71078: नाभ्यस्ताच्छतुः¶
Padacheda: न | S | 0 | 0 |
अभ्यस्तात् | S | 5 | 1 |
शतुः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
The participle affix शतृ (अत्-अन्त्) does not take the augment नुम् after a reduplicate अङ्ग (stem).
Vasu English Translation¶
The participle affix शतृ (अत्-अन्त्) does not take the augment नुम् after a reduplicate अङ्ग (stem). Thus ददत्, ददतौ, ददतः, जक्षत्, जक्षतौ, जक्षतः, जाग्रत्, जाग्रतौ, जाग्रतः ॥ This is an exception to (7.1.70), and applies of course to sarvanamasthana or strong cases. The नुम् is to be read into this sutra from (7.1.70); for the negation of this sutra cannot apply to ई taught in the preceding sutra, for ई is never ordained after satri: therefore, though several other operations intervene, yet नुम् is to be read here.
Bhashya¶
नाभ्यस्ताच्छतुः कस्याऽयं प्रतिषेधः ? ॥ नुम इत्याह(1) ॥ तन्नुमो ग्रहणं कर्तव्यम् ? ॥ न कर्तव्यं, प्रकृतमनुवर्तते ॥ क्व प्रकृतम् ? ॥ इदितो नुम्धातोरिति ॥ तद्वै अनेकग्रहणेन(2) व्यवच्छिन्नमशक्यमनुवर्तयितुम् ॥ एवं तर्हि सर्वनामस्थान इति वर्तते, सर्वनामस्थाने यत्प्राप्नोति तस्य प्रतिषेधः ॥ तद्वै बहुतरकेण(3) ग्रहणेन व्यवच्छिन्नमशक्यमनुवर्तयितुम् । अथेदानीं व्यवहितमपि शक्यतेऽनुवर्तयितुं, - नुमेवानुर्वत्यः - ःइहार्थमुत्तरार्थं च । इह(4) चैव प्रतिषेधः सिद्धो भवति, इह च आच्छीनद्योर्नुमिति नुङ्ग्रहणं न कर्तव्यं भवति ॥ (नाभ्यस्ता) ।
Kashika¶
अभ्यस्तादङ्गादुत्तरस्य शतुर्नुम् न भवति। ददत्, ददतौ, ददतः। दधत्, दधतौ, दधतः। जक्षत्, जक्षतौ, जक्षतः। जाग्रत, जाग्रतौ, जाग्रतः। शतुरनन्तर ईकारो न विहित इति व्यवहितस्यापि नुमः प्रतिषेधो विज्ञायते॥
Siddhanta Kaumudi¶
अभ्यस्तात्परस्य शतुर्नुम् न स्यात् । ददत् । ददद् । ददतौ । ददतः ॥
Laghu Siddhanta Kaumudi¶
अभ्यस्तात्परस्य शतुर्नुम् न। ददत्, ददद्। ददतौ। ददतः॥
Balamanorama¶
नाभ्यस्ताच्छतुः - नाभ्यस्ताच्छतुः ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — अभ्यस्तादित्यादिना । दददिति । ददत्शब्दात्सुः । हल्ङ्यादिलोपः ।नाभ्यस्ता॑दिति निषेधात् ‘उगिदचाम्’ इति नुम् न । अत्वन्तत्वाऽभावाच्च न दीर्घ इति भावः ।जक्ष भक्षहसरनयोः॑,जागृ निद्राक्षये॑,दरिद्रा दुर्गतौ॑,चकासृ दीप्तौ॑, ‘शासु अनुशिष्टौ’दीधीङ् दीप्तिदेवनयोः॑,वेवीङ् वेतिना तुल्ये॑ इति सप्त धातवोऽदादौ पठिता सुग्विकरणाः । तेभ्यो लटः शत्रादेशे शब्लुकिं सुबुत्पत्तौ ‘नाभ्यस्ताच्छतुः’ इति निषेध इष्यते ।
Tattvabodhini¶
नाभ्यस्ताच्छतुः - नाभ्यस्ताच्छतुः । व्यवहितोऽपि नुमेवाऽत्र निषिध्यते, अन्येषामप्रसक्तेरित्यभिप्रेत्याह -नुम्न स्यादिति । दददिति । ददातीति ददत् । दाञो लटः शत्रादेशः । शपः श्लुः ।श्लौ॑इति द्वित्वम् । अभ्यासस्य ह्रस्वः ।श्नाभ्यस्तयोरातः॑इत्यलोपः । जक्षित्यदयः षट् ।ज॑क्षिति पृथक् पदम् ।इति॑शब्देन जक्षिरेव परामश्यते । इति आदिर्येषामित्यतद्गुणसंविज्ञानबहुव्रीहिस्तदेतदाह — षड्धातवोऽन्ये इति । इति तान्ताः । गोपायतीति गुप् । क्विपि विवक्षितेआयादय आर्धधातुके वे॑ति वैकल्पिकत्वादिहाऽऽयप्रत्ययाऽभावः । आयप्रत्ययपक्षे त्वतो लोपे यलोपे चगोपा॑इति रूपं बोध्यम् । इति पान्ताः ।
Padamanjari¶
दददिति । श्नाभ्यस्तयोरातः इत्यकारलोपः । जक्षदित्यादौ जक्षित्यादयः षट् इत्यभ्यस्तसंज्ञा । कथं पुनश्चतुर्भिर्योगैर्व्यवहितस्य नुमः प्रतिषेधः शक्यो विज्ञातुम् इत्याह - शतुरन्तरो न विहित इति । अनन्तर ईकारः शत्रन्तस्य न विहितः, एवं तदनन्तर इति यावद्विहितान्वेषणे नुमि पर्यवसानम् ॥
Nyaas¶
उदत्त, ददत्तौ इति। श्नभ्यस्तयोरात्तः (6.4.112) इत्याकारलोपः। अक्षितिजागर्त्त्याः जक्षित्यादयः षट् (6.1.6) इत्यभ्यस्तसंज्ञा। कथं पुनरयं नुमः प्रतिषेधो विज्ञायते, यावता अनन्तस्य विधिर्वा भवति प्रतिषेधो षा (व्या।प।19) इतीकारस्य प्रतिषेधो युक्तः? इत्याह - शतुरनन्तरः इत्यादि। लक्षणान्तरेण विहितस्य प्रतषेधो भवति, न तु शतुरनन्तर ईकारः केनचिद्विहितः। अङ्गस्येति वर्तते, न च नुमोऽन्यत्? कार्यं शतुः सम्भवति। अतः सामर्थ्याद्व्य वहितस्यापि उगिवचाम् (7.1.70) इति नुमः प्रतिषेधो विज्ञायत इति॥
Prakriyasarvasvam¶
अभ्यस्तात्परस्य शतर्नुम् न । ददत् । ददतौ । ददतः ।।
Sudha¶
नाभ्यस्तादिति । **इदितो नुम् धातोः**(7.1.58) इत्यतो नुमित्यनुवर्तते । तदाह - अभ्यस्तादित्यादिना । ददत् - ददद् । ददत् +सु इत्यत्र **उभे अभ्यस्तम्**(6.1.5) इति अभ्यस्तसंज्ञायाम् **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इति नुमि प्राप्ते **नाभ्यस्ताच्छतुः**(7.1.78) इति नुमो निषेधे हल्ङ्यादिना सुलोपे **सुप्तिङन्तं पदम्**(1.4.14) इति पदसंज्ञायां **झलां जशोऽन्ते**(8.2.39) इति तकारस्य दकारे **वाऽवसाने**(8.4.56) इति दकारस्य तकारे ‘ददत्’ इति । चर्त्वाभावपक्षे - ‘ददद्’ इति रूपम् ।
Sutra Prayogas¶
प्रशासत् (किरातार्जुनीयम्): नाभ्यस्ताच्छतुः इति नुमागमप्रतिषेधः।
दधतः (किरातार्जुनीयम्): नाभ्यस्ताच्छतुः इति नुमागमप्रतिषेधः।
चकासतम् (शिशुपालवधम्): नाभ्यस्ताच्छतुः इति नुमभावः।
बिभ्यत् (शिशुपालवधम्): नाभ्यस्ताच्छतुः इति नुमभावः।
बिभ्रत् (शिशुपालवधम्): नाभ्यस्ताच्छतुः इति नुमभावः।
दधत् (शिशुपालवधम्): नाभ्यस्ताच्छतुः इति नुमभावः।
ददतम् (शिशुपालवधम्): नाभ्यस्ताच्छतुः इति नुम्प्रतिषेधः।
बिभ्यत् (शिशुपालवधम्): नाभ्यस्ताच्छतुः इति नुमभावः।
दददपि (शिशुपालवधम्): नाभ्यस्ताच्छतुः इति नुमागमप्रतिषेधः।
बिभ्रतं (शिशुपालवधम्): नाभ्यस्ताच्छतुः इति नुम्प्रतिषेधः।
दधतो (शिशुपालवधम्): नाभ्यस्ताच्छतुः इति नुमभावः।
दधती (भट्टिकाव्यम्): नाभ्यस्ताच्छतुः इति नुम् न भवति।
अभिदधत् (भट्टिकाव्यम्): नाभ्यस्ताच्छतुः इति नुम्प्रतिषेधः।