकारस्यान्तर्यतोऽनुनासिक आकारः कस्मान्न भवति इत्याशङ्क्याह - स्थानिन्यनुनासिकेऽपीति । अक्ष कारणमाह - भाव्यमानेनेति । केचिद्भाव्यमानोऽण् सवर्णान्न गृह्यतीति पठन्ति, तेषाम्प्यण्ग्रहणं ग्राहकोपलक्षणार्थम्, तेनाकारोऽपि भाव्यमानो ग्राहको न भवति । तपरस्तत्कालस्य इत्यनेन तु ग्रहणशङ्का, उक्तं हि तत्र - अनणि विध्यर्थमेतदिति । स्यादेतत् - मा भूत्सवर्णाग्रहणम्, अनुनासिकस्यैव तु सूत्रे उच्चारणात्स एव स्यात् इत्यत आह - शूद्धो ह्ययमिति । अकारविधाने अतो गुणे परुपं स्यात् । अकारविधानं तु नकारनिवृत्यर्थ स्यात् लोपविधौ गौरवप्रसङ्गात् । तस्मादाकर एव विहितः ॥
Nyaas¶
हल्ङ्यादिलोपे प्राप्ते नलोपे चात्त्वं विधीयते। पन्थाः इति। थो न्थः (7.1.87) इति न्यादेशः, इतिऽसर्वनामस्थाने (7.1.86) इत्यत्त्वम्। ननु चास्य स्थान्यनुनासिको नकारः, तत्र तपरस्तत्कालस्य (1.1.70) इति सवर्णानां ग्रहणे सत्यान्तरतम्यादनुनासिकेनैवाकारेण भवितव्यम्। किमिह शुद्धोऽयमुदाह्यियते? इत्याह - स्थानिन्यनुनासिकेऽपि इत्यादि। अत्रैव कारणमाह - भाव्यमानः इत्यादि। यदि च तपरेणापि भाव्यमानेनाणा सवर्णानां ग्रहणं न भवति, एवं सति विङ्वनोरनुनासिकस्यात् (6.4.41) इत्यत्रापि न स्यात्, तथा जनसनखनां सञ्झलोः (6.4.42) इत्यत्रानुनासिकाकारो न स्यात्। एवं तर्हि नैवायमाकारस्तपरः, किं तर्हि? दकारः। दकारस्तु मुखसुखार्थः, स चर्त्वभूतत्वान्न श्रूयते। स्यादेतत् - यद्यपि भाव्यमानोऽण्? सवर्णान्न गृह्णातीति (व्या।प।35) सवर्णानां ग्रहणं न भविष्यति, तथाप्यनुनासिकविशिष्टस्योच्चारणादनुनासिकेनैव युक्तं भवितुम्? इत्याह - शुद्धो हि इत्यादि। अयं ह्रकारः शुद्धो निरनुनासिक उच्यते तस्माच्छुद्ध एवेति नानुनासिकविशिष्टः। अथायं किमर्थं दीर्घ उच्यते, न ह्रस्व एव क्रियताम्, अत्रापि अकः सवर्णे (6.1.101) इति दीर्घत्वेन सिध्यत्येव? न सिध्यति; अतो गुणे (6.1.97) इति पररूपत्वं स्यात्। अकारोच्चारणसामर्थ्यान्न भविष्यतीति चेत्? न; अस्ति ह्रन्यदकारोच्चारणस्य प्रयोजनम्। किं तत्? नकारस्य श्रवणं न स्यादिति। लोपो हि क्रियमाणे गौरवं स्यात्, तस्माद्दीर्घो विधीयते॥
Praudhamanorama¶
यत्त्वाहुः— इहानुनासिको न। अनण्त्वेन सवर्णग्रहणाभावात्। न च ‘तपरस्तत्कालस्य’ इति अनणि विध्यर्थमिति वाच्यम्। ‘भाव्यमानः सवर्णान्न गृह्णाति’ इति निषेधात्। गुणानामभेदकत्वेऽपि शुद्धैकव्यक्तेः सूत्रे निर्देशान्नातिप्रसङ्ग इति। अत्रेदं वक्तव्यम्— अनणि विध्यर्थमिति शङ्कायां ‘भाव्यमान’ इत्याद्युत्तरमसङ्गतम्। तस्याण्विषयत्वात्। यदाहुः- भाव्यमानोऽणित्यादि। अन्यथा ‘चोः कुः’ इत्यादावपि निषेधापत्तेः। तत्रोदित्करणसामर्थ्यान्न निषेध इति चेत्? किमनेन बकबन्धनप्रयासेन। ‘तपरस्तत्कालस्य’ इति सूत्रेऽप्रत्ययग्रहणस्य भाष्यकृताऽननुवर्तितत्वाच्च। किञ्च शुद्धैकव्यक्तेरित्यसङ्गतम्। अभेदकत्वे दोषस्य दुरुद्धरत्वात्। एका व्यक्तिर्गृह्यते इत्युक्त्या हि व्यक्त्यन्तरं न निर्दिष्टमित्यर्थः फलितः। स च गुणानां भेदकत्वे सत्येव सङ्गच्छते नान्यथेत्यास्तां तावत्। एतेन ‘भाव्यमानोऽण् सवर्णान्न गृह्णाति’ इति निषेधादाकारो नानुनासिक इति प्रसादग्रन्थोऽपि प्रयुक्तः। दीर्घस्यानण्त्वेन मूलशैथिल्यात्।
Prakriyasarvasvam¶
एषां सौ परे अन्तादेश आत् स्यात् । पथि आ स् ।
Sudha¶
पथिन्, मथिन्, ऋभुक्षिन्, एते नकारान्ताः । तेषु विशेषमाह - पथिमथ्यृभुक्षामादिति । **सावनडुहः**(7.1.82) इत्यतः सावित्यनुवर्तते, आदिति तपरकरणम् । आकार एव विधेयः । तदाह - एषामित्यादिना । इतोऽदिति । पथिमथ्यृभुक्षाम् इत्यनुवर्तते ।