71054: ह्रस्वनद्यापो नुट्

Padacheda: ह्रस्व-नदी-आपः | S | 5 | 1 |

नुट् | S | 1 | 1 |

Sutrartha

ह्रस्वन्तात्, नदीसंज्ञकात्, आबन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः भवति ।

अनेन सूत्रेण त्रिविधानाम् शब्दानाम् विषये षष्ठीबहुवचनस्य ‘आम्’-प्रत्ययस्य नुट्-आगमः विधीयते । ते एतादृशाः - 1. ह्रस्व-स्वरान्तशब्दाः - यथा - बाल, फल, मुनि, मति, वारि, साधु, धेनु, मधु, मातृ, पितृ, धातृ । 2. नदीसंज्ञकशब्दाः - एते द्वयोः सूत्रयोः विधीयन्ते - अ) यू स्त्र्याख्यो नदी (1.4.3) इत्यनेन इत्यतः दीर्घ-ईकारान्त/ऊकारान्तानाम् नित्यस्त्रीलिङ्गशब्दानाम् नदीसंज्ञा भवति । यथा - नदी, गौरी, चञ्चू, वधू । आ) वाऽमि (1.4.5) इत्यनेन स्त्री-शब्दं वर्जयित्वा अन्येषाम् इयङ्-स्थानिनाम् / उवङ्स्थानिनाम् नित्यस्त्रीलिङ्गशब्दानामाम्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति । यथा - श्री, धी, भ्रू आदयः । 3. आबन्तशब्दाः - आप्-येषामन्ते ते आबन्ताः । अत्र ‘आप्’ इत्यनेन ‘टाप्’, ‘चाप्’ तथा ‘डाप्’ - एते त्रयः प्रत्ययाः गृह्यन्ते । अतः एते प्रत्ययान्ताः येषामन्ते, ते शब्दाः आबन्ताः नाम्ना ज्ञायन्ते । यथा, शाला, लता, अजा, सूर्या - आदयः । सर्वे आकारान्त-स्त्रीलिङ्गशब्दाः अनेन गृह्यन्ते । एतेषाम् सर्वेषाम् परस्य षष्ठीबहुवचनस्य ‘आम्’-प्रत्ययस्य नुट्-आगमः भवति । अयम् टित्-आगमः, अतः आद्यन्तौ टकितौ (1.1.46) इत्यनेन प्रत्ययस्य आद्यवयवरूपेण आगच्छति । उदाहरणानि एतानि - 1. बाल + आम् [स्वौजस्.. (4.1.2) इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → बाल + नुट् + आम् [ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन ह्रस्वात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ] → बाल + न् + आम् [इत्संज्ञालोपः] → बाला नाम् [नामि (6.4.3) इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः] → बालानाम् 2. गौरी + आम् [स्वौजस्.. (4.1.2) इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → गौरी + नुट् + आम् [ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन नद्यन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ] → गौरी + न् + आम् [इत्संज्ञालोपः] → गौरी नाम् [नामि (6.4.3) इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः] → गौरीणाम् [अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इत्यनेन णत्वम्] 3. भ्रू + आम् [स्वौजस्.. (4.1.2) इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → भ्रू + नुट् + आम् [वाऽमि (1.4.5) इत्यनेन आम्-प्रत्यये परे भ्रू-शब्दस्य विकल्पेन नदीसंज्ञा । नदीसंज्ञायाम् सत्याम् ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन नद्यन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ] → भ्रू + न् + आम् [इत्संज्ञालोपः] → भ्रू नाम् [नामि (6.4.3) इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः] → भ्रूणाम् [अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इत्यनेन णत्वम्] 4. माला + आम् [स्वौजस्.. (4.1.2) इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → माला + नुट् + आम् [ ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन आबन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ] → माला + न् + आम् [इत्संज्ञालोपः] → माला + नाम् [नामि (6.4.3) इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः] → मालानाम् 5. बहुश्रेयसी + आम् [स्वौजस्.. (4.1.2) इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → बहुश्रेयसी + नुट् + आम् [ अनेन वात्तिकेन नदीसंज्ञायाम् प्राप्तायाम् ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन नुट्-आगमः] → बहुश्रेयसी + न् + आम् [इत्संज्ञालोपः] → बहुश्रेयसी + नाम् [नामि (6.4.3) इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः] → बहुश्रेयसीनाम् ज्ञातव्यम् - 1. अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् अनया परिभाषया सप्तम्या निर्दिष्टम् पदम् स्थानिनम् दर्शयति । 2. अस्मिन् सूत्रे निर्दिष्टः ‘आम्’ शब्दः षष्ठीबहुवचनस्य प्रत्ययः अस्ति, सप्तमी-एकवचनस्य ङेराम्नद्याम्नीभ्यः (7.3.116) इत्यनेन निर्दिष्टः आम्-आगमः नास्तीति भाष्ये स्पष्टीकृतमस्ति । 3. अयम् नुट्-आगमः आकारान्त/ईकारान्त/ऊकारान्त-पुँल्लिङशब्दानाम् विषये न भवति । यथा - हाहा + आम् → हाहाम् । सेनानी + आम् → सेनान्याम् । खलपू + आम् → खलप्वाम् ।

Sutrartha (English)

The आम्-प्रत्यय that follows a ह्रस्व word, a नदीसंज्ञक word, or an आबन्त word gets a नुट्-आगम.

Vasu English Summary

The augment न् is added before the Genitive 6th-Case plural ending आम् after the अङ्ग (stems) ending in a short vowel after अङ्ग (stems) called नदी – यू स्त्र्याख्यौ नदी (1.4.3) etc., and after the अङ्ग (stems) ending in the feminine affix आ।

Vasu English Translation

The augment न् is added before the Genitive 6th-Case plural ending आम् after the अङ्ग (stems) ending in a short vowel after अङ्ग (stems) called नदी – यू स्त्र्याख्यौ नदी (1.4.3) etc., and after the अङ्ग (stems) ending in the feminine affix आ। As वृक्षाणाम्, प्लक्षानाम्, अग्नीणाम्, वायूनाम्, कर्तॄणाम् ॥ नद्यन्तात् :- कुमारीणाम्, किशोरीणाम्, गौरीणाम्, शार्ङ्गरवीणाम्, लक्ष्मीणाम्, ब्रह्मबन्धूनाम्, वीरबन्धूनाम् ॥ आयन्तात्ः- खट्वानाम्, मालानाम्, बहुराजानाम्, कारीषगन्ध्यानाम् ॥

The lengthening of the short final vowel takes place by (6.4.3).

Bhashya

ह्रस्वनद्यापो नुट् आमि सर्वनाम्नः सुट् ॥ त्रेस्त्रयः ॥ इमे बहव आम्शब्दाः(4) - कास्प्रत्ययादाममन्त्रे लिटि । ङसोसाम् किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे । ङेराम्नद्याम्नीभ्य इति, कस्येदं ग्रहणम् ? ॥ षष्ठीबहुवचनस्य ग्रहणम्(1) ॥ अथास्य कस्मान्न भवति - कास्प्रत्ययादाममन्त्रे लिटीति ? ॥ अननुबन्धकग्रहणे हि न सानुबन्धकस्येति ॥ स तर्ह्यस्यैवमर्थोऽनुबन्धः कर्तव्य इहास्य ग्रहणं मा भूदिति ? ॥ ननु चावश्यं मकारस्येत्संज्ञापरित्राणार्थोऽनुबन्धः कर्तव्यः ॥ नार्थ इत्संज्ञापरित्राणार्थेन, इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ॥ इदमस्तीत्कार्यं - मिदचोऽन्त्यात्पर इत्यचामन्त्यात्परो यथा स्यात् ॥ प्रत्ययान्तादयं विधीयते, तत्र नास्ति विशेषोमिदचोन्त्यात्परइति वा परत्वे, प्रत्ययः पर इति वा (परत्वे(2)) ॥ यस्तर्हि न प्रत्ययान्तात् - ःइजादेश्च गुरुमतोऽनृच्छ इति ? ॥ अत्रापि आस्कारसोराम्वचनं ज्ञापकं - नायमचामन्त्यात्परो भवतीति ॥ कथं कृत्वा ज्ञापकम् ? ॥ ह्यस्ति विशेषः - आम्यचामन्त्यात्परे सत्यसति वा ॥ अयमस्ति विशेषोऽसत्यामि द्विर्वचनेन भवितव्यं, सति न भवितव्यम् ॥ सत्यपि भवितव्यम् ॥ कथम् ? ॥ आमस्तन्मध्यपतितत्वाद्धातुग्रहणेन ग्रहणात् । तदेतत्कासासोराम्वचनं ज्ञापकमेव - नायमचामन्त्यात्परो(1) भवतीति ॥ अथापि कथं चिदित्कार्यं स्यादेवमपि न दोषः, - क्रियते न्यास एव - आमअमन्त्रे(2) इति । यद्येवमामाऽमन्त्र इति प्राप्नोति ॥ शकन्धुन्यायेन निर्देशः ॥ अथ वाऽस्त्वस्य ग्रहणं को दोषः ? ॥ इह कारयांचकार हारयांचकार चिकीर्षांचकार जिहीर्षांचकार, ह्रस्वनद्यापो नुडिति नुट्प्रसज्येत ॥ लोपाऽयादेशयोः कृतयोर्न भविष्यति ॥ इदमिह संप्रधार्यं - लोपायादेशौ क्रियेतां(2) नुडिति; किमत्र कर्तव्यम् ? ॥ परत्वान्नुट् ॥ नित्यौ लोपाऽयादेशौ, कृतेऽपि नुटि प्राप्नुतोऽकृतेपि । तत्र नित्यत्वाल्लोपाऽयादेशयोः कृतयोर्विहतनिमित्तत्वान्नुग्न भविष्यति ॥ अथास्य कस्मान्न भवति - किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षइति ? ॥ अननुबन्धकग्रहणे हि न सानुबन्धकस्येति ॥ स तर्ह्येवमर्थोऽनुबन्धः कर्तव्यः ? ॥ ननु चावश्यमुगित्कार्यार्थोऽनुबन्धः कर्तव्यः ॥ नार्थ उगित्कार्यार्थेनाऽनुबन्धेन । लिङ्गविभक्तिप्रकरणे सर्वमुगित्कार्यां, न चामो लिङ्गविभक्ती स्तः । अव्ययमेषः ॥ मकारस्य तर्हीत्संज्ञापरित्राणार्थोऽनुबन्धः कर्तव्यः ॥ इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ॥ इदमस्तीत्कार्यं - मिदचोन्त्यात्पर इत्यचामन्त्यात्परो यथा स्यात् ॥ नैतदस्ति । घान्तादयं विधीयते तत्र नास्ति विशेषः - मिदचोन्त्यात्पर इति वा(1) परत्वे प्रत्ययः पर इति वा परत्वे ॥ अथापि कथं चिदित्कार्यं स्यादेवमपि न दोषः - क्रियते न्यास एव ॥ अथ वाऽस्त्वस्य ग्रहणं को दोषः ? ॥ इह-पचतितरां जल्पतितरां, - ह्रस्वनद्यापो नुडिति, नुट्प्रसज्येत ॥ लोपे कृते न भविष्यति ॥ इदमिह संप्रधार्थं लोपः क्रियतां नुडिति, किमत्र कर्तव्यम् ? ॥ परत्वान्नुट् ॥ एवं तर्हि ह्रस्वनद्यापो नुडित्यत्र यस्येति लोपोऽनुवर्तिष्यते ॥ अथास्य कस्मान्न भवति ङेराम्नद्याम्नीभ्यइति ? ॥ किं च स्यात् ? ॥ कुमार्यां किशोर्यां खट्वायां मालायां तस्यां यस्यामिति, - ह्रस्वनद्याप नुडिति नुट्प्रसज्येत ॥ आड्याट्स्याटोऽत्र बाधका भविष्यन्ति ॥ इदमिह संप्रधार्यम् - आड्याट्स्याटः क्रियन्तां, नुडिचि, - किमत्र कर्तव्यम् ? ॥ परत्वादाड्याट्स्याटः ॥ अथेदानीमाड्याट्स्याट्त्सु कृतेषु पुनः प्रसङ्गान्नुट्कस्मान्न भवति ? ॥ सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवेति ॥ (ह्रस्वनद्यापो) ॥

Kashika

ह्रस्वान्ताद् नद्यन्तादाबन्ताच्चोत्तरस्यामो नुडागमो भवति। ह्रस्वान्तात् तावत् — वक्षाणाम्। प्लक्षाणाम्। अग्नीनाम्। वायूनाम्। कर्तृणाम्। नद्यन्तात् — कुमारीणाम्। किशोरीणाम्। गौरीणाम्। शार्ङ्गरवीणाम्। लक्ष्मीणाम्। ब्रह्मबन्धूनाम्। वीरबन्धूनाम्। आबन्तात् — खट्वानाम्। मालानाम्। बहुराजानाम्। कारीषगन्ध्यानाम्॥

Siddhanta Kaumudi

ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः स्यात् ॥

Laghu Siddhanta Kaumudi

ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः॥

Balamanorama

ह्रस्वनद्यापो नुट् - तदाह — ह्रस्वान्तादित्यादिना ‘आम्’ अत्र षष्ठीबहुवचनमेव, नतुङेरा॑मित्यादिविहितमिति भाष्ये स्पष्टम् । नुटि टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः ।

Tattvabodhini

ह्रस्वनद्यापो नुट् - ह्रस्वनद्यापो ।अङ्गस्ये॑त्यनुवर्तते । तच्च पञ्चन्यन्तेन सामानाधिकरण्यादङ्गादिति विपरिणमय्य ह्रस्वादिभिर्विशेष्यते, विशेषणेन तदन्तविधिरित्याशयेनाह-ह्रस्वान्तादिति । एतेनह्रस्वनद्यापः-॑ इति पञ्चमी न तु षष्ठीति स्फोरितम् । ज्ञापकं त्वत्रनामी॑ति । नहि प्रकृत्यागमत्वे अङ्गसंज्ञानिमित्तं नाम् सम्भवति । एवं चानया पञ्चम्याऽनन्यार्थयातस्मादित्युत्तरस्ये॑ति परिभाषोपस्थित्याआमि सर्वनाम्नः सुट् इत्यतोऽनुवृत्तमामीति सप्तम्यन्तंडः सि धु॑डित्यत्रेव षष्ठ्या विपरिणम्यते,अमी॑ति सप्तम्याःत्रेस्त्रयः॑ इत्यत्र चरितार्थत्वादित्यभिप्रेत्याह-आमो नुडागमः स्यादिति । अत्र नव्याः-॒नुट् इति योगं विभज्यअङ्गात्परस्यामो नुट् इत्युत्सर्गविधि कृत्वानद्यापः॑ इत्यंशेनदीर्घात्परस्यामो नुट् चेद्भवति तर्हि नद्याप एव॑ इति नियमविधिं व्याख्याय ह्रस्वग्रहणं प्रत्याख्येयम् । न चैवंलिहां॑दुहा॑मित्यादावतिप्रसङ्गैति वाच्यम् ।हलन्ताच्चेद्भवति तर्हि षट्चतुभ्र्य एवे॑ति नियमाभ्युपगमात् ।ध्वस्वनडुहां॑कतिपयचतुरां॑यजिक्रुञ्चा॑झलाम् इत्यादिनिर्देशाच्च । तस्माद्ध्रस्वग्रहणप्रत्याख्याने न कोऽपि द#ओष इत्याहुः । अत्र वदन्ति — ॒नु॑डिति पृथग्योगे कृते सति ङेरामि कृते परमप्याटं बाधित्वाऽन्तरङ्गत्वादामो नुट् स्यात् । तथा च-॒परत्वादाटा नुड्बाध्यते॑-इति वक्ष्यमाणग्रन्थेन,आटि कृते सकृद्गतिन्यायान्नुड् ने॑ति भाष्यग्रन्थेन च विरोधः स्यात् । यद्यपिनियमसूत्राणां विधिमुखेन प्रवृत्ति॑रिति पक्षे ङेरामि कृते तस्यनद्यापः॑ इत्यनेनैव नुडागमे प्रसज्यमानेआण्नद्याः॑ इत्यनेन स बाध्यत इतिपरत्वादाटा नुड् बाध्यत॑ इत्यादिग्रन्थः सङ्गच्छते, तथापिनियमसूत्राणां निषेधमुखेन प्रवृत्ति॑रिति पक्षे परमपि आटं बाधित्वा अन्तरङ्गत्वान्नुट् स्यादेव । किंचनद्यापः॑ इत्यत्रनद्यापः परस्यामो नुडेव स्यान्नान्यत् इत्यर्थः स्यात् । तथा च गौर्यां रमायां सर्वासां सर्वस्यामिति न सिध्येत् । सुडामस्य पुंसि, आट्-याट्-स्याडागमानां तु ङिदन्तरे चरितार्थत्वात् । अपि च गौर्यामित्यादौ ङेरामि कृते नुटं बाधित्वा प्राप्तमाटं बाधितुं नदीग्रहणम् । एवं रमायां सर्वासां सर्वस्यामित्यादौ प्राप्तं याटं सुटं स्याटं च बाधितुमाब्ग्रहणमितिनद्यापः॑ एतद्विध्यर्थमेव स्यान्न नियमार्थम् । ततश्च विआपां वातप्रम्यामित्यादौ नुड् दुर्वार एव ।नद्यां मतुप्भाषायां सदवसश्रुवः॑सर्वसां प्रायदर्शनम्तदस्यां प्रहरणम् इत्यादिनिर्देशाञ्शरणीकृत्य विध्यर्थत्वापादनस्य, नुडेवेति प्रागुक्तनियमस्य [च] निवारणे तु प्रतिपत्तिगौरवम् । अपि च-॒आकारान्तादीकारान्तादूकारान्ताच्चेद्भवति तर्हि नद्याप एव॑ इति नियमस्यापि संभवाद्विआपां वातप्रम्यां खलप्वामित्यादौ नुडागमाऽभावेऽपि गवामित्यादौ नुट् स्यात् । न च छन्दसिगोः पादान्ते॑ इत्यारम्भाल्लोके गोशह्दात्परस्यामो नुड् न भवेदिति वाच्यम्,पादान्ते गोशब्दात्परस्यामो नुट् चेच्छन्दस्येवे॑ति नियमेन लोके पादान्तेगोना॑मिति प्रयोगस्याभावेऽप्यपादान्ते तस्याऽनिवर्त्त्यत्वापत्तेः । रायां ग्लावां नावामित्यादौ दुर्निवारत्वाच्च । यदि तुदीर्घात्परस्य आमो नुट्चे॑दित्यादिनियमेगोः पादान्ते॑ इति सूत्रं विध्यर्थं भवेत् ।आकारान्तादिभ्यः परस्यामो नुट् चे॑दित्यादिनियमे तु नियमार्थं स्यात् । तत्र विधिनियमयोर्विधिरेव ज्यायानिति न्यायाननुसन्धानेनदीर्घान्तात्परस्यामो नुट् चे॑दित्यादिनियम एव स्वीक्रियत इत्युच्यते तदापि पुनः प्रतिपत्तिगौरवमस्त्येवदीर्घान्तात्परस्यामो नुट् चे॑दित्यादिनियम एव स्वीक्रियत इत्युच्यते तदापि पुनः प्रतिपत्तिगौरवमस्त्येव, तस्माद्ध्रस्वग्रहणप्रत्याख्यानस्यातिक्लेशसाध्यत्वाद्यथाश्रुतमेव रमणीयमिति ।

Padamanjari

ह्रस्वनद्याप इति पञ्चमी, नामि इति लिङ्गेन अन्यथाऽङ्गनिमितस्य नामो न ह्यस्ति सम्भवः ॥

Nyaas

कुमारीणाम् इति। वयसि प्रथमे (4.1.20) इति ङीष्। गौरीणाम् इति। षिद्गौरादिभ्यश्च (4.1.41) इति ङीष्। शाङ्र्गरवीणाम् इति। शाङ्र्गरवाद्यञो ङीन् (4.1.73) इति ङीन्। लक्ष्मीणाम् इति। अवितृस्तृतन्त्रिभ्य ईः (पं।उ। 3-158) इत्यनुवृत्तौ लक्षेर्मुट्? च (पं।उ।3।160) इतीर्मुट्? च। ब्राहृबन्धूनम् इति। ब्राहृआ बन्धुरासामिति बहुव्रीहिः। ऊङुतः (4.1.66) इत्यूङ्। `खट्वानाम् इति। अजाद्यतष्टाप् (4.1.4) । बहुराजानाम् इति। डाबुभाभ्यामन्यतरस्याम् (4.1.13) इति डाप्। कारीषगन्ध्यानाम् इति। कारीषगन्धेरपत्यमित्यण। तस्य अणिञोरनार्षयोः (4.1.78) इत्यादिना ष्यङादेशः, यङ्श्चाप् (4.1.74) इति चाप्॥

Prakriyasarvasvam

ह्रस्वान्तान्नद्यन्तादाबन्ताच्च परस्यामो नुट् स्यात् । कृष्ण नाम् । ‘सुपि च’ (७-३-१०१) इति दीर्घः । कृष्णानाम् । कृष्ण ङि । ङलोपः ‘आद् गुणः’ (६-१-८७) । कृष्णे । आद् गुणस्य षत्वतुकोरसिद्धत्वात् कृष्णे च्छद्मेत्यत्र ह्रस्वान्नित्यं तुकि प्राप्ते ‘सम्प्रसारणङीट्सु’ प्रतिषेधो वाच्य (वा) इति ङावसिद्ध- त्वाभावात् पदान्ताद् दीर्घाद्वा तुक् । कृष्णे च्छद्म । कृष्णे छद्म । ओसि कृष्णयोः । कृष्ण सु । झल्येत्त्वम् । प्रत्ययसस्य षः । कृष्णेषु । कृष्णस्य मायावित्वाद् द्वित्वबहुत्वे ।।

Sarala

ह्रस्वश्च नदी च आप् च - एषां समाहारः ह्रस्वनद्याप्, तस्मात् - ह्रस्वनद्यापः - पञ्चम्यन्तं, नुट् - प्रथमान्तम् ॥

Sudha

ह्रस्वनद्याप इति । ह्रस्वश्च नदी च आप् चेति समाहारद्वन्द्वाद्दिग्योगे पञ्चमी । परस्य इत्यध्याहार्यम् । अङ्गस्य**(6.4.1) इत्यधिकृतं पञ्चम्या विपरिणम्य ह्रस्वादिभिर्विशेष्यते । अतस्तदन्तविधिः । **आमि सर्वनाम्नः सुट्**(7.1.52) इत्यतः आमि इत्यनुवर्तते । तच्च <!उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्!> इति न्यायात् **तस्मादित्युत्तरस्य**(1.1.67) इति षष्ठ्यन्ते सम्पद्यते । तदाह - **ह्रस्वान्तादित्यादिना ।

Vartika

नुमचिरतृज्वद्भावेभ्यो नुट्पूर्वविप्रतिषेधेन ।