71083: दृक्स्ववस्स्वतवसां छन्दसि

Padacheda: दृक्-स्ववस्-स्वतवसाम् | S | 6 | 3 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

  1. दृक् 2. स्वस् and 3. स्वतवस् take the augment नुम् before the affix सु (Nominative 1st-Case and Vocative Case singular) in the छन्दस् (Vedas).

Vasu English Translation

1. दृक् 2. स्वस् and 3. स्वतवस् take the augment नुम् before the affix सु (Nominative 1st-Case and Vocative Case singular) in the छन्दस् (Vedas). Thus ईदृक्, तादृङ्, यादृङ्, सदृङ्, स्ववान्, स्वतवान् ॥ The श् of ईदृश् (formed by (3.2.60)), is elided by (8.2.23); and ङ् substituted for न् by (8.2.62). The lengthening in स्ववान् and स्वतवान् is through (6.4.14).

Kashika

दृक् स्ववस् स्वतवस् इत्येतेषां सौ परतो नुमागमो भवति छन्दसि विषये। ईदृङ्। तादृङ्। यादृङ्। स॒दृङ् (ऋ० १.९४.७)। स्ववा॑न् (ऋ० १०.९२.९)। स्वत॑वाँः पा॒युर॑ग्ने॒ (ऋ० ४.२.६)॥

Siddhanta Kaumudi

एषां नुम् स्यात्सौ । कीदृङ्ङिन्द्रः (की॒दृङ्ङिन्द्रः॑) । स्ववान् (स्ववा॑न्) । स्वतवान् (स्वत॑वान्) । उदोष्ठ्यपूर्वस्य - (SK2494) ॥

Padamanjari

ईदृङ्त्यादिउ त्यदादिषु दृशोऽनालोचने कञ्चेति क्विनि नुमि च कृते पूर्ववत्कुत्वम् ॥

Nyaas

ईदृङ्, कीदृङ् [नास्ति - काशिकायाम्] इति। त्यदादिधु (3.2.60) इत्यादिना क्विन्, इदङ्किमोरीश्की (6.3.90) इतीश्की - आदेशो, हल्ङ्यादिसंयोगान्तलोपौ (6.1.70,8.2.23), क्विन्प्रत्ययस्य कुः (8.2.62) इति कुत्वाम्। यावृङ्, तादृङ् इति। आ सर्वनाम्नः (6.3.91) इत्यात्वम्। सदृङ् इति। दृग्दुशवतुषु (6.3.88) इति समानस्य सभावः॥

Prakriyasarvasvam

एषां सौ परे नुं स्यात् । संयोगान्तलोपः क्विबन्तत्वात् कुः कीदृङ्ङिन्द्रः । स सुत्रामा॑स्ववान् । शोभनमवौऽस्येति पाणिनिर्मन्यते । शाकल्यस्तु स्वंवानित्याह । भुवस्तस्य स्वतवान् ।