71084: दिव औत्

Padacheda: दिवः | S | 6 | 1 |

औत् | S | 1 | 1 |

Sutrartha

दिव्-शब्दस्य सुँ-प्रत्यये परे ‘औ’ आदेशः भवति ।

‘औत्’ इत्यत्र तकारः उच्चारणार्थः । अतः अयम् एकाल् आदेशः अस्ति, अतः दिव्-शब्दस्य अन्तिमवर्णस्य स्थाने आगच्छति । प्रक्रियाः इयम् - दिव् + सुँ → दि औ + सुँ [दिव औत् (7.1.84) इति औ-आदेशः] → द्यौ + सुँ [इको यणचि (6.1.77) इति यणादेशः] → द्यौः [ससजुषोः रुः इति रूत्वम् , (8.2.66), खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गनिर्माणम्] । ज्ञातव्यम् - 1. ‘दिव् +सुँ’ इत्यत्र हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन सुँप्रत्ययस्य लोपे प्राप्ते नित्यत्वात् परत्वात् च दिव औत् (7.1.84) इति औ-आदेशः भवति । अत्र हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) तथा दिव औत् (7.1.84) एतयोर्मध्ये उत्सर्ग-अपवादसम्बन्धः नास्तीति ज्ञातव्यम्, यतः औत्वम् ‘अङ्गस्य’ विधीयते, सुँलोपः ‘प्रत्ययस्य’ विधीयते । स्थानिनौ भिन्नौ स्तः । अतः किमपि सूत्रम् प्रथममागन्तुम् शक्नुयात् । परन्तु नित्यत्वात् औत्-आदेशः प्रथमं भवति । सुँलोपे कृते अकृते च औत्वम् भवत्येव, परन्तु औत्वे कृते सुँलोपः न भवितुमर्हति । अतः औत्वम् नित्यमस्ति, सुँलोपः अनित्यः अस्ति । अतः नित्यत्वात् औत्-आदेशः प्रथमं भवति । 2. ‘द्यौ + सुँ’ इत्यत्र अल्विधिः अस्ति, अतः स्थानिवद्भावः न भवति । अतः हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनने सुँ-प्रत्ययस्य लोपः भवितुं न अर्हति । 3. अनया परिभाषया पदाधिकारे अङ्गाधिकारे च ये आदेशाः विधीयन्ते, ते ‘तदन्तस्य’ अपि भवन्ति । अतः दिव्-इत्यस्य विहितः अयमादेशः ‘सुदिव्’, इत्यस्य कृते अपि भवति ।

Sutrartha (English)

The word दिव् gets the ‘औ’ आदेश in presence of the प्रत्यय सुँ ।

Vasu English Summary

औ is substituted for the final of दिव् before the affix सु (Nominative 1st-Case and Vocative Case singular).

Vasu English Translation

औ is substituted for the final of दिव् before the affix सु (Nominative 1st-Case and Vocative Case singular). As द्यौः ॥ There is a nominal-stem दिव् which is taken here. It has no indicatory letters annexed to it. The root दिव् is not to be taken here, as it has the indicatory letter उ and is exhibited in the Dhatupatha as दिवु ॥ The nominal-stem derived from दिवु, does not take औ, but ऊ, the Nominative Singular of which is द्युः as अक्षद्युः (See (6.4.19), and (6.1.131).

Bhashya

दिव औत् ॥ दिव औत्त्वे धातुप्रतिषेधः(4) ॥ दिव औत्त्वे धातोः प्रतिषेधो वक्तव्यः, अक्षद्यूरिति ॥ अधात्वधिकारात्सिद्धम् ॥ अधातोरिति वर्तते ॥ क्व प्रकृतम् ? ॥ उगिदचां सर्वनास्थानेऽधातोरिति वर्तते ॥ ॥। । अधात्वधिकारात्सिद्धमिति चेन्नपुंसके दोषो भवति । काष्ठतडि्क्ष कूटतडि्क्ष । नपुंसकस्य झलचः - अधातोरिति, प्रतिषेधः प्राप्नोति ॥ उक्तं वा ॥ किमुक्तम् ? ॥ अननुबन्धकग्रहणे हि न सानुबन्धकस्ये ति ॥ अथ वा संबन्धमनुवर्तिष्यते (इति(5)) ॥ (दिवऔत्) ॥

Kashika

दिवित्येतस्य सौ परत औदित्ययमादेशो भवति। द्यौः। दिविति प्रातिपदिकमस्ति निरनुबन्धकम्। धातुस्तु सानुबन्धकः, स इह न गृह्यते। अक्षद्यूः॥

Siddhanta Kaumudi

दिविति प्रातिपदिकस्य औत्स्यात्सौ परे । अल्विधित्वेन स्थानिवत्त्वाभावात् हल्ङ्याप् (SK252) इति सुलोपो न । सुद्यौः । सुदिवौ । सुदिवः । सुदिवम् । सुदिवौ ॥

Laghu Siddhanta Kaumudi

दिविति प्रातिपदिकस्यौत्स्यात्सौ। सुद्यौः। सुदिवौ॥

Balamanorama

दिव औत् - दिव औत् । ‘सावनडुहः’ इत्यतः ‘सौ’ इत्यनुवर्तते । ‘दिव’ इति षष्ठन्तम् । ‘दिवेर्ङिविः’ इत्यौणादिकमव्युत्पन्नं वा प्रातिपदिकं गृह्रते, नतु ‘दिवुक्रीडादौ’ इति धातुः,निरनुबन्धग्रहणे न सानुबन्धकस्ये॑ति न्यायात् । तदाह — दिविति प्रातिपदिकस्येति । औदिति तकार उच्चारणार्थो नत्वादेशे तकारः श्रूयते । एवं चानेकाल्त्वप्रयुक्तं सर्वादेशत्वं न । तकारस्य इत्संज्ञा तु न, फलाऽभावात् । तित्स्वरितस्य तु नात्र सम्भवः,तितिप्रत्ययग्रहण॑मिति वार्तिकात् । ननु सुदिव् सित्यत्र वकारस्यौत्त्वे इकारस्य यणि औकारस्य स्थानिवत्त्वेन हल्त्वाद्धल्ङ्यादिना सुलोपः स्यादित्यत आह्म — अल्विधित्वेनेति । औकारादेशस्थानिभूताद्वकारात्मकहलः परत्वमाश्रित्य प्रवर्तमानस्य सुलोपस्याऽल्विधित्वादिति भावः । सुद्यौरिति । आङ्गत्वात्तदन्तस्याप्यौत्त्वे यण् । रुत्वविसर्गौ । सुदिवाविति । अजादिषु सुदिव्शब्दोऽविकृत एवेति भावः ।

Tattvabodhini

दिव औत् - दिव औत् । तकार उच्चारणार्थः । प्रतिपदिकस्येति । अव्युत्पन्नस्य,दिवेर्डिवि॑रिति न्यासोहितसूत्रेण व्युत्पन्नस्य वा ग्रहणं, नतुदिवु क्रीडादौ॑इति धातोः,निरनुबन्धकग्रहणे न सानुबन्धकस्ये॑ति परिभाषया । तेनाक्षद्यूरित्यादौ न भवति । न च तत्रान्तरङ्गत्वादूठेव स्यान्न तु औत्वप्रसक्तिरिति वाच्यम्, ऊठि कृतेऽप्येकदेशविकृतन्यायेनदिव औ॑दित्यास्यापि प्रसक्तिसंभवादिति दिक् ।

Padamanjari

धातोः प्रतिषेधो वक्तव्यः - अक्षद्यौउरिति, एकदेशविकृतस्यानन्यत्वादूठि कृते दिवशब्द एवायमिति प्रसङ्ग इति अधात्वधिकारात्सिद्धम्, अधातोः इत्यनुवर्तते, क्व प्रकृतमुग्दिचां सर्वनामस्थानेऽघातोः इति ।यदि तदनुवर्तेत, नपुंसकस्य झलचः इत्यत्रापि सम्बध्येत, ततश्च काष्टतङ्क्षि ब्राह्मणकुलानीत्यत्र न स्यात् । तस्मादशक्यं तदनुवर्तयितुम् ततश्च धातोः प्रतिषेधो वक्तव्य एव इत्याशङ्क्याह - दिविति प्रातिपदिकमित्यादि ॥

Nyaas

द्यौः इति। औत्त्वे कृते यणादेशः। इहाक्षद्यूरित्यक्षैर्दीष्यतीति क्विपि कृते तदाश्रये चान्तरङ्गत्वात्? च्छ्वोः शूजनुनासिके च (6.4.19) इत्युठ्। एकदेशविकृतसयानन्यत्वाद्दिव्शब्दं एवायमित्यूकगारस्योत्त्वं प्राप्नोति, तत्? कस्मान्न भवति? इत्याह - दिविति प्रातिपदिकम् इत्यादि। अस्त्येवायं दिव्शब्दो धातुः, अस्ति चाव्युत्पन्नं प्रातिपदिकम्। तत्र धातुः सानुबन्धकः, अस्य उदितो वा (7.2.56) इत्युदित्कार्यम्। प्रातिपदिकं तु निरनुबन्धकम्, न हि तस्य किञ्चिदनुबन्धकार्यमस्ति। तत्र निरनुबन्धकपरिभाषया (व्या।प।56) धातुरिह गृह्रते। तेनान्नद्युरित्यत्र न भवत्योत्त्वप्रसङ्गः। तकारो मुखसुखार्थः॥

Praudhamanorama

अव्युत्पन्नस्य, ‘दिवेर्डिविः’ इति न्यासोहितसूत्रेण व्युत्पन्नस्य वा, न तु ‘दिवु क्रीडादौ’ इति धातोः, ‘निरनुबन्धकग्रहणे न सानुबन्धकस्ये’ति परिभाषया। तेनाक्षद्यूरित्यादौ न भवति। औतस्तकार उच्चारणार्थः।

Prakriyasarvasvam

दिवः सौ परेऽन्त्यस्यौत्स्यात् । स्थानिवत्त्वेन हल्त्वाद्धल्ड्याभ्यः—’ (६-१-६८) इति सुलोपे प्राप्ते हल्निमित्तत्वेनाला श्रयविधित्वान्न स्यात् । सुद्यौः । सुदिवौ । सुदिवः । हे सुद्यौः । ‘दिव उत्’ (६-१-१३१) इति पदान्त उत् । सुद्युभ्याम् । सुद्युषु । चतुरो जस्याम् । चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः । चतुर् आम् ।

Sudha

दिव औदिति । **सावनडुहः**(7.1.82) इत्यतः सौ इत्यनुवर्तते । दिव इति षष्ठ्यन्तम् । इत्यौणादिकम् वा प्रातिपदिकं गृह्यते, न तु दिवु क्रीडादौ इति धातुः, <ऽनिरनुबन्धकग्रहणे न सानुबन्धकस्यऽ> इति न्यायात् । तदाह - दिविति प्रातिपदिकस्येति । सुद्योरिति । सुदिव् + सु इत्यत्र **दिव औत्**(7.1.84) इति वकारस्यौत्वे **इको यणचि**(6.1.77) इति यणि सस्य रुत्वे रस्य विसर्गत्वे च कृते ‘सुद्यौः’ इति रूपम् । सुदिवाविति । अजादिषु सुदिव् शब्दः अविकृत एवेति भावः ।