71048: इष्ट्वीनमिति च ===================== **Padacheda:** इष्ट्वीनम् | S | 1 | 1 | इति | S | 0 | 0 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas) the Absolutive इष्ट्वीनम् is irregularly formed for इष्ट्वा। Vasu English Translation ------------------------ In the छन्दस् (Vedas) the Absolutive इष्ट्वीनम् is irregularly formed for इष्ट्वा। To the root यज् is added that क्त्वा, and the final आ is replaced by ईनम् ॥ As इष्ट्वीनम् देवान् for इष्ट्वा देवान् ॥ The च in the *sutra* indicates that there are other forms like this, as पीत्वीनम् for पीत्वा ॥ Kashika ------- इष्ट्वीनमित्ययं शब्दो निपात्यते छन्दसि विषये। यजेः क्त्वाप्रत्ययान्तस्य ईनमादेशोऽन्त्यस्य निपात्यते। इष्ट्वीनं देवान्। इष्ट्वा देवानिति प्राप्ते। पीत्वीनमित्यपीष्यते। चकारस्यानुक्तसमुच्चयार्थत्वात् सिद्धम्॥ Siddhanta Kaumudi ----------------- क्त्वाप्रत्ययस्य ईनमन्तादेशो निपात्यते । इष्ट्वीनं देवान् । इष्ट्वा इति प्राप्ते ॥ Nyaas ----- `इष्ट्वीनम्` इति। वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्। `पीत्वीनम्` इति। `धुमास्था` (6.4.66) इत्यादिनेत्त्वम्। एतच्चेतिकरणादाद्यर्थाच्चकरास्यानुक्तसमुच्चयार्थत्वाद्वा लभ्यते। अनयोरन्यतरोपादानेनैव सिद्ध उभयोरुपादानं वैचित्र्यार्थम्॥ Prakriyasarvasvam ----------------- क्वायामीत्वं निपात्यते । इष्ट्वीनं देवान् । इष्ट्वा इत्यर्थः । इति करणात् पीत्वीनं सोममित्याद्यपि ।