71082: सावनडुहः¶
Padacheda: सौ | S | 7 | 1 |
अनडुहः | S | 6 | 1 |
Sutrartha¶
सुँ-प्रत्यये परे अनडुह्-इत्यस्य अङ्गस्य अवर्णात् परः नुमागमः भवति ।
‘अनडुह्’ (= वृषभः) इति कश्चन हकारान्तशब्दः । अस्य शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे सर्वप्रथमम् चतुरनडुहोरामुदात्तः (7.1.98) इत्यनेन आम्-आगमः भवति । तदनन्तरमस्मात् अवर्णात् परः नुमागमः अनेन सूत्रेण विधीयते । प्रक्रिया इयम् - अनडुह् + सुँ [प्रथमैकवचनस्य प्रत्ययः] → अनडु आम् ह् + स् [चतुरनडुहोरामुदात्तः (7.1.98) इत्यनेन अनडुह्-शब्दस्य आम्-आगमः ।] → अनडु आ नुम् ह् + स् [सावनडुहः (7.1.82) इत्यनेन नुम्-आगमः] → अनड्वान् ह् स् [इको यणचि (6.1.77) इत्यनेन यणादेशः] → अनड्वान् ह् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → अनड्वान् [संयोगान्तस्य लोपः (8.2.23) इत्यनेन हकारस्य लोपः] अनडुह्-शब्दस्य सम्बोधनैकवचने अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा - अनडुह् + सुँ [सम्बुद्धिः] → अनडु अम् ह् + स् [अम् सम्बुद्धौ (7.1.99) इत्यनेन अनडुह्-शब्दस्य अम् -आगमः ।] → अनडु अ नुम् ह् + स् [सावनडुहः (7.1.82) इत्यनेन नुम्-आगमः] → अनड्वन् ह् स् [इको यणचि (6.1.77) इत्यनेन यणादेशः] → अनड्वन् ह् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → अनड्वन् [संयोगान्तस्य लोपः (8.2.23) इत्यनेन हकारस्य लोपः] ज्ञातव्यम् - 1) अस्मिन् सूत्रे ‘आत्’ इति ‘अ’ इत्यस्य पञ्चमी-एकवचनमस्ति । अतः ‘अवर्णात्’ इति तस्य अर्थः जायते । अत्र तपरकरणम् नास्ति, यतः आकारस्य तपरकरणं न भवितुं शक्यते । 2) प्रथमैकवचनस्य प्रक्रियायाम् ‘अनडुह् + सुँ’ इत्यत्र वस्तुतः द्वयोः सूत्रयोः समानकाले प्रसक्तिः अस्ति - (अ) चतुरनडुहोरामुदात्तः (7.1.98) इत्यनेन आम्-आगमः । अयम् सर्वनामस्थाने परे भवति । (आ) सावनडुहः (7.1.82) इत्यनेन नुम्-आगमः । अयं सुँ-प्रत्यये परे भवति । वस्तुतः अत्र सावनडुहः (7.1.82) एतत् चतुरनडुहोरामुदात्तः (7.1.98) इत्यस्य अपवादः । अतः अत्र नुम्-आगमः एव भवेत्, आम्-आगमः न भवेत् । परन्तु एतादृशं कुर्मश्चेत् ‘अनडुन्’ इति दोषपूर्णमन्तिमरूपं जायते । साधु रूपम् तु ‘अनड्वान्’ इति अस्ति, तथा तस्य सिद्धौ नुम् तथा आम् - द्वयोः अपि आगमयोः उपस्थितिः आवश्यकी अस्ति । अतः सावनडुहः (7.1.82) इत्यस्मिन् सूत्रे ‘आत्’ इत्यस्य अनुवृत्तिः स्वीक्रियते । अनेन अयं उत्सर्ग-अपवाद-सम्बन्धः अपि विनश्यति, यतः अनडुह् + सुँ इत्यत्र केवलं चतुरनडुहोरामुदात्तः (7.1.98) इत्यस्यैव अवसरः जायते । (नुम्-आगमः मित्-अस्ति, अतः अन्यात् अचः परः भवति । परन्तु अनडुह्-इत्यत्र अन्तिमः अच्-वर्णः ‘अ’वर्णः नास्ति । अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति ।) अतः अनेन सूत्रेण प्रथमसोपाने आम्-इत्यस्य आगमः क्रियते । अनेन आगमेन ‘आ’कारस्य ‘अनडुह्’ इत्यत्र समावेशः भवति । ततः सावनडुहः (7.1.82) इत्यनेन नुम्-आगममपि कर्तुं शक्यते । 3) तथैव, सम्बोधनैकवचनस्य प्रक्रियायामपि ‘अनडुह् + सुँ’ इत्यत्र वस्तुतः द्वयोः सूत्रयोः समानकाले प्रसक्तिः अस्ति - (अ) अम् सम्बुद्धौ (7.1.99) इत्यनेन अम्-आगमः । अयम् सम्बुद्धेः सुँ-प्रत्यये परे एव भवति । (आ) सावनडुहः (7.1.82) इत्यनेन नुम्-आगमः । अयं सम्बुद्धेः सुँ-प्रत्यये परे तथा च प्रथमैकवचनस्य सुँ-प्रत्यये परे भवति । अत्र तु अम् सम्बुद्धौ (7.1.99) एतत् सावनडुहः (7.1.82) इत्यस्य अपवादः । अतः अत्र अम्-आगमः एव भवेत्, नुम्-आगमः न भवेत् । परन्तु एतादृशं कुर्मश्चेत् ‘अनड्वट्’ इति दोषपूर्णमन्तिमरूपं जायते । साधु रूपम् तु ‘अनड्वन्’ इति अस्ति, तथा तस्य सिद्धौ नुम् तथा अम् - द्वयोः अपि आगमयोः उपस्थितिः आवश्यकी अस्ति । अतः अत्रापि सावनडुहः (7.1.82) इत्यस्मिन् सूत्रे ‘आत्’ इत्यस्य अनुवृत्तिः स्वीकृत्य उत्सर्ग-अपवाद-सम्बन्धः विनश्यते । ततः प्रथमम् केवलं अम् सम्बुद्धौ (7.1.99) इत्यस्यैव अवसरः जायते , ततः च सावनडुहः (7.1.82) इत्यनेन नुम्-आगममपि कर्तुं शक्यते । अतः अत्र एतत् स्मर्तव्यम्, यत् (1) प्रथमैकवचनस्य रूपसिद्धौ नुम्-आगमेन आम्-आगमः न बाध्यते, (2) सम्बोधनैकवचनस्य रूपसिद्धौ अम्-आगमेन नुम्-आगमः न बाध्यते, यतः अस्मिन् सूत्रे ‘आत्’ इत्यस्य अनुवृत्तिः स्वीकृता अस्ति ।
Sutrartha (English)¶
The अवर्ण of the word अनडुह् get a नुमागम in presence of the सुँ प्रत्यय.
Vasu English Summary¶
अनडुह् gets the augment नुम् before the ending सु of the Nominative 1st-Case singular (and Vocative Case).
Vasu English Translation¶
अनडुह् gets the augment नुम् before the ending सु of the Nominative 1st-Case singular (and Vocative Case). By (7.1.98) अनडुह् gets the augments आ after उ in the strong cases, and अ in Vocative Singular (7.1.99). It thus becomes अनड्वाह् and अनड्वह् ॥ By the present sutra न् is added after this आ and आ ॥ The case-ending is elided by (6.1.68), and the final ह् by (8.2.23). Thus we have अनड्वान् Nominative Singular; and अनड्वय् in the Vocative Singular. The augments आम् and अम् (7.1.98), (7.1.99), do not supersede नुम्, nor are they superseded by नुम् ॥
In this sutra, some read the anuvritti of आत् from (7.1.80); and by so doing they add नुम् to that form of अनडुह् where there is an आ or अ, namely, after the word has taken the augment आम् in the nominative singular by (7.1.98), and अम् in the Vocative by (7.1.99). Therefore, the नुम् does not debar आम् or अम्, nor is it debarred by आम् or अम् ॥ Others hold that though one is a general rule and the other is a particular rule, yet in this instance, आम् (or अम्) and नुम् are applied simultaneously, one not debarring the other, there is no relationship of बाध्य and बाधक among them, just as in चिचीषति the rule of lengthening (6.4.16) and reduplication are applied simultaneously, one not debarring the other. In बह्वनड्वाहि ब्राह्मणकुलानि, we add first आम् because it is subsequent, and them we add नुम् by (7.1.72) on the maxim of पुनः प्रसङ्गविज्ञान &c ॥
Bhashya¶
सावनडुहः ॥ अनडुहः सावाम्प्रतिषेधो नुमोऽनवकाशत्वात् ॥ अनडुहः सावाम्प्रतिषेधः प्राप्नोति ॥ किं कारणम् ? ॥ नुमोऽनवकाशत्वात् । अनवकाशो नुमामं बाधते ॥ न वाऽवर्णोपधस्य नुम्वचनात् ॥ न वैष दोषः ॥ किं कारणम् ? ॥ अवर्णोपधस्य नुम्वचनात् ॥ अवर्णोपधस्य नुमं वक्ष्यामि ॥ तदवर्णग्रहणं कर्तव्यम् ? ॥ न कर्तव्यं, प्रकृतमनुवर्तते ॥क्व प्रकृतम्(1) ? ॥ आच्छीनद्योर्नुमिति ॥ यदि तदनुवर्ततेऽनडुहि यावन्त्यवर्णानि सर्वेभ्यः परो नुम्प्राप्नोति ॥ नैषः दोषः मिदचोऽन्त्यात्पर इत्यनेन यत्सर्वान्त्यमवर्णं तस्मात्परो भविष्यति ॥ ॥ पुनःप्रसङ्गविज्ञानाद्वा सिद्धम् ॥ अथ वा पुनः प्रसङ्गान्नुमि कृते आम्भविष्यति ॥ यथाऽऽत्त्वादिषु द्विर्वचनम् ॥ तद्यथा - जग्ले मम्ले इर्जतुरीजुरित्यात्त्वादिषु कृतेषु पुनः प्रसङ्गादि्द्वर्वचनं भवत्येवमत्रापि(3) नुमि कृते आम्भविष्यति ॥ नैष युक्तः परिहारः । विप्रतिषेधे पुनःप्रसङ्गो । विप्रतिषेधश्च द्वयोः सावकाशयोर्भवति, इह पुनरनवकाशो नुमामं बाधते ॥ एवं तर्हि वृन्तान्तादेष(1) परिहारः प्रस्थितः ॥ कस्माद्वृत्तान्तात् ? ॥ इदमयं चोद्यो भवति - अनडुहः सावाम्प्रतिषेधो नुमोऽनवकाशत्वादिति, तस्य परिहारो न वाऽवर्णोपधस्य नुम्वचनादिति । ततोऽयं चोद्यो भवति - यत्र तर्ह्यवर्णप्रकरणं नास्ति तत्र ते आमा नुमो बाधनं प्राप्नोति बह्वनड्वांहि ब्राह्मणकुलानीति ॥ तत(3) उत्तरकालमिदं पठितं - पुनः प्रसङ्गविज्ञानाद्वा सिद्धमिति ॥ ( सावनडुहः ) ॥
Kashika¶
सौ परतोऽनडुहोऽङ्गस्य नुमागमो भवति। अनड्वान्। हे अनड्वन्। अत्र केचिदादित्यधिकारादाममोः कृतयोर्नुमं कुर्वन्ति। तेन नुमा आममौ न बाध्येते, आमम्भ्यां च नुमिति। अपरे तु सत्यपि सामान्यविशेषत्व आममोर्नुमश्च समावेशमिच्छन्ति, न बाध्यबाधकभावम्, यथा चिचीषत्यादिषु दीर्घत्वद्विर्वचनयोरिति॥
Siddhanta Kaumudi¶
अस्य नुम् स्यात्सौ परे । आदित्यधिकारादवर्णात्परोऽयं नुम् । अतो विशेषविहितेनापि नुमा आम् न बाध्यते । अमा च नुम् न बाध्यते । सोर्लोपः । नुम्विधिसामर्थ्यात् वसुस्रंसु (SK334) इति दत्वं न । संयोगान्तलोपस्याऽसिद्धत्वान्नलोपो न । अनड्वान् ॥
Laghu Siddhanta Kaumudi¶
अस्य नुम् स्यात् सौ परे । अनड्वान् ॥
Balamanorama¶
सावनडुहः - सावनडुहः । अस्येति । अनुडुह्शब्दस्येत्यर्थः । नुम् स्यादिति ।आच्छीनद्योर्नुं॑मित्यतो नुमित्यनुवृत्तेरिति भावः । नुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । अनड्वान् ह् स् इति स्थितम् । ननु आम्नुमौ एतौ मित्त्वादन्त्यादच उकारात्परौ प्राप्तौ । तत्र ‘चतुरनडुहोः’ इत्याम् सर्वनामस्थाननिमित्तकः सामान्यविहितः । ‘सावनडुहः’ इति नुम् तु सर्वनामस्थानविशेषे सौ विहितत्वाद्विशेषविहितः । स च निरवकाशत्वात्सामान्यविहितमामं बाधेत, सोरन्यत्राऽऽम्बिधेश्चरितार्थत्वात् । तथा च ‘अनडुन्’ इति स्यात् । ‘अनड्वान्’ इति न स्यात् । किंच सम्बुद्धौ हे अनडुह् सिति स्थिते ‘अम् सम्बुद्धौ’ इत्यमागम आमपवादोऽनुपदमेव वक्ष्यते । तत्र ‘सावनडुहः’ इति नुमपि प्राप्तः, सच सम्बुद्धावसम्बुद्धौ च विहितत्वात्सामान्यविहितः । ‘अम्सम्बुद्धौ’ इत्यम् तु सम्बुद्धावेव विहितत्वाद्विशेषविहितः । सच निरवकाशत्वात्सामान्यं नुमं बाधेत, असम्बुद्धौ सौ नुम्विधेश्चरितार्थत्वात् । ततश्च हे अनड्वन्निति न स्यात् । ‘हो ढः’ इति ढत्वे हे अनड्वट् इति स्यादित्याशङ्क्याह — आदित्यधिकारादित्यादि, नुम्न बाध्यत इत्यन्तम् । ‘सावनडुहः’ इति नुम्विधौ तावत् ‘आच्छीनद्योः’ इत्यत आदिति पञ्चम्यन्तमनुवर्तते । अतोऽनडुहोऽवर्णात् परो नुमिति लाभाद्विशेषविहितेनापि ‘सावनडुह’ इति नुमाचतुरनडुहो॑रिति सामान्यविहित आम्न बाध्यते, अवर्णात्परत्वेन विधीयमानं नुमं प्रति आम उपजीव्यत्वात्, उपजीव्योपजीवकयोर्विरोधाऽभावेन बाध्यबाधकभावविरहात्, प्रत्युत आमभावे नुमः प्रवृत्त्यसम्भवात् । तथा ‘अम्संबुद्धौ’ इत्यमा च विशेषविहिभावेन बाध्यबाधकभावविरहात्, प्रत्युत आमभावे नुमः प्रवृत्त्यसंभवादित्यर्थः । ननु ‘सावनहुडः’ इति नुम्विधौ आदित्यनु वर्ततां नाम, तथापि आमुपजीवकत्वं नुमो न लभ्यते, अनडुहि नुमो नकाराऽकारात्परत्वेऽपि आदित्यनुवृत्तेरविरोधादिति चेत्, मैवं-॒सावनडुहः॑ इति नुम्विधौ मित्त्वादन्त्यादच इत्युपस्थितम् । तत्र च आदित्यनुवृत्तमन्वेति । ततस्चानडुहि योऽन्त्यरूपोऽवर्णः तस्मात्परो नुमिति लभ्यते । नकाराकारस्तु नैवंविध इत्यामुपजीवकत्वं नुमो निर्बाधमेव । एवं संबुद्धौ अमुपजीवकत्वमपि ज्ञेयम् । क्वचित्पुस्तकेआमा च नुम् न बाध्यते॑ इति पठते । तत्रेयं योजना — ननुबह्वनड्वांहि कुलानी॑त्यत्र ‘नपुंसकस्य झलचः’ इति नुमपेक्षया परत्वादाम् स्यात् । कृते त्वामि पुनर्नुम्न भवति,विप्रतिषेषेन यद्बाधितं तद्बाधितमेवे॑ति न्यायादित्यत आह — ॒आमा च नुम्न बाध्यत॑ इति ।पुनः प्रसङ्गविज्ञानात्सिद्धम् इति क्वचिद्विप्रतिषेधेन बाधितस्य पुनरुन्मेषादामि कृतेऽपि ‘नपुंसकस्य झलचः’ इति नुम्निर्बाध इति भावः । सोर्लोप इति ।अनड्ववान् ह् स् इत्यत्र हल्ङ्यादिने॑ति शेषः । ननु कृते सुलोपे हकारस्य संयोगान्तलोपे नुमो नकारस्य पदान्तत्वात्वसुरुआंसुध्वंस्वनडुहां दः॑ इति दत्वं कुतो न स्यादित्यत आह — नुम्विधीति । यदि ह्यत्र नुमो नस्य दत्वं स्यात्तर्हि अनड्वाहित्यत्र नुमभावेऽपि हस्य दत्वेनैव अनड्वादिति सिद्धेर्नुम्विधिरनर्थकः स्यात् । अतो नुमो नस्य दत्वं नेति विज्ञायत इति भावः ।
Padamanjari¶
इह चतुरनडुहोरामुदातः इत्यामागमः सर्वनामस्थानमात्रे विधीयमानः सोरन्यत्र सावकाशो निरवकाशेन नुमा बाध्येत, तथा सम्बुद्धेरन्यत्र सौ सावकाशो नुम् सम्बुद्धौ विशेषविहितेन अम् सम्बुद्धौ इत्यनेन बाध्येत इत्याशङ्क्याह - अत्र केचिदित्यादि । कथं पुनरादित्यास्यानुवृतौ सत्यामप्याममोः कृतयोर्नुम भवति, न पुनर्थ एवानडुहि नित्यः सन्निहितोऽकारस्तत एव परः स्यात् उच्यते एवं सति मिदचोऽन्त्यात्परः इति परिभाषा बाध्यते, तत्राबाधेनोपपतौ सत्यां बाधो न न्याय्यः । तत्र यथा परिभाषा न बाध्यते आदित्यनुवृत्तिश्च सार्थिका भवति, तथा वक्तव्यम् । यदि चाममोरकृतयोर्नुम् स्यात्, नेदमुभयमनुगृहीतं स्यादिति कृतयोरेव तयोर्नुम् भवि,यति । आमामौ च न बाध्येते इति । न केवलममेव न बाध्यते, अपि त्वाममावुभावपि न बाध्येते इत्यर्थः । अमत्र दृष्टान्तत्वेनोपातः । यथाऽम् न बाध्यते तथा आमिति भावः । न पुनरमो नुमा बाधशङ्का, अमो विशेषविहितत्वात् । आमम्भ्यां च नुमितित । न बाध्यते इति वचनविपरिणामेनानुषङ्गः । अत्रापि यथा आमा न बाध्यते तथाऽमापीत्यर्थः । न पुनरामा नुमो वाधशङ्का तस्य सामान्यत्वात् । अपरे त्वित्यादि । इच्छन्ति एइति वचनादिष्टिरेवेयमिति केचित् । अन्ये त्वाहुः - भवतु वा सामान्यविशेषयोः सन्निधौ बाध्यबाधकभावः, इह त्वनेकेन योगेन व्यवधानम्, असति हि सम्भवे बाधनं भवति, तथैह च अस्ति सम्भवो यदुभयं स्यादित्याममोर्नुमश्च समावेश इति । यथेति । अक्ष नाप्राप्ते द्विवर्चने दीर्घ आरभ्यते । अथ च सम्भावात्प्रकरणभेदाच्च समावेशः । बह्वनड्वांहि ब्राह्मकुलानीति परत्वादामि कृते पुनः प्रसङ्गविज्ञानात् नपुंसकस्य झलचः इति नुम् भवति ॥
Prakriyasarvasvam¶
अस्य सौ आत्परो नुम् स्यात् । अनड्वान्ह् स् । सुलोपः । संयोगान्तलोपः । संयोगान्तलोपस्यासिद्धत्वान् नलोपो न । अनड्वान् । अनड्वाहौ, अनड्वाहः ।
Sudha¶
सावनडुह इति । **आच्छीनद्योर्नुम्**(7.1.80) इत्यतो नुमित्यनुवर्त्याह - नुम् स्यादिति । अनड्वान् । अनडुह् + सु इत्यत्र **चतुरनडुहोरामुदात्तः**(7.1.98) इत्याम् प्राप्तः स क्व स्यादित्याशङ्कायाम् **मिदचोऽन्त्यात्परः**(1.1.47) इति मित्त्वात् उकारोत्तरवर्त्यकारात् परो जातः । एवं सति अनडु आम् ह् सु इति जाते मकारस्येत्संज्ञायां लोपे च ‘अनडु आह् सु’ इति भूते **सावनडुहः**(7.1.82) नुमि उमि गते ‘अनडु आ न् ह् सु’ इति जाते सोरुकारे गते सस्य **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति लोपे **संयोगान्तस्य लोपः**(8.2.23) इति हलोपे **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नलोपे प्राप्ते **पूर्वत्रासिद्धम्**(8.2.1) इत्यनेन संयोगान्तस्य लोपस्य असिद्धत्वात् लोपे न जाते सति डकारोत्तरवर्तिन उकारस्य यणि मिलित्वा ‘अनड्वान्’ इति भवति ।