71043: यजध्वैनमिति च

Padacheda: यजध्वैनम् | S | 1 | 1 |

इति | S | 0 | 0 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

यजध्वैनम् is irregularly formed in the छन्दस् (Vedas) for यजध्वनमेनम्।

Vasu English Translation

यजध्वैनम् is irregularly formed in the छन्दस् (Vedas) for यजध्वनमेनम्। The word यजध्वम् followed by एनम् loses its final म् in the Veda. As यजध्वैनं प्रियमेधाः (Rig VIII.2.37). The Kasika adds “that व is also irregularly changed into य” : the form would then be यजध्यैनम् ॥ This is, however, a mistake as pointed out by Bhattoji Dikshit.

Kashika

यजध्वमित्येतस्य एनमित्येतस्मिन् परतो मकारलोपो निपात्यते वकारस्य च यकारः छन्दसि विषये। यज॑ध्वैनं प्रियमेधाः॒ (ऋ०८.२.३७)। यजध्वमेनमिति प्राप्ते ॥

Siddhanta Kaumudi

एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते । यजध्वैनं प्रियमेधाः (यज॑ध्वैनं प्रियमेधाः) । वकारस्य यकारो निपात्यत इति वृत्तिकारोक्तिः प्रामादिकी ॥

Prakriyasarvasvam

यजध्यैनं प्रियमेधाः इति क्वचिच्छाखायाम् । यजध्वमेनमित्यर्थः । बह्वृच- मतेन तु यजध्वैनमिति चेति सूत्रपाठे मलोपमात्रनिपातनं चेति रामः ।