71079: वा नपुंसकस्य

Padacheda: वा | S | 0 | 0 |

नपुंसकस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

The participle affix शतृ (अत्-अन्त्) optionally takes the augment नुम् after a reduplicate अङ्ग (stem) in Neuter nouns.

Vasu English Translation

The participle affix शतृ (अत्-अन्त्) optionally takes the augment नुम् after a reduplicate अङ्ग (stem) in Neuter nouns. Thus ददति or ददन्ति, कुलानि; दधति or दधन्तिकुलानि, जक्षति or जक्षन्ति कुलानि, जाग्रति or जाग्रन्ति कुलानि ॥ This of course applies to sarvanamasthana or strong cases.

Kashika

अभ्यस्तादङ्गादुत्तरो यः शतृप्रत्ययस्तदन्तस्य नपुंसकस्य वा नुमागमो भवति। ददति, ददन्ति कुलानि। दधति, दधन्ति कुलानि। जक्षति, जक्षन्ति कुलानि। जाग्रति, जाग्रन्ति कुलानि॥

Siddhanta Kaumudi

अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य नुम्वा स्यात्सर्वनामस्थाने परे । ददन्ति । ददति । तुदत् ॥

Laghu Siddhanta Kaumudi

अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य वा नुम् सर्वनामस्थाने। ददन्ति, ददति॥ तुदत्॥

Balamanorama

वा नपुंसकस्य - शौ ‘नाभ्यस्तच्छतुः’ इति नित्यं नुम्निषेधे प्राप्ते — वा नपुंसकस्य । ‘नाभ्यस्ताच्छतुः’ इति सूत्रं नञ्वर्जमनुवर्तते । नपुंसकस्येति व्यत्ययेन पञ्चम्यर्थे षष्ठी । ‘इदितो नुम्धातोः’ इत्यतो नुमितिउगिदचा॑मित्यतः ‘सर्वनामस्थाने’ इति च अनुवर्तते । तदाह — अभ्यस्तादित्यादिना । ददन्तीति । नुमि अनुस्वारपरसवर्णौ । तुददिति । ‘तद व्यथने’ अस्माच्छतृप्रत्यये ‘तुदादिभ्यश्शः’ इति शः शपोऽपवादः, ‘अतो गुणे’ इति शतुरकारेण पररूपे तुदच्छब्दः, तस्मात्स्वमोर्लुक्, प्रत्ययलक्षणविरहादसर्वनामस्थानत्वाच्च न नुम्, जश्त्वचर्त्वे इति भावः ।

Tattvabodhini

वा नपुंसकस्य - दददिति । पुंलिङ्गेऽ[प्य]यं व्युत्पादितः । शतेति ।ऋदुशने॑त्यनङ् । शतृप्रत्यय इत्यर्थः ।

Nyaas

शतुप्रत्ययमात्रं नपुंसके न वर्तत इत्यभ्यस्तादह्गादुसरो यः शता तदन्तस्य नपुंसकस्य विकल्पो विज्ञायत इत्याह - अभ्यास्तादङ्गात् इत्यादि॥

Prakriyasarvasvam

अभ्यस्ताच्छत्रन्तस्य क्लीबस्य सर्वनामस्थाने नुम् वा स्यात् । ददन्ति, ददति । एवं जक्षज्जाग्रदादि । तुदत् । तुदत् शी । ‘आच्छीनद्योर्नुम् (७-१-८०) इति वा नुम् । तुदन्ती, तुदती । तुदन्ति । पचत् । ‘शप्श्यनोर्नित्यम्’ (७-१-८१) इति नुम् । पचन्ती । पचन्ति, इत्यादि ङीबुक्तवद् ज्ञेयम् । समासान्तविधेरनित्यत्वाद् ‘ऋक्पूः—’ (५-४-७४) इत्यप्रत्ययाभावे ‘ बह्वप् । बह्वपी । ‘अप्तृन्—’ (६-४-११) इति दीर्घः । दीर्घो नेति केचित् । बह्वाम्पि, बह्वम्पि । बह्वपा । ‘अपो भि’ (७-४-४८) बह्वद्भ्याम् । वृक्षतट् । वृक्षतक्षी । नुम् । वृक्षतङ्क्षि ॥ पयः । पयसी । नुमि ‘सान्तमहतः—’ (६-४-१०) इति दीर्घः । पयांसि । पयसा । पयोभ्याम् । पयस्सु । वस्वादिना दः पपिवत् । पपुषी । पपिवांसि । हविः । उणादिप्रत्ययसस्य षः । हविषी । नुमि ‘सान्त—’ (६-४-१०) इति दीर्घः । नुम्व्यवाये षः हवींषि । हविषा । हविर्भ्याम् । हविष्षु । एवं धनुरादि । पिपठिष्- शब्दस्य तु ‘र्वोः—’ (८-२-७६) इति दीर्घः । पिपठीः । पिपठिषी । क्विप्कृतस्यातो लोपस्य स्थानिवत्त्वाच्छौ नुम् न । पिपठिषि । अदसः स्वमोर्लुकि रुत्वादेरसिद्धत्वेन सकारवत्त्वाद् ‘अदसोऽसेः—’ (८-२-८०) इति उत्वमत्वे न । अदः । अदे अदानीति स्थिते उत्वमत्वे । अमू । अमूनि । टादौ पुंवत् ॥

Sudha

वा नपुंसकस्येतिनाभ्यस्ताच्छतुः**(7.1.78) इत्यत अभ्यस्ताच्छतुरित्यनुवर्तते, **इदितो नुम् धातोः**(7.1.58) इत्यतो नुम् इति, **उगिदचाम् इत्यतः सर्वनामस्थाने इति च अनुवर्तते । तदाह - अभ्यस्तादित्यादिना । ददन्ति, ददति । “ददत् + जस्” अत्र जश्शसोः शिः**(7.1.20) इति जसः स्थाने शौ कृते शस्येत्सञ्ज्ञायां लोपे च **शि सर्वनामस्थानम्**(1.1.42) इति सर्वनामस्थानसञ्ज्ञायां **नपुंसकस्य झलचः**(7.1.72) इति नुमि प्राप्ते **नाभ्यस्ताच्छतुः**(7.1.78) इति निषिद्धे **वा नपुंसकस्य**(7.1.79) इति विकल्पेन नुमि उमि गते मित्वादन्त्यादचः परे **नश्चापदान्तस्य झलि**(8.3.24) इति अनुस्वारे, **अनुस्वारस्य ययि परसवर्णः**(8.4.58) इति परसवर्णे ‘ददन्ति’ इति । नुमभावे - ‘ददति’ इति । तुदत् । तुद व्यथने अस्माच्छतृप्रत्यये **तुदादिभ्यः शः (3.1.77) इति शः, शपोऽपवादः, **अतो गुणे**(6.1.97) इति शतुरकारेण पररूपे तुदच्छब्दः तस्मात्स्वमोर्लुक इति भावः ।

Sutra Prayogas

  • सृजती (रघुवंशम्): वा नपुंसकस्य इति वर्तमाने।

  • दधन्ति (किरातार्जुनीयम्): वा नपुंसकस्य इति विकल्पाच्छतुर्नुमागमः।

  • दधति (किरातार्जुनीयम्): वा नपुंसकस्य इति विकल्पानुमभावः।

  • बिभ्रन्ति (शिशुपालवधम्): वा नपुंसकस्य इति नुमागमः।

  • दधति (शिशुपालवधम्): वा नपुंसकस्य इति अभ्यस्ताच्छतुर्वैकल्पिको नुम्प्रतिषेधः।

  • विदधति (शिशुपालवधम्): वा नपुंसकस्य इति वैकल्पिको नुम्प्रतिषेधः।

  • बिभ्रति (शिशुपालवधम्): वा नपुंसकस्य इति विकल्पान्नुमागमप्रतिषेधः।

  • बिभ्यश्रुवते (भट्टिकाव्यम्): वा नपुंसकस्य इति शतुर्नुमभावपक्षे रूपम्।